SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ केवलिसमुग्घाय ६६५-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्धाय अथ यदुक्तं “लोगस्स य चरिमंते चरिमंमो होइ भासाए" (376) तदेतद्भावयन्नाहआपूरियम्मि लोगे, दोण्ह वि लोगस्स तह य भासाए। चरिमंते चरिमंतो, चरिमे समयम्मि सव्वत्थ // 361|| यादिसमयैरापूरिते लोके द्वयोरपि लोकभाषयोश्चरमान्ते चरमान्तो भवति। क? इत्याह-चरमे समये। केषु विषये योऽसौ चरमः समयः? इत्याह-सर्वत्र सर्वेष्वपिव्यादि-समयव्याप्तिपक्षेषु, इदमुक्तं भवतित्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्भाषया पूरिते लोके तेषामेव व्यादीनां लोकापूरकसमयानां यथास्वं योऽसौ चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्ती अन्तो भवति भषायाश्च चरमःपर्यन्तवर्ती अन्तो भवति, त्र्यादिसमयानां चरम समये लोके निष्ठाङ्गते भाषाऽपि निष्ठां याति, न पुनः परतोऽप्यलोके गच्छतीति भावः / जीवपुद्गलानां तत्र गतेरेवाभावादिति। इह च विवक्षया आदिरप्यन्तो भवति, तद्व्यवच्छेदार्थ चरमग्रहणं, चरमः पर्यन्तवर्ती अन्तो, नपुनरादिभूत इत्यर्थ इति॥३६१।। तदेवं “कइहि समएहिँ लोगो" (378) इत्यादिनियुक्तिगाथाद्ववव्याख्यानेन निराकुलीकृत्य “जइणसमुग्धायगई, केई भासंति" (383) इत्यादिना यदादेशान्तरसुक्तं, सोऽनादेश एवेति ख्यापनार्थम्। तत्र दूषणमाहन समुग्घायगईए, मीसयसवणं मयं च दंडम्मि। जह तो वि तीहिँ पूरइ, समएहि जओ पराघाओ / / 362| (न समुग्घायगईए त्ति) जैनसमुद्धातगत्या भाषया लोकपूरणे इष्यमाणे न प्राप्नोतीति / किम् ? इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवणं, सर्वासु दिक्ष्विति शेषः / इदमुक्तं भवतिजैनसमुद्धाते ऊवधिोदिगद्वयगाम्येव प्रथमसमये दण्डो भवति, तद्यदि भाषाद्रव्येष्वपप्येवमिष्यते, तर्हि ऊवधिोदिग्द्वय एव मिश्रशब्दश्रवणं प्राप्नोति, न पूर्वपश्चिमदक्षिणोत्तरदिक्षु, तासु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासिततदद्रव्याणामेव श्रवणादिति; अविशेषेण तु "भासासमसेढीओ, सदं जं सुणइ मीसयं सुणई" (351) इत्यनेन दिक्षु मिश्रशब्दश्रवणमुक्तम्। अथवा व्याख्यानतो विशेषप्रतिपत्तेर्यदि तव मतं संमतम्, ऊवधिोदिगद्वयवर्तिदण्ड एव मिश्रशब्दश्रवणं, शेषदिक्षु पराघातवासितद्रव्यश्रवणेऽप्यदोषादिति। भवत्येवं, (तो वि) तथापि त्रिभिस्समयैः पूर्यते लोको नचतुर्भिः, यतो भाषाद्रव्येषु पराघातोऽस्ति। यदि नाम तेषुपराधातस्ततः किम्? इति चेत् / उच्यते-स खलु दण्ड ऊवधिो गच्छन्नविशेषेण चतुर्दिशमपि शब्दप्रायोग्यद्रव्याणि पराहन्ति, वासयित्वा शब्दपरिणाम- | वन्ति करोति, ततस्तानि द्वितीयसमये मन्थानं साधयन्ति, तृतीयसमये तु तदनन्तरालपूरणात्पूर्यते लोक इति / एवं त्रिभिः समयैर्लो कपूरणं प्राप्नोति // 362 / / ननुयथा जैनसमुद्धातश्चतुर्भिः समयैर्लोकमापूरयति, तथा भाषाऽपि तैः समापूरयिष्यति, को दोषः? इत्याशङ्कयाऽऽह-- जइणेन पराघाओ, सजीवजोगो य तेण चउसमओ। हेऊहोजाहि तहिं, इच्छा कम्मं सहावो वा // 393|| इह जैनसमुद्धातेजीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्यापि पराघातोऽस्तिाततो न द्वितीयसमये मन्थाः, किंतु कपाट एव भवति। किं च-स केवलिसमुद्घातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्याऽयं चत्वारः समयाः, यत्र चतुः समयो भवति / यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता? इत्याह-तत्र तस्मिन् जीवव्यापारलक्षणे केवलीसमुद्धाते द्वितीयसमये मथ्यऽभावे हेतुर्भवेत्। कः ? इत्याह-(इच्छेत्यादि) तथाहि-तत्रैतच्छक्यते वक्तुम्केवलज्ञानरूपा येयमिच्छाऽभिप्रायस्तद्वशाद् गुणदोषौ पर्यालोच्य केवली द्वितीयसमये मन्थानं न करोति / भवोपग्राहिकर्मवशाद्वा, स्व भावाद्वाऽऽसौ तदा तं न करोति ततो द्वितीयसमये कपाट एव, तृतीयसमये मन्थाः, चतुर्थे त्वऽन्तरालपूरणम्, इति युज्यते जैनसमुद्घाते चतुस्समयता। विशे०। अत्रैव विशेषपरिज्ञानायाऽऽहसे णं भंते ! तहा समुग्घायगए किं मणजोगं जुंजइ, वइजोगं झुंजइ, कायजोगं जुंजइ ? गोयम ! नो मणजोगं जुंजइ, नो वइजोगं जुजइ, गोयमा! कायजोगं जुजइ। कायजोगे णं भंते ! जुंजमाणे किं उरालियसरीरकायजोगं जुजइ, उरालियमीससरीरकायजोगं जुजइ, किं वेउटिवयसरीरकायजोगं जुजइ, वेउव्वियमीससरीरकायजोगं जुंजइ, किं आहारगसरीरकायजोग जुजइ, आहारगमीससरीकायजोगं जुंजइ, किं कम्मगसरीरकायजोगं जुंजइ ? गोयमा ! उरालियसरीरकायजोगं पि जुजइ, उरालियमीससरीरकायजोगं पि जुजइ, नो वेउव्वियसरीरकायजोगं जुजइ नो वेउव्वियससरीकायजोगं जुंजइ, ना आहारगसरीरकायजोगं जइ, नो आहारगमीससरीरकायजोगं जुजइ, कम्मगसरीरकायजोगं पि जुंजइ, पढमट्ठमेसु समएसु उरालियसरीरकायजोगं जुंजइ, वितीयछट्ठसत्तमेसु समएसु उरालियमीससरीरकायजोगं जुजइ, ततियचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं मुंजइ / से णमंते ! तहा समुग्घायगए सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाति, सव्वदुक्खाणं अंतं करेइ ? गोयमा ! नो इणढे समढे / स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुदघातं गतः सन् सिद्ध्यतिनिष्ठितार्थो भवति / स च "वर्तमानसामीप्ये वर्तमानवता"॥३।३।१३१। इति (पाणि०) वचनात् सेत्स्यन्नपि व्यवहारत उच्यते। तत आह-बुद्ध्यते अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्मोशापगमतस्तत आह-मुच्यते, शेषकर्मोशैरिति गम्यते मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति तत आह-परिनिर्वाति सामस्त्येन शीतीभवति / समस्तमेतदेकेन पर्यायेण स्वष्टयतिसर्वदुःखानामन्तं करोतीति / भगवानाह-गौतम ! नायमर्थः समर्थः, नायमर्थः सङ्गतोयः समुद्ग्यातं गतः सन् सर्वदुःखान्तं करोतीति योगनिरोधस्याद्याप्यकृतत्वात् सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः। किंकरोतीत्यत आहसे णं मते ! तओ पडि नियत्तति, तओ पच्छा मणजोगं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy