________________ केवलिसमुग्धाय ६६६-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्धाय पि जुंजइ, वइजोगं पि जुंजइ, कायजोगं पि जुंजइ ? हंता० जाव कायजोगं पि जुंजइ, मणजोगं जुंजमाणे किं सचमणजोगं जुजइ, मोसमणजोगं जुजइ, सच्चामोसमणजोगं जुंजइ, असचामोसमणजोगं जुजइ ? गोयमा ! सचमणजोगं जुंजइ, नो मोसमणजोगं जूंजइ, नो सचामोसमणजोगं जुजइ, असचामोसामणजोगं पि जुजइ / वइजोगं जंजमाणे किं सचवइजोगं जुंजइ, मोसवइजोगं जुंजइ, सच्चामोसवइजोगं जुंजइ, असचामोसवइजोगं झुंजइ ? गोयमा ! सचवइजोगं जुजइ, नो मोसवइजोगं जुजइ, नो सच्चामोस-वइजोगं जुंजइ, असच्चामोसवइजोगं पिजुंजइ / कायजोगं जुंजमाणे आगच्छेज्ज वा, गच्छेज वा, चिट्टेज वा, निसीएज वा, तुयटेज वा, उल्लंधिज्ज वा, पलं घिन वा, पाडिहारियपीढ फलगसे जासंथारगं पचप्पिणेजा। (से णमित्यादि) सोऽधिकृतसमुद्धातगतः, णमिति वाक्याल-कारे, ततः समुद्धातात् प्रतिनिवर्तते इति / निवर्त्य च ततः प्रतिनिवर्तनात्, पश्चादनन्तरं, मनोयोगमपि वागयोगमपि काययोगमपि युनक्ति व्यापारयति, यतः भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेष्वचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतमायुषा सह समीकृतेष्वप्यन्तमुहूर्तभाविपरमपदस्तस्मिन्काले यद्यनुक्षरोपपातिकादिना देवेन मनसा पृच्छयते, तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वा पुद्गलान् गृहीत्वा वाग्योग, तमपि सत्यमसत्यं मृषा वा, न शेषान् वाङ्मनसो योगान् क्षीणरागादित्वात् आगमनादौ वौदारिकादिकाययोगम् / तथाहि भगवान् कार्यवशतः कुतश्चित् स्थानात् विवक्षिते स्थाने. आगच्छेत, यदि वा क्वापि गच्छेत्, अथवा तिष्ठत्, ऊर्ध्वस्थाने वा तिष्ठेत्, निषीदेवा, तथाविधश्रमापगमनाय त्वगवर्तनं कुर्यात्, अथवा विवक्षिते स्थाने तथाविधसम्पातिमसत्वाकुलां भूमिमवलोक्य तत्परिहागय जन्तुरक्षानिमित्तमुल्लङ्घ कुर्यात् सहजात्यादिविक्षेपान्मनागधिकतरः पादविक्षेप उल्लङ्घनम्, स एवातिविकटः प्रलङ्घनम्, यदि वा प्रातिहारिकपीठफलकश्य्यासंइतारकं प्रत्यार्प्यते यस्मादानीतं तस्मै समर्पयेत्, इह भगवताऽऽर्यश्यामेन प्रातिहारकपीठफलकादिना प्रत्यर्पणमेवोक्तं ततोऽवसीयते, नियमादन्तर्मुहूर्ताविशेषायुष्क एवाऽऽवर्जी करणादिकमारभते न प्रभूतावशेषायुष्कः, अन्यथा ग्रहणस्थापि सम्भवात्तदप्युपादीयते। एतेन यदाहुः-एके जधन्यतोऽन्तर्मुहूर्तशेषे समुद्धातमार-. भते, उत्कर्षतः षट्सुमासेषु शेषेष्विति तदपास्तंद्रष्टव्यम्। षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात् तन्निमित्तपीठफलकादीनामादानमप्युपपद्यते। नचतत्सूत्रसम्मतमिति तत्प्ररूपणमुत्सूत्रमवसेयम्। एतचोत्सूत्रमावश्यकेऽपि समुदघातानन्तरमव्यवधानेन शैलेस्यभिधानात्। तत्सूत्रम्-"दण्डकवाडे मंथंतरे य साहारणा सरीरत्थे। भासाजोगनिरोहे, सेलेसीसिज्झणा चेव // 1 // यदि पुनरुत्कर्षतः षण्मासरूपसपान्तरालं भवेत्ततस्तदप्यभिधीयेत, नचोक्तं, तस्मादेवंतदयुक्तमेतदिति। तथाचाह भाष्यकार:"कम्मलहुयाएँ समओ, भिन्नमुहत्ता विसेसओ कालो। अन्नंजहन्नेमेयं, छम्मासुक्कोसमिच्छति। तत्तोऽनंतरसेले-सिक्यणो जं च पाडिहारीणं / पचप्पिणमेव सूए, इराइगहणं पि होजाहि" || अत्र कर्मलघुतानिमित्तं समुद्घातस्य समयोऽवसरो भिन्नमुहूर्त विशेषकालः, शेषं सुगम, तदेवमन्तरमुहूर्त कालं यथायोग योगत्रयव्यापारभाक् केवलीभूत्वा तदन्तरमत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानप्रतिपित्सुरवश्यं योगनिरोधायोपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्याऽसम्भवात् / तथाहि-योगपरिणामो लेश्या, तदन्वयव्यतिरेकानुविधानात्, ततो यावद्योगस्ताव-दवश्यभाविनी लेश्येति, लेश्यातीते ध्यानसम्भवः / अपि चयावद् योगस्तावत्कर्मबन्धोऽपि-"जोगापयडिपएस, ठिइअणुभार्ग कसायओ कुणइं" इति वचनात् केवलं स कर्मबन्धः केवललियोगनिमित्तता समयत्रयावस्थायाम्। तथाहि-प्रथमसमये कर्म बध्यते, द्वितीयसमये वेद्यते, तृतीयेन तु समयेन कर्माकर्मीभवति / तत्र यद्यपि समयद्वयरूपस्थितिकर्माणि क्रियान्तः पूर्वाणि प्रलयमुपग-च्छन्ति प्रलयमुपगच्छन्ति, तथाऽपि समये समये सन्तत्या कर्मादाने प्रवर्त्तमाने सतिन मोक्षः स्यात्। अथवा अवश्यं मोक्ष गन्तव्यं तस्मात्कुरुते सयोगनिरोधमिति। उक्तं च"सततं योगनिरोधं, करोति लेश्यानिरोधमभिकाङ्क्षन्। समयस्थितिं च बन्धं, योगनिमित्तं स निधणासुः / / 1 / / 'समये समये कर्मा-ऽऽदाने सति सन्ततेन मोक्षः स्यात्। यद्यपि हि विमुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि // 2 // नाकर्मणा हि वीर्य,योगद्रव्येण भवति जीवस्य। तस्यावस्थानेन तु, सिद्धः समयवस्थितेर्बन्धः // 3 // . अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयमतिरिच्च वेदितव्या। भाष्यमप्येनं पूर्वोक्तं स कलमपि प्रमेयं पुष्णाति। तथा च तद्वतो ग्रन्थः - "विणिवित्तसमुग्धाओ, तिन्नि व जोगे जिणो पउंजिज्जा। सच्चमसचामोसं, च सोमणं तहा वईजोगं / / 1 / / ओरालकायजोगं, गमणाई,पाडिहारियाणं वा। पचप्पिणं करेजा, जोगनिरोहं तओ कुरुते // 2 / / किं न सजोगी सिज्झइ, सबंधहेउ त्ति जं सजोगीय। न समेह परमसुकं, सनिजराकारणं परमं" ||3|| अत एवाहसे णं भंते ! तहा सजोगी सिज्झइ० जाव अंतं करंति ? गोयमा! णो इणढे समढे। “से णं भंते ! तहा सजोगी सिज्झइ" इत्यादि सुगमम् / योगनिरोधं च कुर्वन् प्रथमं मनोयोगं निरुणद्धि / तच पर्याप्तमात्रसज्ञिपञ्चेन्द्रियस्य प्रथमसमये वावन्ति मनोद्रव्याणि, यावन्मात्रश्च तद्व्यापारः तस्मादसंख्येयगुणहीनं मनोयोगं प्रतिसमयं निरुन्धानोऽसंख्येयैः समयैः साकल्येन निरुणद्धिा उक्तंच पञ्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स। होंति मणोदव्वाइं, सव्वावारो य जम्मत्तो। तदसंखगुणविहीणं, समए समए निरुंभमाणो सो। सव्वनिरोह जोगी, करेइ संखेजसमएहिं"। एतदेवाह-"से णं भंते !" इत्यादि। सोऽधिकृतकेवली योगनिरोधं चिकीर्षन् पूर्वमेव सज्ञिनः पर्याप्तस्य जघन्ययो गिनः स