________________ खणिअवाइ 712 - अभिधानराजेन्द्रः भाग-३ खणिअवाइ ज्ञान-वेदना-संज्ञा-संस्कार-रूपात्मकस्कन्धस्य क्षण-परंपरारूपः सन्तानो नाद्यापि हतः, निःसन्तानस्यैव च मोक्षः, अतो निःसन्तानार्थ दीक्षा विधीयत इति // 2406 / / अत्रोत्तरमाहछिन्नेणाछिन्नेण व, किं संताणेण सव्वनदृस्स। किं चाभावीभूयस्स स-परसंतानचिंताए ? ||2410 / / सर्वनष्टस्य सर्वप्रकारैर्विनाशमापन्नस्य छिन्नेन, अच्छिन्नेन वासन्तानेन किं प्रयोजनं, येन सन्तानहननार्थ दीक्षां गृह्णीयात् ? किं चसर्वथाऽभावीभूतस्य क्षणभङ्गुरतया सर्वथा विनष्टस्य किमनया चिन्तया-अयं स्वसन्तानः, अयंतुपरसन्तानः, अयंतुन हतः, येनोच्यते"स संताणो अहउ त्ति तओ दिक्खा" इति // 2410 / / अथ क्षणिकत्वसाधकपराभिमतप्रमाणमुपन्यस्य दूषणमाहसव्वं पयं व खणियं, पज्जंते नासदरिसणाउ त्ति। नणु इत्तो चिय नखणिय-मंते नासोवलद्धीओ।।२४११॥ सर्व वस्तु क्षणिक, पर्यन्ते नाशदर्शनात्, पयोवदिति / आहननु यदि वस्तूनां पर्यन्ते नाशो दृश्यते, तर्हि प्रतिक्षणविनाशित्वे किमायातं, येन सर्व क्षणिकमुच्यते ? सत्यं, किं त्वयमिह तदभिप्रायः-पर्यन्तेऽपि घटादीनां विनाशः तावन्निर्हेतुक एव भवति, मुद्रादेर्विनाशहेतोरयोगात्। तथाहि-मुद्रादिना किं घट एव क्रियते, कपालानि वा, तुच्छरूपोऽभावो वा ? इत्यादियुक्तितो विनाशस्य निर्हेतुकत्वं प्रागत्रैव दर्शितम् / ततो निर्हेतुकोऽसौ भवन्नादित एव भवतु, अन्यथा पर्यन्तेऽपि तदभवनप्रसङ्गादिति पर्यन्ते नाशदर्शनाद्धेतोः क्षणिकत्वसिद्धिः / अत्र सूरिराह-नन्वेतस्मादेव पर्यन्ते नाशदर्शनलक्षणाद्धेतोरस्माभिरेतच्छक्यते वक्तुम् / किम् ? इत्याह-न क्षणिकं, न प्रतिक्षणं वस्तु विनश्यतीत्यर्थः, पर्यन्त एव तन्नाशोपलन्धेः, घटादिवत् / न च युक्तिबाधितत्वाभ्रान्तेयमुपलब्धिरिति शक्यते वक्तुम्, सर्वेषां सर्ववेत्थमेव प्रवर्तनात्, युक्तीनामेवानया बाधनात्, शून्यवादियुक्तिवदिति // 2411 // यदि पुनरादितएव वस्तूनां विनाशः स्यात्, तदा किं भवेद् ? इत्याह - इहराइउ चिय तओ,दीसेज्जंते व्व कीस व समाणो। सव्वविणासे नासो, दीसइ अंते न सोऽन्नत्थ ? // 2412 // इतरथा यदि प्रतिक्षणं नाशो भवेत्तदा यथा पर्यन्ते सर्वेणाऽपि भवन्नसौ दृश्यते, तथा आदित एव आदिमध्येषु सर्वत्र तकोऽसौ नाशो दृश्यते। अथ पर्यन्तेऽसौ दृश्यते नादि-मध्येषु किं कुर्मः? तर्हि प्रष्टव्योऽसि / किम् ? इत्याह-"कीस व" इत्यादि / किमिति चाऽसौ नाशो वस्त्वभावरूपतया सर्वत्र समानो निरवशेषस्वरूपोऽपि सन् सर्वविनाशे मुद्रादिना विहिते दृश्यते उपलक्ष्यते अन्तेपर्यन्ते न पुनरन्यत्राऽऽदिमध्येषु सर्वत्र भवताऽभ्युपगतोऽप्यसौ भवन्नुपलक्ष्यत इत्यत्र कारणं वाच्यम्? न पुनः पादप्रसारिका श्रेयस्करीति भावः // 2412 // अपिच-पर्यन्ते नाशदर्शनरूपस्य हेतोः सिद्धत्वमभ्युपगम्य दूषणमुक्तं यावता जैनानां हेतरप्ययमसिद्धः, पर्यन्तेऽपि घटादीनां सर्वथा नाशानभ्युपगमादिति दर्शयन्नाह अंते व सव्वनासो, पडिवन्नो केण जदुवलद्धीओ। कप्पेसि खणविणासं, नणु पज्जायंतरं तं पि॥