________________ खणिअवाइ 708 - अभिधानराजेन्द्रः भाग-३ खणिअवाइ कसाक्षिकाण्येव / न चाऽमी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः। तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात्कूर्मरोमवत्। तथा-विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत्। एवं स्थितिः केवलानास्ति, विनाशोत्पादशून्यत्वात, तद्वदेव; इन्यन्योऽन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम्। तथा च कथं नैकं त्र्यात्मकम् ? किं च, अपरमभ्यधीष्महि पञ्चाशति"प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते, पुत्रः प्रीतिमुवाह कामपि नृपः शिवाय मध्यस्थताम्। पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ||1|| तथा च स्थितं नित्यानित्यानेकान्तः कान्त एवेति / एवं सदसदनेकान्तोऽपि! नत्वत्र विरोधः / कथमेकमेव कुम्भादि वस्तु सच, असञ्च भवति? सत्त्वं ह्यसत्त्वपरिहारेण व्यवस्थितम्, असत्त्वमपि सत्त्वपरिहारेण; अन्यथा तयोरविशेषः स्यात्। ततश्च तद्यदि सत्, कथमसत् ? अथासत्, कथंसदिति ? तदनवदातम्। यतो यदि येनैव प्रकारेण सत्त्वं, तेनैवासत्त्वं, येनैव चासत्त्वं, तेनैव सत्त्वमभ्युपेयेत, तदा स्याद्विरोधः। यदातु स्वरूपेण घटादित्वेन, स्वद्रव्येण हिरण्डयादित्वेन, स्वक्षेत्रेण नागरादित्वेन, स्वकालत्वेन वासन्तिकादित्वेन सत्त्वं, पररूपादिना तु पटत्वतन्तुत्वग्राम्यत्वग्रैष्मिकत्वादिनाऽसत्त्वं, तदा क्व विरोधगन्धोऽपि? येतु सौगताः परासत्त्वं नाभ्युपयन्ति, तेषां घटादेः सर्वात्मकत्वप्रसङ्गः। तथाहि-यथा घटस्य स्वरूपादिना सत्त्वं,तथा यदि पररूपादिनाऽपि स्यात्, तथासति स्वरूपादित्ववत् पररूपादित्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् ? परासत्त्वेन तु प्रतिनियतोऽसौ सिद्ध्यति। अथ न नाम नास्ति परासत्त्वं, किंतु स्वसत्वमेव तदिति चेद्। अहो ! नूतनः कोऽपि तर्कवितर्ककर्कशः समुल्लापः / न खलु यदेव सत्त्वं, तदेवासत्त्वं भवितुमर्हति, विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरक्यायोगात्। अथ पृथक् तन्नाभ्युपगम्यते, नच नाभ्युपगम्यत एवेति किमिदमिन्द्रजालम् ? ततश्चास्यानक्षरमसत्त्वमेवोक्तं भवति / एवं च यथा स्वासत्त्यासत्त्वात्स्यसत्त्वं तस्य, तथा परासत्त्वासत्त्वात्परसत्त्वप्रसक्तिरनिवारितप्रसरा, विशेषाभावात्। अथ नाभावनिवृत्त्या पदार्थो भावरूपः, प्रतिनियतो वा भवति, अपितु स्वसामग्रीतः स्वस्वभावनियत एवोपजायते इति किं परासत्त्वेनेति चेत् ? न किश्चित्। केवलं स्वसामग्रीतः स्वस्वभावनियतोत्पत्तिरेव परासत्त्वात्मकत्वव्यतिरेकेण नोपपद्यते / पारमार्थिकस्वासत्त्वासत्त्वात्मकस्वसत्त्वेनैव परासत्त्वासत्त्वात्मकपरसत्त्वेनाप्युत्पत्ति प्रसङ्गात्।यौगास्तु प्रगल्भन्तेसर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेण पदार्थप्रतिनियमप्रसिद्धेः पर्याप्तं तेषामसत्त्वात्मककल्पना कदर्थनेनेति। तदसुन्दरम्। यतो यदा पटाद्यभावरूपी घटो न भवति, तदा घटः पटादिरेव स्यात्। यथा च-घटस्य घटाभावात्, भिन्नत्वात् घटरूपता, तथा पटादेरपि स्यात्। घटाभावाद्भिन्नत्वादेव। किंच-अमीषां भावानां स्वतो भिन्नानाम-भिन्नानां वा भिन्नाभावेन भेदः क्रियते? नाद्यः पक्षः, स्वहेतुभ्य एव भिन्नानामेषामुत्पत्तेः / नापि द्वितीयः, स्वयमभिन्नानामन्योऽन्या-भावासंभवात् / भावाभावयोश्च भेदः स्वत एव वा स्यात्, अभावान्तरेण बा / प्राचि पक्षे, भावानामपि स्वरूपेणैवायमस्तु, किमपरेणाभावेन परिकल्पितेन ? द्वितीये, पुनरनवस्थानापत्तिः, अभावान्तरेष्वप्यभावान्तराणां भेदका- नामवश्यस्वीकरणीयत्वात् / कथञ्चिदभिन्ने तु भावादभावे न कश्चिदमूदृशकलङ्कावकाशः / वस्त्वेव हि तत्तथा; सदसदंशयोस्तथा परिणतिरेव हि घटः पटो वाऽभिधीयते, न केवलः सदंशः, ततः कथं घटादिः परेणात्मानं मिश्रयेत् ? इति सूक्तः सदसदनेकान्तवादः / एवमपरेऽपि भेदाभेदानेकान्तादयः स्वयं चतुरैर्विवेचनीयाः / रत्ना०५ परि०। (3) अधुना क्षणिकवादिन ऐहिकामुष्मिकव्यवहारानुपपन्नार्थ समर्थनमविमृश्यकारिताकारितं दर्शयन्नाह - कृतप्रणाशाऽकृतकर्मभोगभवप्रमोक्षस्मृतिमङ्गदोषान्। उपेक्ष्य साक्षात्क्षणभङ्गमिच्छनहो! महासाहसिकः परस्ते // 18|| कृतप्रणाशदोषमकृतकर्मभोगदोषं भवभङ्गदोष प्रमोक्षभङ्गदोष स्मृतिभङ्गदोषमित्येतान् साक्षादित्यनुभवसिद्धान् उपेक्ष्यानादृत्य साक्षात्कुर्वनपि गजनिमीलिकामवलम्बमानः सर्वभावानां क्षणभङ्गमुदयानन्तरविनाशरूपक्षणक्षयितामिच्छन् प्रतिपाद्यमानस्ते तव परः प्रतिपक्षी वैनाशिकः (सौगत इत्यर्थः) अहो ! महासाहसिकः / सहसाऽविमर्शात्मकेन बलेन वर्तते साहसिकः / भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते / महांश्चासौ साहसिकश्च महासाहकोऽत्यन्तमभिमृश्य प्रवृत्तिकारं। इति मुकुलितार्थः / विवृतार्थस्त्वयम् बौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति,न पुनमौक्तिककण-निकरानुस्यूतैकसूत्रवत् तदन्वयनिमेकम्। तन्मते येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतं तस्य निरन्वयविनाशान्न तत्फलोपभोगः / यस्य च फलोपभोगस्तेन तत्कर्म न कृतम्। इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतस्य कर्मणः फलानुपभोगात् / उत्तरज्ञानक्षणस्य चाकृतकर्मभोगः, स्वयमकृतस्य परकृतस्य कर्मणः फलोपभोगादिति। अच कर्मशब्द उभयत्रापि योज्यः / तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः / बन्धानुलोपम्याचेत्थमुपन्यासः / तथा भवभङ्गदोषः / भव आर्जवीभावलक्षणः संसारस्तस्य भङ्गो विलोपः स एव दोषः क्षणिकवादे प्रसज्यते / परलोकाभावप्रसङ्ग इत्यर्थः / परलोकिनः कस्यचिदभावात्। परलोको हि पूर्वजन्मकृत कानुसारेण भवति। तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात्केन नामोपभ्युज्यतां जन्मान्तरे ? यच्च मोक्षाकरगुप्तेन 'यचितं तचित्तान्तरं प्रतिसंधत्ते यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरंपरासिद्धये प्रमाणमुक्तं, तद् व्यर्थम्:, चित्तक्षणानां निरवशेषनाशिनां चित्तान्तरप्रतिसन्धानायोगात्। द्वयोरवस्थितयोर्हि प्रतिसन्धानमु-भयानुगामिना केनचित् क्रियते। यश्चान्योः प्रतिसन्धाता स तेन नाभ्युपगम्यते / स ह्यात्माऽन्वयी। न च प्रतिसन्धते इत्यस्य जनयतीत्यर्थः, कार्यहतुप्रसङ्गात् / तेन वादिनाऽस्य हेतोः स्वभावहेतुत्वेनोक्तत्वात् / स्वभावहेतुश्च तादात्म्ये सति भवति / भिन्नकालभाविनोश्व चित्तचित्तान्तरयोः कुतस्तादात्म्यम् ? युगपद्भाविनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाभावापत्तिः / युगपद्भावित्वेऽविशिष्टेऽपि किमत्र नियामक यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति ? अस्तु वा प्रतिसन्धानस्य जननमर्थः / सोऽप्यनुपपन्नः, तुल्यकालत्वे हेतुफलभावस्थाभावात् / भिन्नकालत्वे च पूर्वचित्तक्षणस्य विनष्टत्वात्, उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ? इति। यत्किञ्चिदेतत्। तथा प्रमोक्षभङ्गदोषः / प्रकर्ष