________________ खयायार 716 - अभिधानराजेन्द्रः भाग-३ खयायार तः सा आचार्योपाध्यायप्रवर्तिनीविरहिता निर्धर्मीभूता पार्श्वस्थादिविहारं विहृत्य पुनरपि संवेगमापन्ना कञ्चिदाचार्यमुपाध्यायं गणावच्छेदकं वा दृष्टमुपस्थिता विज्ञपयति यथाऽहं पार्श्वस्थादिविहारात्प्रतिक्रमामि, ततो मम संग्रहं कुरुत, यावदाचार्यमुपाध्यायं चाऽऽत्मीयं पश्यामि / एवमन्यगणादागतां तस्मात्स्थानादप्रतिक्राम्यन कल्पते उपस्थापयितुं, नापि षड्विधेन संभोगेन यथासंभवमार्यिकाणां संयतानां च संभोक्तुं, नापि यावदात्मीयमाचार्यादिकं न गच्छति तावदित्वर आचार्यः, एषा दिगित्युच्यते / इत्वर उपाध्यायप्रवर्तिनी वा दीयते, एषा अनुदिक् / गतमध्वानं प्रतिपन्नादिति। अधुना "कप्पढेि संभरंति जा वितिया" इति व्याख्यानार्थमाह - अन्नत्थ दिक्खिया थेरी, तीसे धूया या अन्नहिं। वारिखंतीय सा एज्जा, धूयानेहेण तं गणं / / अन्यत्र गच्छे स्थविरा माता दीक्षिता। अन्यत्र गच्छान्तरे (तीसे) तस्य दुहिता / ततः सा माता दुहितुः स्नेहेनाऽऽत्मीयानाचार्योपाध्यायान्पृच्छति-वजामि तां दुहितरं दृष्टम् / सा वार्यमाणाऽप्याचार्योपाध्यायैर्निर्गता, एवमेकाकिनी सा जाता। एकाकितया निर्द्धमीभूता यत्र सा दुहिता दीक्षिताऽस्ति तं गणमागता, दृष्टा दुहिता, संवेगमापन्ना, शेष प्राग्वत्। इदानीम्, "आगमणदेसभंगे' इत्यादिव्याख्यानार्थमाह -- परचक्केण रद्वम्मि, विद्दुते वोहिकाइणा। जहा सिग्घे पणहासु, एय एगाऽसहायिका॥ परचक्रेण बोधिकादिनी विद्रुते अभिहते राष्ट्रे तथा शीघ्रमार्यिकाः प्रनष्टाः, यथा तासु प्रनष्टासु मध्ये सा एका असहायिका जाता, एकाकितया धर्मरहिता बभूव। ततो गणान्तरं दृष्ट्वा पुनः संवेगमापन्ना, शेषमध्वानं प्रतिपन्ना इव वाच्यम्। अधुना 'चतुर्थी पुनर्मूगयते शिक्षामिति" व्याख्यानार्थमाहसोऊण काइ धम्म, उवसंता परिणया य पय्वजं / निक्खंत मंदपुन्ना, सो चेव जहिं तु आरंभो / / श्रुत्वा काचन संविग्नानां पार्थे धर्म उपशान्ता प्रव्रज्यां प्रति परिणता | च, सा च निष्क्रान्ता पार्श्वस्थादीनां समीपे, ततः सा अचिन्तयत्यस्मादारम्भात्संयमरूपात् भीताऽहं मन्दपुण्या स एव मे समापतित आरम्भो यस्मादत्राहं प्रव्रजिता वर्ते इति / एतदेवाहआभीरिं पण्णवित्ताण, गया ते आययट्ठिया / अह तत्थेतरे पत्ता, निक्खमंति तमुजयं / / आयतो मोक्षस्तत्र स्थिता आयतस्थिता उद्यतविहारिणः संविग्ना इत्यर्थः / ते आभीरीं काञ्चन प्रज्ञाप्यान्यत्र विहारक्रमेण गताः, | अथानन्तरं तत्र ग्रामे इतरे पार्श्वस्थादयः प्राप्तास्तेतामुद्यतां निष्क्रामयन्ति, सा चापूर्वप्रकारेणासंयमानीता तत्र समाधिं न लभते। दटुं वा सोऊं वा, मग्गंती तु पडिच्छिया विहिणा। संविग्गसिक्ख मग्गइ, पवित्तिणिमायरिय उवज्झं। ततः सा मूलधर्मग्राहकानाचार्यान् मृगयन्ती दृष्टं श्रोतुं वा स्नानादिसमवसरणादौ समागतान संविग्नाशिक्षा ग्रहणशिक्षामासेवनाशिक्षा च मार्गयति। अन्यां च प्रवर्तिनीमन्यमाचार्यन्यं चोपाध्यायं सा चैवं मार्गयन्ती विधिना तैः प्रतीच्छिता स्वीकृता कर्त्तव्या तत्र यत्र ते दृष्टाः श्रुता वा मूलधर्मग्राहका यथावत् तैर्विधिना प्रतीच्छनीया। तदेतदभिधित्सुराहपहाणाइएसु मिलिया, पटवावें ति भणंति तेहिं से। होह व उज्जुयचरणा, इमं व वइणिं वयं नेमो।। स्नानादिसमवसरणं गतया तया ते मूलधर्मग्राहका आचार्या दृष्टा भवेयुः, श्रुता वा, यथा अमुकग्रामनगरादौ वर्तन्ते, ततः स्नानादिसमवसरणे, अन्यत्र वा गत्वा तेषां मिलित्या शिक्षा प्रवर्त्तिन्यादिकं च याचते, ततो विधिना तस्याः प्रतीच्छनं कुर्वन्ति। तमेव विधिमाह-तेमूलधर्मग्राहका आचार्यास्तस्याः प्रब्राजयतः प्रव्राजकान् आचार्यान् भणन्ति यूयं वा भवत उद्यतचरणाः, अथवा इमां व्रतिनी नयाम। भण्णति पवत्तिणी ते-सिमसति विसजेह वतिणिमेतं ति। विस्सजिएनयंती, अविसज्जंतीए मासलहुं / / तेषां प्रव्राजकानामाचार्योपाध्यायानामसति अभावे, प्रवर्तिनी भण्यते / यथा-एतां व्रतिनी विसर्जया एवं भणिते यदि विसर्जयति ततो विसर्जिते विसर्जने कृते नयन्ति, अथैवं भणिताऽपि सती सा प्रवर्तिनी न विसर्जयति, तर्हि तस्या अविसर्जयन्त्याः प्रायश्चित्तं मासलघु / अत्रायं विधि-प्रथमतः सा प्रवर्तिनी संयत्या भण्यते / यथा-विसर्जयेमां साध्वीमिति, एवमुक्ता यदि न विसर्जयति ततो मासलघु। वसभे न उवज्झाए, आयरिऐं कुलेण वावि थेरेण / गणथेरेण गणेण व, संघत्थेरेण संघेणं॥ भणिया न विसज्जंती, लहुगादी सोहि जाव मूलं तु। तीए हरिऊण ततो, अण्णो से दिज्जते उ गणे॥ यदा संयत्या भणितेऽपि सा प्रवर्तिनी न विसर्जयति तदा वृषभो गीतार्थः कोऽपि साधुर्गत्वातामापृच्छति। तत्रापि यदि न विसर्जयति तदा प्रायश्चितं चतुर्लघु / ततो यः साधुरुपाध्यायस्थान प्राप्तस्तेन सा आपृच्छयते, तत्राप्यविसर्जने चतुर्गुरु / ततो यः साधुराचार्य स्थान प्राप्तः स तामापृच्छति, यदि न विसर्जयति तर्हि तस्याः प्रायश्चितं षड् लघु। ततः कुलेन कुलस्थविरेण सा भणनीया, तत्राविसर्जने षड् गुरु / ततो गणेन गणस्थविरेण वा सा प्रज्ञापनीया / तथाप्यमुत्कलने प्रायश्चितं छेदः, तदनन्तरं सडेन सङ्गस्थविरैण वा सा भणनीया / तथाऽपि चेन्न विसर्जयति तर्हि प्रायश्चित्तं तस्या मूलम्। अन्यच्च यदि सा सङ्घमपक्रामति ततस्तस्याः सकाशात् हृत्वा (से) तस्या अन्यो गणो दीयतेः अन्यस्याः प्रवर्तिन्याः सा समय॑त इत्यर्थः। एमेव उवज्झाए, अविसञ्जते हवंति लहुगा उ। भण्णंते गुरुगादी, वसभादी जाव नवमं तु। एमेव य आयरिए, अविसजंते हवंति गुरुगा उ। वसभाइए हि भणिए, छल्लहुगाई उ जा चरमो।।