________________ एव 50- अमिधानराजेन्द्रः - भाग 3 एवंभूय परिभवे, ईषदर्थे च / वाक्यभूषणे, वाच०। एवेति गाथालङ्कारमात्र इति विशे० अवधारणे, दर्श०पंचा० दशा०। "अवंभपरिग्गहे चेव" एकशब्दोऽवधारणे इतिप्रश्न०१द्राला "यमिच्चं चेव आहडं""दुक्खमेव विजाणिया" एवकारोऽवधारण इति / सूत्र०१ श्रु०१ अ०। विशेष्यसङ्गतोन्ययोगव्यवच्छेदे। यथा पार्थ धनुर्द्धर इत्यादौ पार्थान्य-पदार्थे प्रशस्तधनुर्द्धरत्वम् व्यवच्छिद्यते। विशेषणसंगतः अयोगव्यवच्छेदे, यथा शङ्खः पाण्डुर एवेत्यादौ शङ्के पाण्डुरत्वायोगो व्यवच्छिद्यते। क्रियासंगतः अत्यन्तायोगन्यवच्छेदे, यथा नीलं सरोजं भवत्येवेत्यादौ सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते। वाचन एव(वं)-अव्य०(एवम्) इण -वा वमु- "मांसादेर्वा 8/1 / 26 / इति प्राकृतसूत्रेणानुस्वारस्य वा लुक् / प्रा०1 उपप्रदर्शने, "एवमेयाणि जंपंता' एवमित्यनन्तरोक्तस्योपप्रदर्शने इति / "एवमेगेणियायट्ठी" एवमिति पूर्वोक्तार्थोपप्रदर्शन, इति। सूत्र०१ श्रु०१ अ० "एवं आउली करिंति" इहैवं शब्दः पूर्वोक्ता-भिलापसंसूचनार्थ इति! भ०१ श०६ उ० "एवं सेहे वि अपुढे" एवमिति प्रक्रान्तपरामर्शार्थ इति सूत्र०१ श्रु०२ अ० प्रकारे, एवं शब्दः प्रकारवचन इति। आ०म०वि०। प्रश्न०। व्य०। दर्श०। पं० वा दर्श०। एवमिति प्रकृतपरामर्शप्रकारेवार्थों पदेशनिर्देशनिश्चया-ऽङ्गीकारवाक्यार्थेषु, समुच्चयार्थे, समन्वये, परकृतौ, प्रश्ने च / मेदिता वाच०। अपरिणामे, पृथग्भावे, एकत्वे, अवधारणे च / तथा च व्यवहारकल्पे "अपरीमाणेपिहब्भावे, एगत्ते अवधारणे। एवसद्दोउएएसिं" इति। एवं शब्दोऽपरिमाणे पृथग्भावे एकत्वे अवधारणेतत्रापरिमाणे यथा एवमन्येऽपीत्यादौ पृथद्भावे तथा घटात्पट: पृथक् / एवमाकाशास्तिकायवत् धर्मास्तिकायोऽपीति / एकत्वे यथाऽयमेतद्गुण एवमेषोऽपि। अत्र ह्येवंशब्दस्तयोरेकरूपतामभिद्योतयति अवधारणे यथाकेनापि पृष्टमिदमित्थं भवति।इतरः प्राह एवं। इत्थमेवेति भावः / एवमेवं-शब्द एतेष्वर्थेषु वर्तते इति। व्य०४ उ०। एवइय-त्रि०(एतावत) एतत्परिमाणे, वाच० "एवइयं वा एव- खुत्तो वा एवइयंति'' तां विकृतिमेतावतीमिति। कल्प०) एवंकरण-न०(एवंकरण) एकम्प्रकारेण करणे, "एवं करणया एत्तिक?" भ०३ श०१ उ० एवंभूय-पुं०(एवंभूय) सप्तमे नयभेदे, तत्स्वरूपं यथा। वंजण अत्थतदुभयं-एवंभूओ विसेसेइ॥ (वंजण अत्थे इत्यादि) यत्क्रियाविशिष्टशब्देनोच्यते तामेव क्रियां। कुलदस्तवेवंभूतमुच्यते एवं शब्देनोच्यते चेष्टा क्रियादिकः प्रकारस्तमेवंभूतं प्राप्तमिति कृत्वा ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवं भूतः / अथवा एवं शब्देनोच्यते चेष्टा क्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेयंभूतः प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते स एवंभूतो नयः / किमित्याह व्यज्यतेऽर्थोऽनेनोति व्यञ्जनं शब्दः अर्थस्तुतदभिधेयवस्तुरूपः व्यञ्जनं चार्थश्च व्यञ्जनार्थो तौ च तौ तदुभयं चेति समासः / व्यञ्जनार्थशब्दयोय॑स्तनिर्देशः प्राकृतत्वात्तह्यञ्जनार्थं तदुभयं विशेषयति नैयत्येन स्थापयति / इदमत्र हृदयं शब्दमर्थनार्थ च शब्देन विशेषयति / यथा घट चेष्टायां घटते योषिन्मस्तका-द्यारूढश्चेष्टत इति घट इत्यत्र तदैवासौ घटो यदा योषिन्मस्तका-द्यारूढतया जलाहरणचेष्टावान्नान्यदा घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भाव इति गाथार्थः / अनु०। एवं जह सद्दत्थो, संभूओ तह अन्नहाभूओ। तेणेवंभूयनओ, सहत्थपरो विसेसेण // एवं यथा घटचेष्टायामित्यादिरूपेण शब्दार्थो व्यवस्थितः (तहत्ति) तथैव वर्तते घटानिकोऽर्थः स एवं सन् भूतो विद्यमानः (अन्नहाभूओ त्ति) यस्त्वन्यथा शब्दार्थोल्लङ्गनेन वर्तते स तत्वतो घटाद्यर्थोऽपि न भवति कित्येवंभूतोऽविद्यमानः येनैवं मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवं-भूतनयो विशेषणशब्दार्थतत्परः। अयं हियोषिन्मस्तकारूढं जलाहरणक्रियानिमित्तं घटमानमेव चेष्टमानमेवघट मन्यते न तु गृहकोणादि व्यवस्थितम् / अवचेष्टनादित्येवं विशेषतः शब्दार्थतत्परोऽयमिति / वंजणमत्थतदुभयं एवंभूओ विसेसेइ इति' नियुक्तिगाथादलं व्याचिख्यासुराह / / वंजणमत्थे णत्थं, व वंजणेणोभयं विसेसेइ। जइ घडसई चेट्ठा व या तहातं पि तेणेव॥ व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता एताद्वाच्येनार्थेन विशिनष्टिस एव घटशब्दो यश्चेष्टावन्तमर्थ प्रतिपादयति नान्य इत्येवं शब्दमर्थन नैयत्ये व्यवस्थापयतीत्यर्थः / तथाऽर्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन। विशेषयतिचेष्टाऽपि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तका- रूढस्य घटस्स जलाहरणदिक्रियारूपा न तु स्थानभरण- क्रियात्मिका इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थः। इत्येवमुभयं विशेषयति। शब्दमर्थनार्थ नैयत्ये स्थापयतीत्यर्थः / एतदेवाह (जहघडसमित्यादि) इदमत्र हृदयं यदा योषिन्मस्तका-रूढचेष्टावानार्थो घटशब्देनोच्यते तदा स घटलक्षणोऽर्थः स च तद्वाचक्रो घटशब्दः अन्यदा तु वस्त्वन्तरस्यैव तचेष्टभावादघटत्वं घटध्वनेश्चावाचकत्वमित्येवमुभयविशेषक एवं भूतनयमिति। एतदेव प्रमाणतः समर्थयन्नाह ! सदवसादभिधेयं, तप्पच्चइ वप्प इव कुंभो व्व / संसयविवजएग त्तसंकराइप्पसंगाओ। यथा अभिधायकः शब्दस्तथैवाभिधेयं प्रतिपत्तव्यमिति प्रतिज्ञा तत्प्रतययत्त्वात्तथाएवार्थस्तःप्रत्ययसंभूतेरिति हेतुः प्रदीपवत्कुम्भवद्वेति दृष्टान्तः। विपर्यये बाधकमाह (संसयेत्यादि) इदमुक्तं भवति प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते अन्यथा संशयादयः प्रसञ्जरंस्तथा हि यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुचरिते किमनेन प्रदीपेन प्रकाशवानर्थाऽभिहितः किं वा प्रकाशकोऽप्यन्धोपलादिरिति संशयः अन्धोपलादिरवानेनाभिहितो न दीप इति विपर्ययः / तथा दीप इत्युक्तेऽप्यन्धोपलादौ चोक्ते दीपे प्रत्ययात्पदार्थानामेकत्वं साङ्कर्य वा स्यात्तस्माच्छब्दवशादेवाभिधेयम-भिधेयवशाच शब्द इति / विशे०। (समभिरूढनयादिवक्तव्यता नयशब्दे) शब्दाभिधेयक्रियापरिणतिवेलायामेव तदस्त्वितिभूतः / एवंभूतः प्राह यथा संज्ञाभेदाढ़ेदवद्वस्तु तथा क्रियाभेदाद- सा च क्रिया तऽत्री यदैव लामाविशति तदैतन्निमित्तं