२४१३।। यदि वा, भोः क्षणभङ्गवादिन् ! अन्ते पर्यन्तेऽपि मुद्गरादिसंनिधाने घटादिवस्तुनः सर्वनाशः सर्वथा विनाशः केन प्रतिवादिना जैनेनाभ्युपगतो, यदुपलब्धेर्यदर्शनावष्टम्भेन त्वं क्षणभङ्गरूप प्रतिक्षणविनाशं कल्पयसि घटादेः? यदि मुद्गरादिसन्निधाने सर्वविनाशस्तस्य जैनै भ्युपगम्यते, तर्हि तदवस्थायां घटोन दृश्यते, कपालान्येव च दृश्यन्त इत्येत्किमिष्यते ? इत्याह-"नणु'' इत्यादि। नन्यहो ! मृद्रूपतया अवस्थितस्यैवघटद्रव्यस्य भूतभविष्यदनन्तपर्यायापेक्षया तदपि पर्यायान्तरं, पर्यायविशेष एव कपालानि, न पुनस्तदानीं घटस्य सर्वथा विनाशः, मृद्रूपताया अप्यभावप्रसङ्गात्, तथा च कपालानाममृद्रूपतापत्तेरित्यसिद्धिः पर्यन्ते सर्वनाशस्येति / / 2413 / / भवतु वा तत्सिद्धिः, तथाऽपि नातः सर्वव्यापिनी क्षणिकत्व सिद्धिरिति दर्शयन्नाहजेसिव न पज्जंते, विणासदरिसणमिहंबराईणं। तनिच्चम्भुवगमओ, सव्वक्खणविणासिमयहाणी॥२४१४।। घटादीनां तावत्पर्यन्ते सर्वनाशदर्शनात्प्रसङ्गेनादित एव प्रतिक्षणनश्वरतां साधयति भवान्, ततो येषामम्बरादीनां व्योमकालदिगादीनां पर्यन्ते विनाशदर्शनं कदाचिदपि नास्ति, तेष्वस्मात्प्रसङ्गसाधनात्प्रतिसमयनश्वरत्वं न सिध्यति / ततस्तेषां नित्यत्वमेवाभ्युपगन्तव्यम्। तन्नित्यत्वाभ्युपगमे च सर्वं 'क्षणिकम्' इति व्यप्तिपरं यन्मतं भवतस्तस्य हानिरघटमानतैव प्रापोतीति // 2414 / / (8) भङ्गयन्तरेणापि स्थविरा अश्वमित्रं शिक्षयन्ति। कथम् ? इत्याह - पज्जायनयमयमिणं,जं सव्वं विगमसंभवसहावं / दव्वट्ठियस्स निचं, एगयरमयं च मिच्छतं // 2415 // पर्यायवादिन एव नयस्येदं मतं यत्त्वं ब्रूषे-सर्वमेव त्रिभुवनान्तर्गतं वस्तु विगमसंभवस्वभावम्-प्रतिक्षणमुपद्यते, विनश्यति चेत्यर्थः। द्रव्यमेवार्थी यस्य न पर्यायः स द्रव्यार्थिकस्तस्य तुद्रव्यार्थिकनयस्य तदेव सर्व वस्तु नित्यं मतम् / एवं च स्थिते यद्भवाने कतरस्यैव पर्यायनयस्य प्रतिक्षणविनश्वरत्वलक्षणं मतमभ्युपगच्छति तन्मिथ्यात्वमेवेति मुश्चेदमिति भावः / / 2415 // किमित्येतन्मिथ्यात्वम् ? इत्याह - जमणंतपज्जयमयं, वत्थु भुवणं व चित्तपरिणामं / ठिइविभवभंगरूपं, निचानिच्चाइ तोऽभिमयं // 2416 / / यद्यस्मान्नैकान्ततः पर्यायमयं, नाऽप्येकान्तेन द्रव्यरूपं, किं त्वनन्तपर्यायं स्थित्युत्पादविनाशरूपत्वाद् भूभवनविमानद्वीपसमुद्रादिरूपतया त्रिभुवनमिव समस्तमपि वस्तु नित्यानित्यादिरूपतया विचित्रपरिणाममने कस्वरूपं भगवतामभिमतम् / अतोऽस्यैकान्तविनश्वरलक्षणैकरूपाभ्युपगमो मिथ्यात्वमेवेति। अपिचसुहदुक्खबंधमोक्खा, उभयनयमयाणुवट्टिणो जुत्ता। एगयरपरिच्चाए, सव्वव्वहारवोच्छित्ती॥२४१७।। भाविताथैवेति / / 2417