SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ केवलिसमुग्धाय ६६३-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्घाय हाय भाव्यते इति केवलिसमुद्घातोऽष्टसामयिकः तथाकुर्वन् केवली प्रथमसमयबाहुल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशनां दण्डमारचयति / द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाट, तृतीये मन्थानं, चतुर्थेऽवकाशान्तराणां पूरणं, पञ्चमेऽवकाशान्तराणां संहारं, षष्ठे मन्थः, सप्तमे कपाटस्य, अष्टमे स्वशरीस्थो भवति। वक्ष्यति च "पढमसमयम्मि दंडं करेई" इत्यादि / तत्र दण्डकसमयात् प्राक् या" पल्योपमाऽसंख्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत. तस्या बद्ध्याऽसंख्येया भागाः क्रियन्ते,ततोदण्डसमयेदण्डं कुर्वन् असंख्येयान् भागान् हन्ति, एकोऽसंख्येयो भागोऽवतिष्ठते; यश्च प्राक् कर्मत्रयस्यापि रसस्यस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमये असातवेदनीयप्रथमवर्जसंस्थानपञ्चाकाऽप्रशस्तवर्णादिचतुष्टयोपघाताप्रशस्तविहायोगतिदुर्भगास्थिराऽपर्याप्तश्चाशुभानादेयायशः कीर्तिनीचैर्गोत्ररूपाणां पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते; तस्मिन्नेव चसमये सातवेदनीयदेवगतिदेवानुपूर्वी पञ्चेन्द्रियजातिशरीरपञ्चकाङ्गोपाङ्गङ्गत्रयप्रथमसंथानसंहननप्रशस्तवर्णादिचतुष्टयागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकाऽतपौद्योतस्थिरशुभसुभगसुस्वरादेययशः कीर्ति निर्माणतीर्थकरोचैर्गोत्ररूपाणामेकोनचत्वारिंशतः प्रकृती नामनु. भागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनोपहन्यते / समुद्घातमाहात्म्यमेततः तस्य चोद्धरितस्य स्थितेः संख्येयभाग स्यानुभागस्य चानन्तभागस्य पुनर्यथाक्रमं असङ्ख्येया अनन्ताश्च भागाः क्रियन्ते। ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते; अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति।। अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः। पुनरप्येतत्समयेऽवशिष्टस्य स्थितेरंसख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते / ततश्च तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्तभागं मुञ्चति। अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभाग मध्यप्रवेशनेनाऽवसेयः / ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रमसमद्ध्येया अनन्ताश्च भागाः क्रियन्ते; ततश्चतुर्थसमये स्थितेरसंख्येयान् भागन् हन्ति. एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते; प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः। एवं च स्थितिघातादिकुर्वतश्चतुर्थसमये स्वप्रदेशापूरितं समस्तलोकस्य भगवतः केवलिनो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणाः जाताः, अनुभागस्त्वद्याप्यनन्तगुणः चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभगस्य भूयोऽपि बुद्ध्या यथाक्रम संख्येया अनन्ताश्च भागाः क्रियन्ते। ततोऽवकाशान्तरसंहारसमयेस्थिते संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति; अनुभागस्यानन्तान् भागान् हन्ति, एकं मुञ्चति / एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामायिकं दण्डकमुत्कीर्णं समये समये स्थितिदण्डकानुभागदण्डकघातनात्। अतः परंषष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति, प्रयत्नमन्दीभाषात् / षष्ठादिषु च समयेषु दण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति, यावदन्तर्मुहूर्तचरमसमयसकलमपि तत्कण्डक मुत्कीर्णं भवति / एव मान्तर्मुहूर्त्तकानि स्थितिकण्डकमनुभागकण्डकानि च घातयन् तावद्वेदितव्यौ यावत्सयोग्यवस्थाचरमसमयः; सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानीति। प्रज्ञा०२६ पद। विशे०।। अथ यदुक्तम्- “चउहि समएहिं लोगो" इत्यादि (गाथा : 76) तत्राहजइणसमुग्धायगइए, केई भासंति चउहिँ समएहिं। पूरइ सयलो लोगो, अन्ने उण तीहिँ समएहिं / / 3833 // रागादिजेतृत्वाजिनः केवली, तस्याऽयं जैनः, स चाऽसौ समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः / तस्य गतिः प्रवृत्तिः क्रम यावत्। तया जैनसमुद्धातगत्या / “दण्ड प्रथमे समये, कपाटमथ चोत्तरे तथा समये / मन्थानमथ तृतीये, लोकव्यापी चतुर्थे च / / 1 // " इत्यादिग्रन्थेनोक्तेन के वलिसमुद्धातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद्भाषन्ते। अयं चानादेश एव: पुरस्तान्निराकरिष्यमाणत्वादिति / अन्ये पुनस्त्रिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति॥३८३॥ किं वाङ्मात्रेण रन, इत्याह - पढमसमये चिय जओ, मुक्काई जति छहिसिं ताई। बितियसमयम्मि ते चिय,छ दंडा होंति छ म्मंथा।॥३८४।। मंथंतरेहिँ तइए, समए पुन्नेहि पूरिओ लोगो। चउहि समरहिं पूरइ, लोगते भासमाणस्य // 385 / / यतो लोकमध्यस्थितेन महाप्रयत्नभाषकेण मुक्तानि तानि भाषाद्रव्याणि प्रथमसमय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति जीवसूक्ष्मपुद्गलानामनुश्रेणिगमनात्। ततो द्वितीयसमये त एव षट् दण्डाश्चतुर्दिशमेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्थानो भवन्ति / तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्यो ऽपि लोकः, स्वयंभूरमणपरतटवर्तिनि लोकान्तेऽलोकस्याऽत्यन्तं निकटीभूय भाषमाणस्य भाषकस्य त्रसनाऽया बहिर्वा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्यतस्येति स्वयमपिद्रष्टव्यं, चतुर्भिः समयैर्लोकः सर्वोऽपि पूर्यत इति // 384 // 385 // कथम् ? इत्याहदिसि विट्ठियस्स पढमोऽ-तिगमे ते चेव सेसया तिन्नि। विदिसि ट्ठियस्स समया, पंचातिगमम्मि जं दोण्णि।३८६) वसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमःसमयोऽतिगमे नाडीमध्यप्रवेशे भवति / शेषसमयत्रयभावना तु-"होइ असंखेज्ज इमे भागे"(३६०) इत्यादिवक्ष्यमाणगाथावृत्तौ 'कथमिति' च इत्यादिना वक्ष्यते / लोकान्तेऽपि स्वयंभूरमणपरतटवर्तिनि चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्योद्धर्वाधोलोकस्खलितत्वाद्भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, यस्तु समयाः शेषास्तथैव / बसनाडीबहिर्विदिगव्यवस्थितस्यतुभाषकस्य भाषाद्रव्यैः सर्वलोकापूरणेपञ्च समया लगन्तीति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy