________________ खणिअवाइ ७०५-अभिधानराजेन्द्रः भाग-३ खणिअवाइ ज्ञानस्कन्धस्यायमनुभव इति चैत् / न / तस्यापि क्षणिकत्वात्। ज्ञानक्षणस्य चातिसूक्ष्मत्वात्सुखदुःखानुभवाभावः / क्रियाफलवतोश्च क्षणयोरत्यन्तासङ्गते कृतनाशाकृताभ्यागमाऽऽत्तिरिति ज्ञानसन्तान एकोऽस्तीति / तस्यापि सन्तानिव्यतिरिक्तस्याभावात् यत्किञ्चिदेतत्। पूर्वक्षण एवं उत्तरक्षणे वासनामाधाय विनक्ष्यतीति चेत्। तथाचोक्तम्"यस्मिन्नेवहि सन्ताने, आहिता कर्मवासना / फलं तत्रैव संधत्ते, कार्पासे रक्तता यथा" |1) अत्रापीदं विकल्प्यते-सा वासना कि क्षणेभ्यो व्यतिरिक्ता, अव्यतिरिक्ता वा ? यदि व्यतिरिक्ता, वासकत्वानुपपत्तिः / अथाव्यतिरिक्ता क्षणवत्क्षणक्षयित्वं तस्याः / तदेवमात्माभावे सुखदुःखानुभवाभावः स्यादस्ति च सुखदुःखानु भवोऽतोऽस्त्यात्मेति। अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां स्वविषयादन्यत्राप्रवृत्तेः सङ्कलनाप्रत्ययो न स्यात्। आलयविज्ञानाद्भविष्यतीति चेत् / आत्मैव तर्हि संज्ञाऽन्तरेणाभ्युपगत इति / तथा बौद्धागमोप्यात्मप्रतिपादकोऽस्ति / स चायम् - "इत एकनवतेः कल्पे, शक्त्या मे पुरुषो हतः / तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः" ||1|| तथा"कृतानिकारण्यतिदारुणानि, तनूभवन्त्यात्मनिगर्हणेन। प्रकाशनात्संवरणाच तेषामत्यन्तमूलोद्धरणं वदामि" ||1 // इत्येवमादि। सूत्र. 1 श्रु.१ अ.१उ। (2) शौद्धोदनिशिष्यःसमाचष्टेअहो ! कष्टः शिष्टरुपक्रान्तोऽयमेकस्यानेककालावस्थितिवादः। यत:प्रतिक्षणभङ्गुरभावात्रभासनायामेव हि प्रमाणमुद्रा साक्षिणी / तथाहियत्सत्तत्क्षणिक, सँश्च विवादाध्यासितःशब्दादिः सत्त्वं तायद्यत्किञ्चिदन्यत्रास्तु, प्रस्तुते तावदर्थक्रियाकारित्वमेव मे संमतं, तच शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेव / विपक्षाच व्यापकानुपलब्ध्या व्यावृत्तम् / सत्त्वस्य हि क्षणिकत्वत्क्रमाक्रमावपि व्यापकावेव / न हि क्रमाक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भटत्वात्, न क्रम इति निषेधादेवाक्रमोपगमात्, नाक्रम इति निषेधादेव च क्रमोपगमात् / तौ च क्रमाक्रमौ स्थिराद्यावर्त्तमानावर्थ क्रियामपि ततो व्यावर्तयतः / वर्तमानार्थक्रियाकरणकाले ह्यतीतानागतयोरप्यर्थक्रिययोः समर्थत्वेतयोरपि करणप्रसङ्गः। असमर्थत्वे पूर्वापरकालयोरप्यकरणाऽऽपत्तिः / समर्थोऽप्यपेक्षपणीयासन्निधेर्न करोति, तत्सन्निधेस्तु करोतीति चेत् / ननु किमर्थं सहकारिणामपेक्षा? किं स्वरूपलाभार्थम्, उतोपकारार्थम, अथ कार्यार्थम्न प्रथमः, स्वरूपस्य | करणाधीनस्य नित्यस्य वा पूर्वसिद्धत्वात् / न द्वितीयः, स्वयं सामर्थ्य सामर्थ्य वा तस्यानुपयोगात्। तथा च--'"भावः स्वतः समर्थश्चेदुपकारः किमर्थकः ? भावः स्वतोऽसमर्थश्चेदुपकारः किमर्थकः?"||१|| अत एव न तृतीयः / उपकारवत्सहकारिणामप्यनपयोगात / तथा च"भावः स्वतः समर्थश्चेत्, पर्याप्तं सहकारिभिः भावः स्वतोऽसमर्थश्चेत्, पर्याप्तं सहकारिभिः" / / 1 / / अनेकाधीन् स्वभावतया कार्यमव तानपेक्षत इति चेत्। न / तस्यास्वतन्त्रत्वात्, स्वातन्त्र्ये वा कार्यत्वव्याघातात्, तद्धि तत्शाकल्येऽपि स्वातन्त्र्यादेव न भवेदिति। एवं च यत्क्रमाक्रमाभ्यामर्थक्रियाकारि न भवति, तदसत्, यथा गगनेन्दीवरं, तथा चाक्षणिकाभिमतो भाव इति व्यापकानुपलब्धिरुत्तिष्ठते / तथा च- | क्रमयोगपद्ययोर्व्यापकयोावृत्तेरक्षणिकादु व्यावर्तमानार्थक्रिया क्षणिके विश्राम्यतीति प्रतिबन्धसिद्धिः / / (उत्तरम्) अत्राचक्ष्महेननु क्षणभिदेलिमभावाभिधायिभिक्षुणा कारणग्रहिणः, कार्यग्राहिणः तवयग्राहिणो वा प्रत्यक्षादर्थक्रियाकारित्वप्रतीतिः प्रोच्येत, यतस्तच शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेवेत्युक्तं युक्तं स्यात् / न तावत्पौरस्त्यात्, तस्य कारणमात्रमन्त्रणपरायणत्वेन कार्य किं - वदन्तीकुण्ठत्वात्। नापि द्वितीयात्, तस्य कार्यमात्रपरिच्छेद-विदग्धत्वेन कारणावधारणवन्ध्यत्वात् / तदुभयावभासे चेदमस्य कारण. कार्य चेत्यर्थक्रियाकारित्वावसायोत्पादात्। वस्तुस्वरूपमेव कारणत्यं, कार्यत्वं चेति तदन्यतर परिछे देऽपि तबुद्धिसिद्धिरिति चेत्, एवं तर्हि नालिकेरद्वीपवासिनोऽपि वह्रिदर्शनादेव तत्र धूमजनकत्वनिश्चयस्य, धूमदर्शनादेव वह्निजन्यत्वनिश्चयस्य च प्रसङ्गः / नापि तृतीयात, कार्यकारणोभयीग्राहिणः प्रत्यक्षस्यासंभवात्, तस्य क्षणमात्रजीवित्वात्, अन्यथाऽनेनैव हेतोर्व्यभिचारात् / तदुभयसामर्थ्यसमुद्भूतविकल्पप्रसादात् तदवसाय इति चेत् तर्हि कथं प्रत्यक्षेण तत्प्रतीतिः / प्रत्यक्षव्यापारपरामर्शित्वाद्विकल्पस्य तद्द्वारेण प्रत्यक्षमेव तल्लक्षकमिति चेत्। ननुन कार्यकारणग्राहिणोरन्यतरेणापि प्रत्यक्षेण प्राक्कार्यकारणभावो भासयामासे, तत्कथं विकल्पेन तद्व्यापारः परामृश्येत् ? इति न क्षणिकवादिनः क्वापि अर्थक्रिया-प्रतीतिरस्तीति वाद्यसिद्धं सत्त्वम् / संदिग्धानकान्तिकंच क्षणिकाऽक्षणिके क्षणिकैकान्तविपक्षे क्रमाक्रमव्यापकानुपलम्भस्यासिद्धत्वेन तद्व्याप्तार्थक्रियायास्ततो ध्यावृत्त्यनिर्णयात्। यतः-किञ्चिन्कृत्वाऽन्यस्य करणं हि क्रमः / अयं च कलशस्य कथञ्चिदेकरूपस्यैव क्रमवत् सहकारिकारणकलापोपढौकनवशेन क्रमेण घटचेटिकामस्तकोपरि पर्यटनात्तासांक्लमं कुर्वतः सुप्रतीत एव। अत्र हि भवानत्यन्ततार्किकमन्योऽप्येतदेव वक्तुं शक्नेति, यस्मादक्षेपक्रियाधर्मणः समर्थस्वभावादेकं कार्यमुदपादि, स एव घेत्पूर्वमप्यस्ति, तदा तत्कालवत्तदैव तद्विदधानः कथं वार्यताम् ? "कार्याणि हि विलम्बन्ते, कारणासन्निधानतः। समर्थहेतुसद्भावे, क्षेपस्तेषां नु किं कृतः?"||१|| इति / नचैतदवदातम् / एकान्तेनाक्षेपक्रियाधर्मत्वानभ्युपगमात् द्रव्यरूपशक्त्यपेक्षया हि तत्समर्थमभिधीयते, पर्यायशक्त्यपेक्षया त्वसमर्थमिति। यदेव हि कुशूलमूलावलम्बि वीजद्रव्यम्, तदेवावनिवनपवनाऽऽतपसमर्पिता-तिशयविशेषस्वरूपपर्यायशक्तिसमन्वितमडकुरं करोति। नन्वसौ पर्यायशक्तिः कुशूलमूलावस्थानावस्थायामविद्यमाना, क्षेत्रक्षितिक्षेपक्षणे तु संपद्यमाना बीजद्रव्यादिभिन्ना वा स्यात्, अभिन्ना वा, भिन्नाभिन्ना वा ? यदा भिन्ना, तदा किमनया काणनेत्राञ्जनरेखाप्रख्यया? विभिन्नाः सन्निधिभाजः संवेदनकोटीमुपागताः सहकारिण एवासताम् / अथ सहकारिणः कमपि बीजस्यातिशेष-विशेषमपोषयन्तः कथं सहकारितामपि प्राप्नुयुः ? इति चेत्, तर्हि अतिशयोऽप्यतिशयान्तरमनारचयन् कथं तत्तां प्राप्नुयात् ? अथायमारचयति तदन्तर, तर्हि समुपस्थितमनवस्थादौस्थ्यम्। अथाभिन्नाभावात्पर्यायशक्तिः, तर्हि तत्करणे स एव कृत इति कथं न क्षणिकत्वम् ? भिन्नाभिन्नपर्यायशक्तिपक्षोऽप्यशेक्षणिकत्वमनर्पयन्न कुशलीति। अत्र ब्रूमः-एषु चरम एव पक्षः कक्षीक्रियते / नचात्र कलङ्कः कश्चिद् द्रव्यांशद्वारेणाक्षणिके वस्तुनि पर्यायांशद्वारेण क्षणिकत्वोपगमात्, क्षणिकैकान्तस्यैव कुट्टयितुमुपक्रान्तत्वात्। क्षणिकपर्यायभ्योऽव्यतिरेकात् क्षणिकमेव द्रव्यं प्राप्नोतीति चेत्। न / व्यतिरेकस्यापि संभवात् / न च व्यतिरेकाऽव्यतिरेकावेकस्य