________________ केवलिसमुग्धाय ६६१-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्धाय विवक्षितार्थप्रतिपत्तिहेतोदृष्टान्तस्यपीठिकाबन्धः। संप्रति विवक्षितार्थप्रतिपत्तिहेतुदृष्टान्तवाक्यमुपन्यस्यते-नूनं निश्चितं गौतम ! स केवलकल्पो जम्बूद्वीपस्तैर्गन्धसमुद्रकाद् विनिर्गतैर्घाणपुद्गलैः स्पृष्टो ध्याप्तः / काक्वा चेदं सूत्रमभिधीयते, ततः प्रश्नोऽवगम्यते / अथवा प्रश्नार्थः सशब्दः। ततोऽञ्जसे प्रश्नयतीति गौतम आह-हन्त ! स्पृष्टो, गन्धपुद्गलनां सर्वतोऽभिसर्पणशीलत्वात्। पुनरपि भगवानाह-“छउमत्थे गमित्यादि" सुगमम्। एष चात्र भावार्थः यथा ते सकल-जम्बूद्वीपव्यापिनो गन्धपुद्गलाः सूक्ष्मत्वान्न छद्मस्थानां चक्षुरादीन्द्रियगम्याः, तथा सकललोकव्यापिनो निर्जरापुद्गला अपीति / उपसंहारमाह-(एसुहमा गते) एतावत्सूक्ष्माः। अथ यन्निमित्तं केवली समुद्धातमारभते तत् पितृच्छिषुरिदं प्रश्नसूत्रमाहकम्हाणं भंते ! केवली समुग्घायं गच्छद। गोयमा ! केवलिस्स चत्तारिकम्मस्स अंता अक्खीणा अवेदिता अनिजिन्ना भवंति। तंजहा वेदणिज्जे आउए नामे गोत्ते सव्वबहुए, से वेदणिज्जे कम्मे हवइ, सव्वत्थोवे, से आउए कम्मे हवइ, विसमं समं करेइ वंधणेहिं ठिईहिय विसमसमी-करणयाए वंधणेहिं ठिईहिं, एवं खलु केवली समोहण्णइ; एंव खलु समुग्धायं गच्छइ / सव्वे वि णमंते ! केवली समोहण्णइ, सव्वे विणं भंते ! केवली समुग्धाय गच्छंति ? / गोयमा!नो इणढे समझे। "जस्साउ पुण तुल्लाइ, बंधणेहि ठिईहि य // भवोवग्हकम्माइं, समुग्घातं(से) न | गच्छद / / 1 / / अणंताणं समुग्घायं, अणंता के वली जिण / जरामरणविप्पमुक्का, सिद्धिं वरगतिं गया"||२|| "कम्हाणमित्यादि कस्मात्कारणात्, णमिति वाक्यालङ्कारे भदन्त! केवली केवलज्ञानोपेतः समुद्धातं गच्छत्यारभते, कृतकृत्यत्वात्किल तस्येति भावः / भगवानाह-"मोयमेत्यादि" गौतम ! केवलिनश्चत्वारः कर्माशाः कर्मभेदा अक्षीणाः क्षयमनुपगताः / कुत इत्याह-अवेदिताः, अत्र "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायात् हेतौ प्रथमा / ततोऽमयर्थः यतो वेदिताः ततोऽक्षीणकर्मणां हि क्षयो। नियमतः प्रदेशतो विपाकतो वा वेदनाद्भवति, "सव्वंचपएसतया, भुजइ कम्ममणुभावतो भइयं" इत्यादिवचनात्। ते चत्वारोऽपि कर्माशा अवेदिता अतोऽक्षीणाः / एतदेव पर्यायेण व्याचष्टेअनिर्जीर्णाः सामस्त्येनात्मप्रदेशेभ्यो परिशाटिता भवन्ति तिष्ठन्ति / तानेव नामग्राहमभिधित्सुराह"तंजह" इत्यादि सुगमम्। तत्र यदा (से) तस्य केवलिनः सर्वबहुप्रदेश वेदनीयम्, उपलक्षणमेतत् नामगोत्रे च। तथा सर्वस्तोक प्रदेशमायुःकर्म तदा / (सबंधणेहि ठिईहि य त्ति) बध्यते भवचारकात् विनिर्गचछन् प्रतिबध्यते यैस्ते बन्धनाः। “करणाधारे" / / 53 / 126 // इति (हैम०) / करणे अन्ट्प्रत्ययः / अथ वा बध्यन्ते आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशात् येतेबन्धनाः “बहुलम्" ॥५१२कृत् इति (हैम०) वचनात् कर्मणि अनट् ! उभयत्रापि कर्मपरमाणवो वाच्याः स्थितयो वेदनाकालाः / तथा चोक्तं भाष्यकृता-"विसमं करेइ समं, बंधणेहिं ठिईहिय। कम्मदव्वाइँ बन्धेण, विय कालो वई तेसिं॥ ततश्च तैर्बन्धनैः स्थितिभिश्च विषमं सवेंदनीयादिकं समुद्धातविधिना समयायुषा सह करोति स एवं खलु केवली बन्धनैः स्थितिभिश्च विषमस्य सतो वेदनीयादिकस्य कर्मणः (समीकरणयाए इति) अत्र ताप्रत्ययः स्वार्थिकः / ततोऽयमर्थः-समीकरणाय(समोहन्नइ त्ति) समवहन्ति समुद्घाताय प्रयतन्त एवं खलु समुद्धातं गच्छति / उक्तञ्च-आयुषि समाप्यमाने शेषाणां कर्मणां यदिसमाप्तिनस्यात्, स्थितिवैषम्याद्गच्छति। स ततः समुद्धातं स्थित्या च बन्धनेन च समीक्रियार्थं हि कर्मणां तेषामन्तर्मुहूर्तशेषे तदायुः समुजिघांसति स न तु प्रभूतस्थितिकसय वेदनीयादेरायुषा सह समीकरणार्थं समुद्धातमारभते इति / यदुक्तम्तन्नोपपन्नं, कृतनाशादिदोषप्रसङ्गात् / यथाहि-प्रभूतकालोपभोगस्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः वेदनीयादिवच कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनास्थाप्रसङ्ग।तदसत्। कृतनाशदिदोषप्रसङ्गात्। तथाहि इह यथा प्रतिदिवसंसेतिकापरिभोगेन वर्षशतोपभोग्यस्य कल्पितस्याहारकस्य भस्मकव्याधिना तत्सामर्थ्यात्स्तोकदिवसैनिःशेषतः परिभोगान्न कृतनाशोपमः, तथा कर्मणोऽपि वेदनीयादेः तथाविधशुभाध्यवसायानुबन्धदुपक्रमेण साकल्यतो भोगान कृतनाशरूपदोषप्रसङ्गः / द्विविधो हि कर्मणोऽनुभवःप्रदेशतो विपाकतश्च / तत्र प्रदेशतः सकलमपि कर्मानुभूयतेन तदस्ति, किञ्चित्कर्म यत्प्रदेशतोऽप्यनुभूतं सत् क्षयमुपयाति, ततः कथं कृतनाशदोषापत्तिः। विपाकतस्तु किञ्चिन्न, अन्यथा नोक्षाभावप्रसङ्गात्। तथाहि-यदि विपाकानुभूतित एव सर्वकर्म क्षपणीयमिति नियमस्तीसङ्ख्यातेषु भवेषुतथाविधविचित्राध्यवसायवि-शेषैर्यन्नरकगत्यादिकं कर्मोपार्जितम्, तस्मान्नैकस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वनिबन्धनत्वात्तद्विपाकानुभवस्य क्रमेण च स्वभवानुगमनेन वेदने नारकादिभवेषु चारित्राभावेन प्रभूततरकर्मसन्तानोपचयात्तस्यापि स्वभवानुगमनेनानुभवोपगमात् कुतो मोक्ष ? तस्मात्सर्वं कर्म विपाकतो भाव्यप्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यम्, एवञ्च न कश्चिद्दोषः। नन्वेवमपि दीर्घकालभोग्यतया तद्भेदनीयादिकं कर्मोपचितम्। अथ च परिणामविशेषादुपक्रमेणारादेव तदनुभवति, ततः कथंन कृतनाशदोषापत्ति ? तदप्यसम्यक्। बन्धकाले तथाविधाध्यवसायवशादादा-वुपक्रमयोग्यस्यैव तेन बन्धात्। अपि चजिनवचनप्रामाण्यादपि वेदनीयादिकर्मणमुपक्रमो मन्तव्यः / यदाह भाष्यकृत्-उदयक्खय-ओवसमो, वसमाजंच कम्मुणो भणिया।दव्वाइ पंचमं पइजुत्तमवक्कमेण मत्तो वि // 1 // न चैवं मोक्षोपक्रमः हेतु: कश्चिदस्तितथाविधोऽन्तिमसूत्रे भावयिष्यते। ततो युदक्तं वेदनीयादिवच्च कृतस्यापि कर्मक्षय इत्यादि, न तत्सम्यगु-पपन्नमिति स्थितम् / अपर आहननु यदा वेदनीयादिकमतिप्रभूतं सर्वस्तोकं वाऽऽयुस्तदा समधिकवेदनीयादेः सोपक्रमत्वात्, यदा समधिकमायुः सर्वस्तोकं तदा का वार्ता? न खल्वायुषः समधिकस्य समुद्धाताय समुद्धातः कल्पते, चरमशरीरिणामायुषो निरुपक्रमत्वात्, चरमशरीराय "निरुवक्कमा” इति वचनात्। तदयुक्तम् / एवं विधभावस्य कदाप्यभावात् / तथाहि-सर्वदेव वेदनीया वायुषः सकाशादधिकस्थितिकं भवति, न तु कदाचिदपि वेदनीयादेरायुः / अथैवंविधो नियमः कुतोलभ्यते? उच्यते-परिणामस्वाभाव्यात्। तथाहि-इत्थंभूत एवात्मनः परिणामो येना-स्यायुर्वेदनीयादेः संभवति, न्यूने वा, न तु कदाचनाऽप्यधिकं, यथैत-स्यैवायुषः खलु ध्रुवबन्धः / तथाहि-ज्ञानावरणीयादीनि कर्माणि आयुर्वयानि सप्तापि सदैव बध्यन्ते, आयुस्तु प्रतिनियत एव काले स्वभवत्रि