SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ खणिअवाइ 706 - अमिधानराजेन्द्रः भाग-३ खणिअवाइ विरुध्येते। न हि नञः प्रयोगाप्रयोगमात्रेण विरोधगतिः, अतिप्रसङ्गात्। "दलति हृदयं गाढोद्वैग द्विधा नतु भिद्यते, वहति विकलः कायो मोहं न मुञ्चति चेतनाम्। ज्वलयति तनूमन्तर्दाहः करोतिन भस्मसात्, प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् // 1 // इत्यादिष्वपि तत्प्राप्तेः। न च स्थिरभावस्यापि येनैव रूपेण व्यतिरेक, तेनैवाव्यतिरेकं व्याकुर्महे / द्रव्यमेतत्, एते च पर्याया इतिरूपेण हि व्यतिरेकः, वस्त्वेतदितिरूपेण त्वव्यतिरेकः / एकमेव च विज्ञानक्षणं सविकल्पाविकल्पकं, भ्रान्ताभ्रान्तं, कार्य कारणं चायं स्वयमेव स्वीकरोति, भेदाभेदे तु विरोधप्रतिरोधमभिदधातीप्ति महासाहसिकः, इति क्षणिकाक्षणिकेऽपि क्रमाक्रमाभ्यामर्थक्रियायाः संभवात् सिद्धं संदिग्धानैकान्तिकं सत्त्वम्। क्षणिकैकान्तताभ्यामर्थक्रियाया अनुपपत्तेविरुद्धं वा। तथाहि-क्रमस्तावत् द्वेधा, देशक्रमः कालक्रमश्वा तत्र देशक्रमो यथा-तरलतरतरङ्गपरम्परोत्तरणरमणीयश्रेणीभूतश्वेतच्छदमिथुनानाम्। कालक्रमस्त्वेकस्मिन्कलशे क्रमेण मधुमधूकबन्धूकशम्बूकादीनां धारणक्रियां कुर्वाण / क्षणिकैकान्ते तु द्वयोरप्येतयोरभाव एव / येन हि वस्तुना वचिद्देशे, काले वा किञ्चित्कार्यमर्जयामासे, तत्तत्रैब, तदानीमेव च निरन्वयमनश्यत्, ततो देशान्तरकालान्तरानुसरणव्यसनशालिनः कस्याप्येकस्यासंभवात् क्व नाम क्षणिकैकान्ते क्रमोऽस्तु? नाप्यत्र यौगपद्यमनवद्यम् / यतः क्षणिकानंशस्वरूपं रूपं युगपदेव स्वकार्याणि कार्याणि कुर्वाणं येनैव स्वभावेन स्वोपादेयं रूपमुत्पादयति तेनैव ज्ञानक्षणमपि, यद्वा-येनैव ज्ञानक्षणं तेनैव रूपक्षणमपि, स्वभावान्तरेण घा? प्राचिपक्षे, ज्ञानस्य रूपस्वरूपत्वापत्तिः। रूपोत्पादकैकस्वभावाभिनिर्वय॑त्वात्, रूपस्वरूपवत् / द्वितीये, रूपस्य ज्ञानरूपतापत्तिः, ज्ञानोत्पादनकस्वभावसंपाद्यत्वात्, ज्ञानस्वरूपवत्। तृतीये रूपक्षणस्य क्षणिकानंशस्वरूपस्यापत्तिः., स्वभावभेदस्य भेदकस्य सद्भावात् / अथानंशैकस्वरूपमपि रूपं सामग्रीभेदाद्भिन्नकार्यकारिभविष्यति को दोष इति चेत्, तर्हि नित्यैकरूपोऽपि पदार्थस्तत्तत्सामग्रीभेदात्तत्तत्कार्यकर्ता भविष्यतीति कथं क्षणिकैकान्तसिद्धिः स्यात् ? ततो न क्षणिकैकान्ते क्रमयोगपद्याभ्यामर्थक्रियासंभवतीति सिद्धं विरुद्धं सत्त्वमिति / / यदप्याचक्षते भिक्षवः क्षणक्षयैकान्तप्रसाधनाय प्रणामम्-ये यद्भावं प्रत्यनपेक्षाः तेतद्भावनियताः, यथा अन्त्या कारणसामग्रीस्वकार्यजनने, विनाशं प्रत्यनपेक्षाश्च भावा इति। तत्र विनाशं प्रत्यनपेक्षत्वमसिद्धतावष्टब्धमेव नोच्छ्वसितुमपि शक्कोतीति कथं वस्तूनां विनाशनैयत्यसिद्धौ सावधानतां दध्यात् ? तथाहि-तरस्वि-पुरुषप्रेरितप्रचण्डमुद्गरसंपत्ि कुम्भादयो ध्वंसमानाः समीक्ष्यन्ते / न त्वेतत्साधनसिद्धिवद्धकक्षेष्वस्मासुसत्सु कथमसिद्धताऽभिधातुंशक्या ? तथाहि वेगवन्मुद्गरादिर्नाशहेतुर्नश्वरं वा भावं नाशयति, अनश्वरं वा / तत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि नाशानुपपत्तिः, स्वभावस्य गीर्वाणप्रभुणाऽप्यन्यथाकर्तुमशक्यत्यात् / नश्वरस्य च नाशे तद्धेतूनां वैयर्थ्यम् / न हि स्वहेतुभ्य एवावाप्तस्वभावे भावे भावान्तरव्यापरः फलवान्, तदनुपरितप्रसक्तेः। उक्तं च ''भावो हि नश्वरात्मा चेत्, कृतं प्रलयहे तुभिः / अथाप्यनश्वरात्माऽसौ, कृतं प्रलयहेतुभिः"|१|| अपि च भावात् पृथग्भूतो नाशो नाशहेतुभ्यः स्यात्, अपृथगभूतो वा? यद्यपृथग्भूतस्तदा भाव एव तद्धेतुभिः कृतः स्यात्, तस्य च स्वहेतोरेवोत्पत्तेः कृतस्य करणायोगात् तदेव तद्धेतुवैयर्थ्यम् / अथ पृथग्भूतोऽसौ, तदा भावसमकालभावी, तदुत्तरकालभावी वा स्यात् ? तत्र समकालभावित्वे निर्भरप्रतिबन्धबन्धुरबान्धवयोरिव भावाभावयोः समकालमेवोपलम्भो भवेत् अविरोधात् / तदुत्तरकालभावित्वे तु घटादेः किमायातं ? येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात्। न हि तन्त्वादेः समुत्पन्ने पटे घटः स्वोपलम्भं स्वार्थक्रियां च कुर्वन् केनचित्प्रतिषेधुं शक्यः / ननु पटस्याविरोधित्वान्न तदुत्पत्तौ तद्भावः, अभावस्य तु तद्विपर्ययादसौ स्यात् / ननु किमिदमस्य विरोधित्वं नाम ? नाशकत्वं, नाशस्वरूपत्व वा / नाशकत्वं चेत्, तर्हि मुद्रादिवन्नाशोत्पादद्वारेणानेन घटादिरुन्मूलनीयः; तथा च तत्रापि नाशेऽयमेव पर्यनुयोग इत्यनवस्था / नाशस्वरूपत्वं चेत् / नन्वेवमर्थान्तरत्वाविशेषात् कथं कूटस्यैवासौ स्याद् ? अन्यस्यापि कस्मान्नोच्यते ? तत्संबन्धित्वेन करणादिति चेत्, कः संबन्धः ? कार्यकारणाभावः, संयोगः, विशेषणीभावः, अविष्वग्भावो वा ? न प्रायः पक्षः, मुद्गरादिकार्यत्वेन तदभ्युपगमात् न द्वितीयः, तस्याद्रव्यत्वात्, कुटादिसमकालतापत्तेश्च / नतृतीयः, भूतलादिविशेषणतया तत्कक्षीकारात् / तुरीये त्वविष्वग्भावः सर्वथा भेदः, कथञ्चिद् भेदो वा भवेत्। नाद्यः पक्षः पृथग्भूतत्वेनास्य कक्षंकारात्। न द्वितीयः, विरोधावरीधात्। इति नाशहेतोरयोगतः सिद्धं वस्तूनां तं प्रत्यनपेक्षत्वमिति / तदेतदेतस्य समस्तमुत्पादेऽपि समानं पश्यतः प्रध्वंस एव पर्यनुयुञ्जानस्य लुप्तैकलोचनतामाविष्करोति। तथाहि-उत्पादहेतुरपि सत्स्वभावस्य, असत्स्वभावस्य वा भावस्योत्पादकः स्यात् / न सत्स्वभावस्य, तस्य कृतोपस्थायिता प्रसङ्गात्। नाप्यसत्स्वभावस्य, स्वभावस्थान्यथाकर्तुमशक्तेः, अभ्युपगमविरोधाच / न ह्यसत्स्वभावजन्योत्पादकत्वमिष्यते त्वया / अथाऽनुत्पन्नस्यासत्त्वादुत्पन्नस्य सत्स्वभावत्वाट्ट्यर्थो विकल्प-युगलोपन्यासपरिश्रम इति चेत्। नैवम् / नष्टतर विकल्पापेक्षयाऽस्य नाशेऽपि तुल्यत्वात् / तथा च-"भावो भवत्स्वभावश्चेत्, कृतमुत्पादहेतुभिः / अथाभवत्स्वभावोऽसौ, कृतमुत्पादहेतुभिः" ||1| तथाऽयमुत्पद्यमानाव्यतिरिक्तः, अव्यतिरिक्तो वा। तत्र जन्याव्यतिरिक्तोत्पादजनकत्वेन जन्यस्योत्पादः, जन्याद् व्यतिरिक्तत्वेनोत्पादस्य कस्यचिदयोगात्। न हि कथञ्चित् भिन्नमुत्पादमन्तरेण तदेवोत्पद्यत इत्यपि वक्तुं शक्यते, किंतु वस्तिवदमित्येव वक्तुं शक्यम् / न च तथा तदुत्पादः कथितः स्यात् / उत्पद्यमानाद् व्यतिरिक्तोत्पादजनकतायां न तस्योत्पादः तद्वदन्यस्यापि वा कथमसौ न भवेत् ? तस्यैव संबन्धिनस्तस्य करणादिति चेत् / तदप्यवद्यम् / उत्पादेनापि सार्ककार्यकारणभावादेस्त्वन्मतेन संबन्धस्यासंभवात् / तस्मान्नेयमीदृगविकल्पपरिकल्पजल्पाकता परिशीलनीया / इदं पुनरिहैदंपर्यम्। यथा दण्डचक्रचीवरादिकारणकलापसहकृतात् मृत्स्नालक्षणोपादानकारणात्कुम्भ उत्पद्यते, तथा वेगवमुद्गरसहकृतात् तस्मादेव विनश्यत्यपि / नचैकान्तेन विनाशः कलशाद्भिन्न एव, मल्लक्षणैकद्रव्यतादात्म्यात्। विरोधित्वंचाऽस्य विनाशरूपत्वमेव। न चैवं घटवत्पटस्यापि तदापत्तिः, मृदव्यतादात्म्येनैवावस्थानादुत्पादवत्।नचसर्वथा तादात्म्यं, तदन्यतरस्यासत्त्वापत्तेः। न चैवमत्र विरोधावरोधः, चित्रैकज्ञानवदन्यथोत्पादेऽपि तदापत्तेः / इत्यसिद्धं विनाशं प्रत्यनपेक्षत्वम
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy