________________ खणिअवाइ 710- अभिधानराजेन्द्रः भाग-३ खणिअवाइ गुरुवयणमेगनयमय-मेयं मिच्छंन सय्वमय ॥२३६शा अनुप्रवादपूर्वमध्यगतं नैपुणं वस्त्वधीयानस्याश्वमित्रस्य पूर्वो- | तादेकसमयादिव्यवच्छेदसूत्रान्नाशप्रतिपत्तिरुत्पन्ना। कोऽर्थः ? इत्याह-"उत्पादान्तरमेव सर्वं वस्तु सर्वथा विनश्वररूपम्" इत्येवंभूतो | बोधः समुत्पन्नः / अत्र प्रतिविधानार्थं गुरुवचनम्-'ननु प्रतिसमयविनाशित्वं वस्तूनाम्' इत्येतदेकस्यैव क्षणक्षयवादिन ऋजुसूत्रनयस्य मतं, न तु सर्वनयमतं, ततो मिथ्यात्वमेवेति॥२३६१।२३६२॥ कुत्तःपुनरेतन्मिथ्यात्वम् ? इत्याहन हि सव्वहा विणासो, द्धापज्जायमेत्तनासम्मि। स-परपज्जायाणंत-धम्मणो वत्थुणो जुत्तो // 2363|| न हि सर्वथैव वस्तुनो विनाशो युक्तः / क्व सति ? इत्याहअद्धापर्यायमात्रनाशे। तत्रेहाद्धा नारकादीनामुत्पत्तिप्रथमादिसमयः, स एव पर्यायमात्रं तस्य नाशोऽपगमस्तस्मिन्सति / कथंभूतस्य वस्तुनः ? इत्याह-स्वपरपर्यायानन्तधर्मकस्य। इदमुक्तं भवति-यस्मिन्नेव समये तन्नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते, तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते / अतो यदि नामाद्धापर्यायमात्रमुच्छिन्नं, ततः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम्, अनन्तपर्यायात्मकस्य वस्तुनः एकपर्यायमात्रेच्छेदे सर्वोच्छेदस्य दूरविरुद्धत्वाद् ? इति॥२३६३|| अत्र पराभिप्रायमाशक्य परिहरतिअह सुत्ताउत्तिमइ, सुत्ते नणु सासयं पि निहिडे / वत्थु दवट्ठाए, असासयं पज्जयट्ठाए।।५३६४॥ अथ पूर्वोक्तालापकरूपात्सूत्रात्सूत्रप्रामाण्यात्प्रतिसमयं सर्वथा वस्तुच्छेदः प्रतिपाद्यत इति तव मतिः; ननु यदि सूत्रं तव प्रमाण, तर्हि सूत्रे द्रव्यार्थतया शाश्वतमपि वस्त्वन्यत्रोक्तमेव, पर्यायार्थतथैव चाशाश्वतम् / तथा चूसूत्रम-"नेरइया णं भंते! किं सासया, असासया ? गोयमा ! सिय सायया, सिय आसासया। से केणऽद्वेणं ? गोयमा ! दव्वट्ठयाए सासया, भावड्याए असासया" इति।।२३६४।। अपिचएत्थ विन सव्वनासो, समयाइविसेसणं जओऽभिहियं / इहरा न सव्वनासे, समयाइविसेसणं जुत्तं / / 2365 / / को पढमसमयनारग-नासे वितिसमयनारगो नाम। न सुरो घडो अभावो, व होइ जइ सव्वहा नासो ? / 2366 / / अत्रापि 'प्रथमसमयनारका व्यवच्छेदंयास्यन्ति' इति सूत्रेन सर्वनाशः सर्वात्मना नाशो गम्यते / कुतः ? इत्याह-यतो यस्मात्समयादि विशेषणमभिहितं ततो न सर्वथा नाशोऽत्र गम्यते, किं तु प्रथमसमयनारका व्यवच्छेत्स्यन्ति / कोऽर्थः ? प्रथमसमयनारकत्वेन विनक्ष्यन्ति / एवं द्वितीयादिसमयनारका अपि द्वितीयादिसमयनारकत्वेनैव विनक्ष्यन्तिानतु सर्वथा, द्रव्यार्थतया शाश्वतत्वात्। इतरथा सर्वनाशे अभिप्रेते प्रथमसमयादिविशेषणं न युक्तं स्यादिति / कथमयुक्तम् ? इत्याह-"को पढमे" इत्यादि। प्रथमसयोत्पन्नानां हि नारकाणां सर्वथा विनाशे को नाम द्वितीयतृतीयादिसमयनारकः ? अवस्थितस्यैव हि कस्यचित् प्रथमद्वितीयतृतीयादि समयोत्पन्नविशेषणं युज्यते, यदि तु सर्वथा नाशः, तर्हि प्रथमसमयोत्पन्नरकस्य निरन्वयनाशेन नष्टत्वात् द्वितीयसमयोत्पन्नो नारक इति व्यपदेष्टुं कथं युज्यते ? यन्नारकात्सर्वथा विलक्षणत्वादसौ सुरो घटोऽभावो जा नोच्यते ? सुरादिव्यपदेशे च न द्वितीयादिसमयनारकाः। तस्मात्प्रथमद्वितीयतृतीयादिसमयोत्पन्ना इति विशेषणं कथञ्चि-दवस्थितस्यैव नारकादेर्युज्यत इतयस्मिन्नपि सूत्रे न नारकादेः सर्वोच्छेदः प्रतिपाद्यते। इति निर्मूल एव निजाशुभकर्मविपाकजनितस्तवैष व्यामोह इति // 2365-2366|| अथ पराशङ्कापरिहारार्थमाहअह व समाणुप्पत्ती, समाणसंताणओ मई होज्जा। को सव्वहा विणासे, संताणो किं व सामन्नं / / 2367 / / अथवैवंभूता मतिः परस्य भवेद, यदुतनारकादीनां प्रतिसम-यमपरापरसमानक्षणोत्पत्तिर्भवति। ततस्तया समानक्षणोत्पत्त्या यः समानक्षणसन्ततिरूपः सन्तानस्तस्मात्सन्तानात्सन्तानमाश्रित्य नारकादेः कथञ्चिध्रौव्यमन्तरेणापि प्रथमद्वितीयादि-समयोत्पन्नविशेषणमुपपद्यत एव / अत्रोत्तरमाह-"को सव्वहा'' इत्यादि / ननु सर्वथा विनाशे समुच्छेदेऽङ्गीक्रियमाणे कःकस्य सन्तानः, किं वा कस्य समानम् ? इति निर्निबन्धनमेवेदमुच्यते / न हि निरन्वयविनाशेऽवस्थिताः केचनापि नारकादिक्षणाः सन्ति, यानाश्रित्येदमुच्यते-'अयमेषां सन्तानः, इद चाऽस्य समानम्' इति // 2367. किञ्चसंताणिणो न भिन्नो, जइ संताणो न मान संताणो। अह भिन्नो नक्खणिओ,खणिओ वा जइन संताणो।२३६८|| यदि सन्तानिभ्यो न भिन्नः, किं त्वभिन्नः सन्तानः, तर्हि न नामाऽसौ सन्तानः, सन्तानिभ्योऽनन्तिरभूतत्वात्, तत्स्व रूपवत् / अथ सन्तानिभ्यो भिन्नः सन्तानः, तर्हि क्षणिकोऽसौ नेष्टव्यः, अवस्थितत्वाभ्युपगमात् / अथ क्षणिकोऽसाविष्यते, तर्हि नासौ सन्तानः, सन्तानिवत् / ततस्त एव सन्तानाभावपक्षोक्ता दोषा इति / तदेवं सर्वथोच्छेदेऽभ्युपगम्यमाने सन्तान उत्पद्यत इति भावितम्।।२३६८) अथ यदुक्तम्-"किं व सामन्नमिति" (2367) तद्भावनार्थमाहपुथ्वाणुगमे समया, हुजन सा सव्वहा विणासम्मि। अहसान सध्वनासे, तेण समं वानणु खपुप्फ // 2366 / / यदि पूर्वक्षणस्योत्तरक्षणे के नाऽपि रूपेणानुगमोऽन्वयो भवेत्तदा तत्रानुगमे पूवोत्तरक्षणयोः समता समानरूपता भवेत्। सर्वथा तु सर्वात्मना पूर्वक्षणस्य निरन्वयविनाशेन सा समता उत्तरक्षणस्य युज्यते / अथ सा समता तयोरभ्युपगम्यते, तर्हि तद्रूपस्य कथञ्चिदवस्थितत्वान्न पूर्वक्षणस्य सर्वथा विनाशः। अथ सर्वथा विनाशेऽपि तस्य समताऽभ्युपगम्यते, हन्त ! तर्हि तेन सर्वथाऽभावीभूतेन पूर्वक्षणेन समतुल्यंयुज्यते यदि, परंखपुष्पम्, सर्वथा भावरूपतया द्वयोरपि तुल्यत्वादिति।।२३६६ / / किञ्चअन्नविणासे अन्नं, जइ सरिसं होइ होउ तेलुक्कं / तदसंवद्धं व मई, सो विकओ सय्वनासम्मि / / 2400 / / आपच