________________ खयायार ७१७-अभिधानराजेन्द्रः भाग-३ खयायार संयत्या भणितया स्वयं प्रवर्तिन्यास्तस्यामविसर्जनायां यदि तस्यामुपाध्यायो नता भणति-यथा विसर्जयनांसाध्वीमिति, तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः / उपाध्यायातिक्रमणे यद्याचार्यो न भणतियथेमा विसर्जयेति, तदा तस्यापि प्रायश्चित्तं चतुर्लघु / एवं तावत्प्रवर्त्तिन्यामविसर्जयन्त्यामुक्तम्। इदानीमाचार्यस्योपाध्यायस्य वा अविसर्जयतः प्रतिपाद्यते-एवमेव अनेनैव प्रकारेणोपाध्यायेऽप्यविसजयति प्रथमतो भवन्तिचत्वारो लघुकाः। ततो वृषभादिक्रमेण प्रायश्चित्तं वर्द्धमानं तावत् दृष्टव्यं यावत्पर्यन्ते नवममनवस्थाप्यलक्षणं प्रायश्चित्तम्। आचार्ये प्रथमतो भण्यन्ते गुरुकाश्चत्वारः,ततस्तदधिकं वृषभादिक्रमेण प्रवर्द्धमानं तावदवसेयं यावत्पर्यन्ते चरमं पाराञ्चितम्, इति / / इयमक्षरयोजना / / भावार्थस्त्वयम्-संयत्याः प्रेषणे प्रवर्तिन्याः विसर्जितायामविसर्जितायां वा यधुपाध्यायो न विसर्जयति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। ततोऽन्येन साधुना गीतार्थेन स उपाध्यायो भण्यते, तथाऽप्यमुत्कलने चतुर्गुरु। ततो यः साधुरुपाध्यायस्थान प्राप्तः स प्रज्ञाप्यते, तथाऽप्यविसर्जने षट् लघु। तदनन्तरमाचार्यस्थान प्राप्तः साधुः प्रेष्यते तेनाप्यविसर्जने षड् गुरु। ततः कुलेन, कुलस्थविरेण वा भावनीयः, तथाऽप्यविसर्जने छेदः / गणेन, गणस्थविरेण वा भणनेऽप्यविसर्जने मूलम् / सङ्घन, स्थविरेण वा प्रज्ञापनायामप्यमुत्कलने अनवस्थाप्यम् / तथा संयत्या भणने प्रवर्त्तिन्या विसर्जितायां वा यद्याचार्यों न विसर्जयति, तदा तस्य प्रायश्चित्तं चतुर्गुरुकम्। तदनन्तरं तस्य समीपे वृषभः प्रेष्यते, तथाऽप्यमुत्कलने षड् लघु / तत उपाध्यायस्थान प्राप्तेन साधुना भणनेऽप्यविसर्जने षड् गुरु / तदनन्तरमाचार्यस्थान प्राप्तः साधुः प्रेषणीयस्तथाऽप्यमुत्कलने छेदः / कुलेन, कुलस्थविरेण वा भणितेऽप्यविसर्जने मूलम्। गणेन, गणस्थविरेण वा अनवस्थाप्यम्। सङ्घन, सङ्घस्थविरेण वा पाराञ्चितम् / सङ्घातिक्रमे तस्या गणादपहरणं सर्छन। तथा चाहसयहत्थमुंडियं गच्छवासिणिं बंधवा विमग्गंती। अण्णस्स देइ संघो,णाणचरणरक्खणा जत्थ॥ पार्श्वस्थादिभिः स्वकहस्तमुण्डितां गच्छवासिनी , पार्थस्थादिगच्छवासिनी वा बान्धवा उद्यतविहारिणो ये संसारान्निस्तारयन्ति, तान्विमार्गयन्ती अन्वेषयन्ती, अन्यस्याचार्यस्योपाध्यायस्यान्यस्याश्च प्रवर्त्तिन्याः सङ्घो ददाति, यत्र तस्या ज्ञानचरण रक्षणा भवति। किं ? इत्येवम् / अत आहनाण-चरणस्स पव्व-ज्जकारणं नाणचरणतो सिद्धी। जे हि नाणचरणवुड्डी, अज्जाठाणं तहिं वुत्तं / / प्रव्रज्याकारणं ज्ञानस्य, चरणस्य च, ज्ञानचरणनिमित्तं प्रव्रज्या प्रतिपद्यते इति भावः / यतो ज्ञानचरणवृद्धिस्तत्रार्याणामार्यिकाणां स्थानमवस्थानमुक्तं तीर्थकरगणधरैः पार्थस्थादीनां सकाशे ज्ञानचरणे न, ततस्तेभ्यस्तामपहृत्य सङ्घोऽन्यस्य ददाति। मुत्तूण इत्थ चरिमं, इत्तरितो होइऊ दिसाबंधो। ओसण्णदिक्खियाए, आवकहाए दिसाबंधो॥ अत्रएतासुचतसृषु मध्ये, चरमां चतुर्थी "पुण मग्गए सिक्खं'' इत्येवंरूपा मुक्त्वा शेषाणां तिसृणामध्वनिर्गतादिकादीनां दिग्बन्ध इत्वरो भवति। चरमयोः पुनरवसन्नदीक्षिताया यावत्कथिको दिग्बन्धः / / व्य० 6 उ०। नो कप्पति निग्गंयाण वा निग्गयीण वा अण्णगणातो आगतं खयायारं सवलायारां संकिलिट्ठायारं चरित्तं तस्स ठाणस्स आलोयावेत्ता पडिकमावेत्ता पायच्छित्तं पडिवजित्ता उवट्ठावित्तए वासं जित्तएवासंवसित्तएवातीसेइ तिरियादिसि वा अणुदिसि वा उद्विसित्तए वा धारित्तए वा ति वेमि।।१०।। व्य० अ०६ उ०। एसेव गमो नियमा, निग्गंथाणं पि होइ नायव्वो। नवरं पुण नाणत्तं, अणवट्ठप्पो या पारंची। एष एवानन्तरोदितो गमः प्रकारो निर्ग्रन्थानामप्यन्यगणादागच्छतां भवति। नियमाद्ज्ञातव्यः, नवरं पुनः प्रायश्चित्ते नानात्वम्, अनवस्थाप्यं, पाराञ्चितं च। इयमत्र भावनायेन प्रद्राजितः स क्षुल्लको, भिक्षुर्वा, सचेत् संयते प्रेषिते न मुत्कलयति तदा तस्य प्रायश्चित्तं चतुर्लघु / ततो वृषभादिक्रमेण प्रायश्चित्तं पूर्वप्रकारेण वर्द्धमानं तावत् द्रष्टव्यं यावत्सडेन, सङ्घस्थविरेण वा भणनेऽप्यमुत्कलने अनवस्थाप्यम्।तथातस्य साधुना भणनेऽप्यमुत्कलने यद्यपाध्यायस्तं प्रव्राजकं न भणति--यथा विसर्जयनमिति तदा तस्य प्रायश्चित्तं चतुर्लघु। आचार्यस्याभणने चतुर्गुरु। तथा उपाध्यायः साधुप्रेषण यदि न मुत्कलयति तदा चतुर्लधु / ततो वृषभादिक्रमेण पूर्ववत् वर्द्धमानं प्रायश्चित्तं तावत् द्रष्टव्यं, यावत्सङ्घातिक्रमेऽनवस्थाप्यम् / आचार्यस्य तु चतुर्गुरुकादारभ्य तावद्वक्तव्य यावत्सङ्घातिक्रमे पाराश्चितम्, अत्रापि निन्थ्या इव चत्वारो भेदाः। तथा चाहअद्धाण निग्गयादी, कप्पट्ठग संभरंत तो विइतो। आगमणदेसभंगे, चतुत्थओ मग्गए सिक्खं / प्रथमोऽध्वनिर्गतादिको, द्वितीयः कल्पस्थकं वालकं संस्मरन् / तृतीयः--परचक्रागमनेन देशभङ्गे, चतुर्थःपार्श्वस्थादिदीक्षितः शिक्षा मार्गयति। अमीषां च व्याख्यानं सविस्तरं प्राग्वन्निरवशेषं द्रष्टव्यम्। अत्रापि चरमं मुक्त्वा शेषाणां त्रयाणामित्वरो दिग्बन्धः, चतुर्थस्य तु यावत्कथिकः / व्य०६ उ० सूत्रम्-जे निग्गंथाय णिगंथीउय संभोइया सिया णो कप्पति निग्गंथीणं निग्गंथे अणापुच्छित्ता णिग्गंथिं अण्णगणाओ आगयं खयायारं सबलायारं संकिलिट्ठायारं चरितं तस्स ठाणस्स अणालोयावित्ता अपडिक्कमावेत्ता० जावपायच्छित्तं अप्पमिवण्णा पुच्छित्तएवा वाइत्तए वा उवठ्ठावित्तएवा संभुंजित्तए वा संवसित्तए वातीसे इत्तरियं दिसं अणुदिसंवा उद्दिसित्तएवाधारित्तएवा / / 1 / / व्य० अ०७ उ०। अस्य सूत्रस्य संबन्धमाहणिग्गंथीणऽहिगारे, ओसन्नत्ते य समणुवत्तंते। सत्तमए आरंभो, नवरं पुण दो वि निग्गंथी / / 1 / /