________________ खणिअवाइ 706 - अभिधानराजेन्द्रः भाग-३ खणिअवाइ णापुनविन कर्मबन्धनान्मुक्तिः प्रमोक्षस्तस्यापि भङ्ग प्राप्रोति। तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनार्थ यतिष्यते ? ज्ञानक्षयोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते ? नहि दुःखी देवदत्तो | यज्ञदत्तसुखाय चेष्टमानो दृष्टः / क्षणस्य तु दुःखं स्वरसनाशित्वात्तैनैव सा दध्वंसे। सन्तानस्तुन वास्तवः कश्चित्। वास्तवत्वेतु आत्माऽभ्युपगमप्रसङ्गः। अपिच-बौद्धा निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्ष इत्याहुः, तच न घटते; कारणाभावादेव तदनुपपत्तेः / भावनाप्रचयो हितस्य कारणमिष्यते।सच स्थिरैकाश्रयाभावाद्विशेषानाधायकः प्रतिक्षणमपूर्ववदुपजायमानो निरन्वयविनाशी गगनलङ्घनाभ्यासवदनासादितप्रकर्षों न स्फुटाभिज्ञानजननाय प्रभवतीत्यनुपपत्तिरेव तस्य / समलचित्तक्षणानां स्वाभाविक्याः सदृशारम्भणसक्तेसदृशारम्भं प्रत्यशक्तेश्चाकस्मादनुच्छेदात् / किं चसमलचित्तक्षणाः पूर्वेस्वरसपरिनिर्वाणाः। अयमपूर्वो जातः। सन्तानश्चैको न विद्यते। बन्धमोक्षौ चैकाधिकरणौ; न विषयभेदेन वर्तेते। तत्कस्येयं मुक्तिर्य एतदर्थं प्रयतते ? अयं हि मोक्षशब्दो बन्धनविच्छेदपर्यायः / मोक्षश्चतस्यैवघटते योबद्धः क्षणक्षयवादेत्वन्यः क्षणो बद्धःक्षणान्तरस्य च मुक्तिरिति मोक्षाभावः प्राप्नोति / तथा स्मृतिभङ्गदोषः / तथाहिपूर्वबुद्धयाऽनुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवंति, ततोऽन्यत्वात्, * सन्तानान्तरबुद्धिवत्। न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते। अन्यथा एकेन दृष्टोऽर्थः सर्वः स्मर्यंत। स्मरणाभावेच कौतस्कुती प्रत्यभिज्ञाप्रसूतिः? तस्याः स्मरणानुभवोभयसंभवत्वात् / पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारेणेयमुत्पद्यते / अथ स्यादयं दोषो यद्यविशेषेणान्यदृष्टमन्यः स्मरतीत्युच्यते, किं त्वन्यत्वेऽपि कार्यकारणभावादेव च स्मृतिः। भिन्नसन्तानबुद्धीनां तु कार्यकारणभावो नास्ति: तेन सन्तानान्तराणां स्मृतिर्न भवति। न चैकसान्तानि-कीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात्। तदप्यनवदातम्। एवमपि अन्यत्वस्य तदवस्थत्वात्।न हि कार्यकारणभावाभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात्। न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः / अथ-"यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना / फलं तत्रैव संधत्ते, कापसे रक्तता यथा''||१|| इति कासे रक्ततादृष्टन्तोऽस्तीति चेत्, तदसाधीयः, साधनदूषणयोरसंभवात् / तथाहि-अन्वयाद्यसंभवान्न साधनम्। न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कापसे रक्ततावदित्यन्वयः संभवति। नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति / असिद्धत्वाद्यनुद्भावनाच न दूषणम् / न हि ततोऽन्यत्वादित्यस्य हेतोः कापसे रक्ततावदित्यनेन कश्चिद्दोषः प्रतिपाद्यते / किं च-यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् / अथ नाऽयं प्रसङ्ग एकसन्तानत्वे सतीति विशेषणादिति चेत्, तदप्ययुक्तम्। भेदाभेदपक्षाभ्यां तस्योपक्षीणत्वात्। क्षणपरंपरातस्तस्याऽभेदे हि क्षणपरंपरैव सा / तथा च सन्तान इति न किञ्चिदतिरिक्तमुक्तं स्यात् / भेदे त्वपारमार्थिकः, पारमार्थिको वाऽसौ स्यात् ? अपारमार्थिकत्वेऽस्य तदेव दूषणम्, अकिञ्चित्करत्वात्। पारमार्थिकत्वे स्थिरो वा स्यात्, क्षणिको वा ? क्षणिकत्वे सन्तानिनिर्विशेष एवायमिति किमनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणानुक्रारणिना। स्थिरश्चेदात्मैव संज्ञाभेदति-रोहितःप्रतिपन्नः। इति न स्मृतिर्घटते क्षणक्षयवादिनान् / स्मृतेरभावे चानुमानस्यानुत्थानमित्युक्तं प्रागेव / अपि च-स्मृतेरभावे निहितप्रत्युन्मार्गणप्रत्यर्पणादिव्यवहारा विशीयरेन् / “इत एकनवतेः कल्पे, शक्त्या मे पुरुषो हतः / तेन कर्मविपाके न, पादे विद्धोऽस्मि भिक्षवः" ||1|| इति वचनस्य च का गतिः ? एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयति, इति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः / क्षणचतुष्कानन्तरमपि निहितप्रत्युन्मार्गणादिव्यवहाणां दर्शनात् / तदेवमनेकदोषापातेऽपि यः क्षणभङ्गमभिप्रैति तस्य महत्साहसम्॥१८॥ (4) अथ ताथागताः क्षणक्षयेपक्षे सर्वव्यवहारानुपपत्तिं परैरुद्भावितमाकायेत्थं प्रतिपादयिष्यन्ति, यत्पदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुष्मिक व्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एवेति / तदाकूतं परिहर्तुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाभेदानुभय-लक्षणे पक्षत्रयेऽपि अघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्यादा-दमकामयमानानपि तानङ्गीकारयितुमाहसावासना साक्षणसन्ततिब, नाभेदभेदाऽनुभयैर्घटते। ततस्तटाऽदर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु / / 16 / / सा शाक्यपरिकल्पिता त्रुटितमुक्तवलीकल्पना परस्परविशकलिताना क्षणानामन्योऽन्यानुस्यूतप्रत्ययजनिका एकसूत्रस्थानीया सन्तानापरपर्याया वासना। पासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः / सा च क्षणसन्ततिस्तदर्शनप्रसिद्धा प्रदीपकलिकावन्नवनवोत्पद्यमाना परापरसदृशक्षणपरम्परा / एते द्वे अपि अभेदभेदानुभयैर्न घटेते / न तावद्भेदेन तादात्म्येन ते घटेते / तयोर्हि अभेदे वासना वा स्यात्, क्षणपरम्परा वा;न द्वयम्। यद्धि यस्मादभिन्नं न तत्ततः पृथगुपलभ्यते। यथा घटात् घटस्वरूपम् / केवलायां वासनायामन्वयिस्वीकारः / वास्याऽभावे च किं तया वासनीयमस्तु? इति तस्या अपि न स्वरूपमवतिष्ठते / क्षणपरंपरामात्राङ्गीकरणे च प्राञ्च एव दोषाः / न च भेदेन ते युज्यते। सा हि भिन्ना वासना क्षणिका वा स्यादक्षणिका वा ? क्षणिका चेत्तर्हि क्षणेभ्यस्तस्याः पृथक् कल्पनं व्यर्थम् / अक्षणिका चेदन्वयिपदार्थाभ्युपगमेनाऽऽगमबाधः / तथा च-पदार्थोन्तराणां क्षणिकत्वकल्पनाप्रयासौ व्यसनमात्रम् / अनुभयपक्षणापि न घटते। स हि कदाचिदेवं ब्रूयातनाऽहं वासनायाः क्षणश्रेणितोऽभेदं प्रतिपद्ये, न च भेदं; किं त्वनभयमिति तदप्यनुचितम्, भेदाभेदयोर्विधिनिषेधरूपयोरे कतरप्रतिषेधेऽन्यतरस्यावश्यं विधिभावात्। अन्यतरपक्षाभ्युपगमस्तत्र च प्रागुक्त एव दोषः / स्या. 16 श्लोक। (5) अयमेवाशयः सामुच्छेदिकनिहवादेः प्रतिपादित इहोपयोगित्वाद्योज्यतेनेउणमणुप्पवाए, अहिज्जओ वत्थुमासमित्तस्स। एगसमयाइवेच्छे-यसुत्तओ नासपडिवत्ती॥२३६१।। उप्पायाणंतरओ, सव्वं चिय सम्वहा विणासि त्ति।