SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ खणलाभदीवणा ७०४-अभिधानराजेन्द्रः भाग-३ खणिअवाइ आउयपरिहाणीए, असमंजसचेट्ठियाण व विवागे। खणलाभदीवणाए, धम्मगुणेसुं च विविहेसु॥४८|| क्षणे कालविशेष स्तोककालेऽपीत्यर्थः, लाभोऽशुभाध्यवसायेन महतोऽशुभकर्मणः शुभाध्यवसायेन च महत इतरस्यार्जनं तस्य दीपना प्रकाशना क्षणलाभदीपना। अथवा, क्षणोऽवसरो मोक्षसाधनस्य। सच द्रव्यादिभेदाचतुर्विधः-तत्र द्रव्यतो मानुषत्वं, क्षेत्रत आर्यक्षेत्र, कालतो दुःखमसुषमादिकालविशेषो, भावतो बोधिरिति। तस्य क्षणस्य यो लाभो युगसमिलान्यायेन कष्टात्प्राप्तिस्तस्य या दीपना सा तथा, तस्याम्।। पञ्चा. 2 विव.। खणि स्त्री. (खनी) खन् इन् वा डीप। धातुरत्नादेरुत्पत्तिस्थाने, वाच.। आकरे, उत्त. 14 अ. तिं.। खणिअवाइ त्रि. (क्षणिकवादिन्) सर्वपदार्थानां क्षणभङ्गुरत्व-प्रतिपादके शौद्धोदनिशिष्ये बौद्धे, ते च क्षणिकवादिनः एकान्त-क्षणिकान् पञ्च स्कन्धान् वदन्ति। सूत्र.। (1) स्कन्धपञ्चकप्ररूपणपुरस्सरं तन्निराकरणम्। (2) क्षणिकत्वप्ररूपणखण्डने। (3) क्षणिकवादिनामैहिकामुष्मिकव्यवहारानुपपत्तिरविमृश्यकारि त्वं च। (4) वासनाप्ररूपणम्। (5) सर्वथाविनाशाभावप्ररूपणम्। (6) क्षणभङ्गवादे यन्नोपपद्यतेतन्निरूपणम्। (7) क्षणभङ्गवादे दीक्षायां वैफल्यप्ररूपणम्। (8) स्थविराणामश्वमित्रं प्रति शिक्षणम्। (10) सांप्रत बौद्धमतं पूर्वपक्षयन् नियुक्तिकारोपन्यस्तमफल वादाधिकारमाविवियन्नाह - पंच खंधे वयंतेगे, वालाउ खणजोइणो। अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं / / 17 / / एके केचन वादिनो बौद्धाः पञ्चस्कन्धान् वदन्ति। रूप-वेदना-विज्ञानसंज्ञा-संस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते, नापरः कश्चिदात्माख्यः स्कन्धोऽस्तीत्येवं प्रतिपादयन्ति। तत्र रूपस्कन्धः-पृथिवीधात्वादयो, रूपादयश्च / / 1 / / सुखा दुःखा अदुःखसुखा चैति वेदना वेदनास्कन्धः // 2 / / रूपपविज्ञानं-रसविज्ञानमित्यादिविज्ञानं विज्ञानस्कन्धः // 3 // संज्ञास्कन्धःसंज्ञानिमित्तोऽवग्रहणात्मकः प्रत्ययः / / 4 / / संस्कारस्कन्धःपुण्यापुण्यादिधर्मसमुदायः इति / / 5 / / न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाऽध्यवसीयते, तदव्यभि-चारिलिङ्गग्रहणाऽभावात् / नाप्यनुमानेन / न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाऽविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला यथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति। तथा ते स्कन्धाः क्षणयोगिनः परमनिकृष्टः कालः क्षणः, क्षणेन योगः संबन्धः क्षणयोगः, स विद्यते येषां ते क्षणयोगिनः, क्षणमात्राऽवस्थायिन इत्यर्थः / तथा च तेऽभिदधति-- स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा? यद्यविनश्वरः ततस्तद्व्यापिन्या क्रमयोगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभावः प्रसञ्जति / तथाहियदेवार्थक्रियाकारि तदेव परमार्थतः सदिति। स च नित्योऽर्थः क्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तते, यौगद्येन वा ? न तावत्क्रमेण, यतो ह्येकस्याऽर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा, नवा ? यदि विद्यते किमिति क्रमकरणम् ? सहकार्यपेक्षयेति चेत्। तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, न वा ? यदि क्रियते किं पूर्वस्वभावपरित्यागेनापरित्यागेन वा ? यदि परित्यागेन, ततोऽतादवस्थ्यापत्तेरनित्यत्वम्। अथ पूर्वस्वभावापरित्यागेन, ततोऽतिशयाभावात्किं सहकार्यपक्षया ? अथाकिश्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते। तदयुक्तम् / यतः "अपेक्षेत परं कश्चिद्यदि कुर्वीत किञ्चन / यदि किश्चित्करं वस्तु, किं केनचिदपेक्ष्यते?" ||1|| अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थ-क्रियाकरणस्वभावो न विद्यते। तथा च सति स्पष्टैव नित्यताहानिः। अथासौ नित्यो यौगपद्येनाऽर्थक्रियां कुर्यात्तथासति प्रथमक्षण एवाऽशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृत्वमायाताम्। तथा च-सैवानित्यता। अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात् / तदसांप्रतम् / कृतस्य करणाभावादिति / किं च-द्वितीयादिक्षणसाध्या अप्यर्थाः प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्। अतस्तत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति / तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान स्वकारणेभ्यो नित्यस्योत्पाद इति / अथाऽनित्यस्वभावः समुत्पद्यते। तथा च सति विघाभावादायातमस्मदुक्तक्रमशेषपदार्थजातस्य क्षणिकत्वम्। तथा चोक्तम्-"जातिरेव हि भावानां, विनाशे हेतुरिष्यते। यो जातश्च न च ध्यस्तो, नश्येत्पश्चात्स केन च ?" ||1|| ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतु सद्भावस्तस्य तदा बिनाशः। तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमित्येतच्चानुपासितगुरोर्वचः / तथाहि-तेन मुद्रादिकेन विनाशहेतुना घटादेः किं क्रियते? किमत्र प्रष्टव्यम्? अभावः क्रियते। अत्र च प्रष्टव्यो देवानांप्रियःअभाव इति किं पर्युदासप्रतिषेधोऽयम्, उत प्रसज्यप्रतिषेध इति? तत्र यदि पर्युदासस्ततोऽयमर्थो भावादन्यो भावो भावान्तरं घटात्पटादिः सोऽभाव इति। तत्र भावान्तरे यदि मुद्रादिव्यापारो न तहिं तेन किञ्चिद् घटस्य कृतमिति / अथ प्रसज्यप्रतिषेधस्तदा यथार्थो विनाशहेतुरभावं करोति। किमुक्तं भवति? भाव न करोतीति। ततश्च क्रियाप्रतिषेध एव कृतः स्यात्। न च घटादेः पदार्थस्य मुद्गरादिना करणम् / तस्य स्वकारणैरेव कृतत्वात् / अय भावाभावोऽभावस्त करोतीति, तस्य तुच्छस्य नीरूपत्वात्। कुतस्तत्र कारणानां व्यापारोऽथ तत्रापि कारणव्यापारो भवेत्, खरशृङ्गादावपि व्याप्रियेरन् कारणानीति। तदेवं विनाशहेतोर-किञ्चित्करत्वात्स्वहेतुत एवाऽनित्यताक्रोडी कृतानां पदार्थानामुत्पत्तेर्विघहेतोश्चाभावात् क्षणिकत्वमवस्थितमिति / तुशब्दः पूर्वादिभ्योऽस्य व्यतिरेकप्रदर्शकः / तमेव श्लोकपश्चार्धेन दर्शयति - (अण्णो अण्णण्णो इति) ते हि वौद्धा यथाऽत्मषष्ठवादिनः-सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तः। यथा चार्वाका भूताऽव्यतिरिक्त चैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवाहु वोक्तवन्तः। तथा हेतुभ्यो जातो हे तुकः, कायाकारपरिणतभूतनिष्पादित इति यावत् / तथाऽहेतुकोऽनाद्यपर्यवसितत्वान्नित्य इत्येवमात्मानं ते वौद्धा नाऽभ्युपगतवन्त इति // 17 // (सूत्र.) यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते, ततस्तदभावात्सुखदुःखादिक कोऽनुभवतीत्यादिगाथा प्राग्वद् व्याख्येयेति। तदेवमात्मनोऽभावाद्योऽयं स्यसंविदितः सुखदुःखानुभवः स कस्य भवत्विति चिन्त्यताम?
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy