SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ केवलिसमुग्घाय ६६४-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्घाय विशेषः / कुतः?, इत्याह-"अतिगमम्मिजं दोण्णि ति" विदिशः सकाशात् / भाषाद्रव्याणि लोकनाडीबहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति, इत्येवं यस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ लगतः शेषास्तु, त्रयःसमयाः चतुःसमयव्याप्तिवत् द्रष्टव्याः, इत्येवं पञ्च समयाः, सर्वेऽपि च लोकापूरणे प्राप्यन्त इति // 386|| ननु यद्युक्तन्यायेन त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्लोको वाग्द्रव्यैः पूर्यते, तर्हि किमिति निर्धार्य नियुक्तिकृता चतुःसमयग्रहणमेव कृतम् ? इत्याशङ्क्याहचउसमयमज्झगहणे, तिपंचगहणं तुलाई मज्झस्स। जह गहणे पखंत-गहणं चित्ता य सुत्तगई // 387 / / (तिपंचगहणमिति) आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयानां ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् / क्व सतीत्याहचतुः समयरूपस्य मध्यस्य ग्रहणे कृते सति / ननु किमन्यत्रापि मध्यग्रहणे सत्याद्यन्तग्रहणं क्वापि दृष्टम् ? इत्याह (तुलाईत्यादि) यथा तुलादीनाम्। आदिशब्दान्नाराचयष्ट्यादीनां, मध्यस्य ग्रहणेकृते पर्यन्तयोराद्यन्तलक्षणयोर्ग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एवमिहापीति / नत्वऽयं न्यायः क्काप्यागमे दृश्यते, येनैवमुच्यते? इत्याह-चित्राच भगवतः सूत्रस्य गतिः प्रवृत्तिर्दृश्यते // 387 // तथाहिकत्थइ देसग्गहणं, कत्थइ घेप्पंति निरवसेसाई। उक्कमकमजुत्ताई,कारणवसओ निउत्ताई॥३८५।। क्वापि सूत्रे देशस्यैकपक्षलणस्य ग्रहणं, यथाऽत्रैव चतुःसमय-लक्षणस्यः, क्वचित्सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते / अपरं चकानिचित्सूत्राणि कुतोऽपि कारणवशात् उत्क्रमयुक्तानि नियुक्तानि निबद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति एवं चिचित्रा सूत्रगतिः // 3886 / / अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाहचउसमयविग्गहे सति, महल्लबंधम्मि तिसमओ जह वा। मोत्तुं तिपंचसमये, तह चउसमओ इह निबद्धो // 386 // यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामायिके विग्रहे त्रिसामायिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन् पञ्च च समयान मुक्त्वा चतु:सामयिक एव लोकव्याप्तिपक्ष उपनिबद्ध इत्यदोष इति // 38 // तदुक्तम्-"लोग्गरस य कइ भावे, कइ भाओ होइ भासाएं" (378) एतद्व्याचिख्यासुराहहोइ असंखेज इमे, भागे लोगस्स पढमबिइएसु। भासा असंखभागो, भयणा सेसेसु समएसु॥३६०|| चतुर्दशरज्जूच्छ्रितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति। कदा? इत्याहप्रथमद्वितीयसमययोः / इदमुक्तं भवतित्रिसमयव्याप्ती, चतुःसमयव्याप्ती, पञ्चसमयव्याप्तौ च प्रथमसमयद्वितीयसमययोस्तावन्नियमेन सर्वत्र लोकाऽसंख्येयभागे भाषाऽसंख्येयभागलक्षण एव विकल्पः संभवति, नान्यः। त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषङ्क भवति, द्वितीयसमये तुषट्मन्थानःसंपद्यन्ते। एतेच दण्डादयो दैर्घ्यण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात् तत्प्रमाणानुसारतो बाहुल्येन चतुरडलादिमाना एव भवन्ति चतुरादीनिचाङ्गुलानि लोकाऽसंख्येयभागवर्तीन्येवाइति सिद्धसिसमयव्याप्तौ प्रथमद्वितीयसमययोर्लोकाऽ-- संख्येयभागेभाषाऽसंख्येयभागः / चतुःसमयव्याप्तावप्येतदित्थमवगम्यत एव प्रथमसमये लोकमध्यमात्र एव प्रवेशात्, द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति / पञ्चमसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषाद्रव्याणां विदिशो दिश्येव गमनात्, द्वितीयसमये तु लोकमध्यमात्र एव प्रदेशात्तस्मात् व्यादिसमयव्याप्तौ सर्वत्र प्रथमद्वितीयसमययोर्लोकाऽसंख्येयभागे भाषाया असंख्येयभाग एव भवति। (भयणा सेसेसु समएसु त्ति) उक्शेषेषु तृतीयचतुर्थपञ्चमसमयेषु भजना विकल्परूपा बोद्धव्या / क्वाऽपि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग एव भवति, क्वचित्पुतलॊकस्य संख्येयभागे भाषासंख्येयभागः, क्वापि समस्तलोव्याप्तिः। तथाहि-त्रिसमयव्याप्ती तृतीयसमये भाषायाः समस्तोकव्याप्तिः, चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्येयभागे भाषासंख्येयभागः / कथम् ? इति चेत्। उच्यतेस्वयंभूर-मणपश्चिमपरतटवर्तिनि लोकान्ते, सनाडीबहिर्वा पश्चिमदिशिस्थित्वा बुवतो भाषकस्य प्रथमसमये चतुरङ्गुला दिबाहुल्या रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयंभूरमण पूर्वपरतटवर्तिनि लोकान्त लगति / ततो द्वितीयसमये तस्माइण्डादूर्वाश्चतुर्दशरज्जूच्छ्रितः पूर्वापरतस्तिरश्चीनरज्जूविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति।लोकमध्ये तुदक्षिणतः, उत्तरश्च पराधातवासितद्रव्याणामेव चतुरङ्गुलादिबाहुल्यं रज्जुविस्तीर्णदण्डद्वयं विनिर्गत्य स्वयंभूरमणदक्षिणोत्तरवर्तिलोकान्ययोर्लंगति / एवं च सति चतुरङ्कुला दिबाहुल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति। तृतीयसमये तूद्धधिो व्यवस्थितदण्डाच्चतुर्दिशं प्रसृतः पराधातवासितद्रव्यसमूहो मन्थानं साधयति / लोकमध्यव्यवस्थितसर्वतो रज्जुविस्तीर्णच्छत्वरा दूर्वाधः प्रसृतः पुनः स एव उसनाडी समस्तामपि पूरयति। एवं च सति सर्वाऽपि त्रसनाडीऊवधिोव्यवस्थितदण्डमन्थिभावेन च लोकस्य पूरित भवति। एतच्चैतावत् क्षेत्रं तस्य संख्याततमो भागः। तथा च सति चतुः सामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् / पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकासंख्येयभागे भाषाऽसंख्येयभागाः / कुतः ? इति चेत्। उच्यते तस्यां दण्डसमयत्वात्, तत्रच संख्येयभागवर्तित्वस्य प्रागेव भावित्वादिति / चतुर्थसमये चतुः सामयिक्यां व्याप्ती मन्थान्तरपूरणात्समस्तलोकव्याप्तिः / पञ्चसामयिक्यां तु व्याप्ती चतुर्थसमये लोक संख्येयभागे भाषासंख्येयभागः, तस्यां तस्य मन्थिसमयत्त्वात्, तत्र च संख्येयभागवर्तित्वस्व प्रागेव भावितत्वादिति / पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मन्थाऽन्तरालपूरणात्समस्तलोकव्याप्तिरिति / एवं तृतीयचतुर्थपञ्चमसमयेशु भाविता भजना। तद्भावने च व्याख्यातम्-(भयणा सेसु समयेसु त्ति) एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्त्तन्ते, दण्डादिक्रमेण तेषां लोकपूरणासंभवादिति // 30 //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy