SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ खयायार 718 - अभिधानराजेन्द्रः भाग-३ खयायार निग्रन्र्थीनामधिकारे अवसन्नत्वे षष्ठोद्देशके चरमसूत्रद्वयादनुवर्त्त-माने, सप्तमे उद्देशके सूत्रद्वयस्यारम्भो भवति। तत्र यथाषष्ठोद्देशके चरमसूत्रद्वये एकस्मिन् सूत्रे निर्ग्रन्थीद्वितीयसूत्रे निग्रन्थ एवमिहापि न / यत आहनवरं सूत्रद्वयेऽपि द्वे अपि निन्थ्यौ , एवमनने संबन्धेनायातस्यास्य व्याख्या ये निर्ग्रन्था निर्ग्रन्थयश्च सांभोगिकाः स्युस्तेषांमध्ये निर्ग्रन्थीनां न कल्पते निर्गन्थाननापृच्छ्यान्यस्मात् गणादागतरं, क्षताचारां संक्लिष्टाचारममीषां शब्दानामर्थः प्राग्वत् / यस्मिन् स्थाने सीदति स तस्य स्थानस्य अनालोच्य अप्रतिक्रम्य प्रायश्चित्तमप्रतिपाद्य प्रष्टुं वा वाचयितुंवा उपस्थापयितुंवाषण्णांसंभोगानामन्यतमेन संभोगेन संभोक्तुं | वा तस्याम् इत्वरां दिशमाचार्यलक्षणामनुदिशं वा उपाध्यायप्रवर्तिनीलक्षणामुपदेष्टुं वा अनुज्ञातुं, नापि तस्याः स्वयं धारयितुमित्येष प्रथमसूत्राक्षरार्थः। सम्प्रति भाष्यविस्तरःसुत्तं धम्मकहनिमि-त्तमादि घेत्तूण निग्गया गच्छा। षण्णवणचेइयाणं, पूयं काऊण आगमणं / / 2 / / कस्याप्याचार्यस्य शिष्या, सा, सूत्रम्, उपलक्षणमेतदर्थं च गृहीत्वा, तथा धर्मकथाः पठित्वा, निमित्तं चातीतानागतादिकं गृहीत्वा, आदिशब्दाद्विद्यामन्त्रचूर्ण योगांश्च ज्ञात्वा गच्छानिर्गता / ततः संनिमित्तादिबलेन धर्मकथया च इभ्यादीनामीप्सिता जाता। ततः संस्तवेनानावृन्य चैत्यायतनप्रज्ञापनाश्चैत्यायतनं कारितवती, विपुलं तत्र सत्कारसमुदयमनुभवति / अन्यदा सा महत्तरिका तस्याः संबोधनार्थं विहारप्रत्ययं वा चैत्यमहमुद्दिश्य वा तत्र समागता, सा तस्याः शिष्या परितुष्टा, तत इभ्यगृहेषु विविधान्यशनादीनिवस्त्राणि च महार्हाणि तस्या महत्तराया महत्तरिकया साऽनुशिष्टाकिंसद्याप्यर्थे ! पार्श्वस्थेन तिष्ठासि, कुरु संयमे समुद्योगं, स्वयं वा सा उद्यतकामा, एवं तस्यामुपस्थितायां यदि चैत्यानामन्यः शुश्रूषकोऽस्ति ततस्तस्मात्स्थानात्प्रतिक्राम्यते / अथ नास्ति चैत्यानामन्यः शुश्रूषकस्ततो यदितस्मात्स्थानात् प्रतिक्राम्यतां महत्तरिका नयति, तदा चैत्यभक्तिनिभित्तं तस्याः प्रायश्चित्तं चतुर्गुरुकम्॥५॥ एवं पूजां महत्तरिकायाः कृत्वा महत्तरिकया सह गुरुसन्निधावागमनम्, एतदेवाभिधित्सुराहधम्मकहनिमित्तेहि य, विज्जामंतेहि य चुण्णजोगेहिं। इत्यादि जोसिया णं, संथवदाणे जिणाययणं // 3 // धर्मकथाभिनिमित्तैर्विद्यामन्त्रैश्चूर्णयोगैश्च इत्यादि जोषित्वा प्रीणयित्वा संस्तवदाने परिचयकरणे तथाविधप्रज्ञापनया जिनायतनं कारितवती // 3 // संवोहणट्ठयाए, विहारवित्ती व जिणवरमहे वा। महयरिया तत्थ गया, निज्जरणं भत्तवत्थाणं // 4 // तस्याः संबोधनार्थ विहारवृत्या वा जिनवरमहे वा तस्या महत्तरिका तत्र गता तत्र इभ्यगृहेषु तस्या विविधस्य भक्तस्य महार्हाणां वस्त्राणां निर्जरणं दानं तथा कारितम् // 4 // अणुसह उज्जमंती, व विज्जए चेइयाण सारवए। पडिवज्जति अविज्ज-तए उगुरुगा अभत्तीए।।५।। ततः सा महत्तरिकया संयमोद्योगकरणे समनुशिष्टा, स्वयं वा उद्यच्छन्ती वर्तते। तत्र विद्यमाने चैत्यानां सारापके साराकारकेतां नेतुं प्रतिपद्यन्ते। अविद्यमाने तु चैत्यसाराकारके तस्या नयने अभक्तिनिमित्ताश्चत्वारो गुरुकास्तासां महत्तरिकाणां प्रायश्चितम् / / 5 / / आगमणं सक्कारं, हिंडंति तहिं विरूवरूवेहिं। लाभेण सन्नियट्टा, हिंडंती तो तहिं दिट्ठा॥६॥ एवं सत्कारं संमानं च प्रतिगृह्य गुरुसमीपे आगमनं, ततो लाभेन वस्तुलाभेनोपेताः सन्निवृत्ता विरूपरूपैरन्यदेशसत्कैस्तैर्वस्वैः प्रावृतास्तत्र भिक्षा हिण्डन्ते चैत्यवन्दनाय वा व्रजन्ति, तत्र हिण्डमाना वृषभैर्दष्टा / / 6 / / एतदेव स्पष्टं भावयतिसकारिया य आया, हिंडंति तहिं विरूवरूध्वहिं। वत्थेहिँ पाउया ते, दिट्ठा य तहिं तु वसभेहिं / / 7 / / सत्कारिताश्च महत्तराः प्रवृत्तकार्या यत्र गुरवस्तिष्ठन्ति तत्रायातास्तत्र च विरूपरूपैर्नानाप्रकारैर्महावस्त्रैः प्रावृता हिण्डन्ति, ताश्च तत्र हिण्डमाना वृषभैदृष्टाः ||7|| मिक्खा ओसरणम्मि व, अपुव्ववत्थाउ ताउ दठूणं / गुरुकहण तासि पुच्छा, अम्हे दिन्ना न वा दिवा ||8|| भिक्षायामवसरणे वा अपूर्ववस्त्रास्ता दृष्टवा वृषभा गुरुकथनं कृतवन्तो, वृषभैर्गुरोर्निवेदितम्।तत आचार्येण वृषभा भणिताःपृच्छतता आर्यिकाः, कुतो युष्माकं तानि वस्त्राणि ? ततो वृषभैस्तासां समीपं गत्वा पृच्छा कर्तव्या-यथा आर्याः ! नास्माभिरेतानि वस्त्राणि दत्तानि, नापि केनचिद्दीयमाजानि अस्माभिर्दृष्टानि ||8|| न निवेदियं च वसमे, आयरिए दिट्ठ एत्थ किं जायं। तुम्हे अम्हे निवेयह, किं तुज्झऽहियं नवर दोणि ||6|| लहुगो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य। छेदो मूलं च तहा, गणं च हाओ विगिंचेज्जा // 10 // अत्र द्वयोथियोर्यथासंख्येनपदघटना। सा चैवम्-संयताभित्किमपि वस्त्रादिकं लभ्यतेतत्सर्वं गुरवे निवेदनीयम्, अनिवेदिते प्रायश्चित्तं लघुको मासः / (वसभे इति वृषभे पृच्छके वृषभेण पृच्छायां कृतायां यदि न निवेदयन्ति तदा चत्वारोलघुकाः। आचार्येऽपि पृच्छके यदि न कथयन्ति तदा चत्वारो गुरुकाः / यदि पुनराचार्यैरधिक्षिप्ताः-यथा कि युष्माभिन निवेदितानि, तदा यद्ध्यावृता तदा चतुर्लघुकम् / अथानावृताः सत्यो न कथयन्ति तदा चतुर्गुरुकम्। अथ ता ब्रुवते यद् भणन्ति तद् दृष्टं स्यात् तदा षण्मासा लघवः। अथाभिदधति-किमत्र जातं यदि न निवेदितम् तदा षण्मासा गुरवः प्रायश्चित्तम् / अथवा भाषन्ते-यूयं किमस्माकं निवेदयत, अत्र प्रायश्चित्तं छेदः। किंयुष्माकमस्मदधिकं नवरमावां परस्पर द्वे भ्रातृभाण्डे, एवं तासां वुवतीनां प्रायश्चित्तं मूलम् / तस्याश्च प्रवर्त्तिन्या गणो हत्या अन्यस्या दीयते। अथ साऽपि नेच्छति ततोऽन्यस्या दातव्यः अथ साऽपि नेच्छति त_न्यस्या दीयते॥६॥१०॥ एतदेवाहअण्णस्सा दें ति गणं, अह नेच्छत तो विगिंचते तं पि। पुणरवि दितन्नस्सा, एवं तु कमेण सव्वासिं / / 11 / / अन्यस्या गणमाचार्या ददति गणं हत्वा तं पूर्वा प्रवर्तिनी
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy