________________ केवलिसमुग्धाय ६६०-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्धाय वुचइ-छउमत्थे णं मणुस्से तेसिं निजरापोग्गलाणं नो किं चि वि वनेणं वन्नं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ ? गोयमा ! अयन्नं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वमंतरए सव्वखुड्याए वट्टे तेल्ला पूयसंठा णसंठिए वट्टे रहचकवालसंठाणसंठिए वट्टे पुक्खरकणिण यासंठाण-संठिए वट्टे पडिपुण्णचंद्रसंठाणसंठिए चेव एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सालससहस्ससाइं दोणि सत्तावीसे जायणसए तिन्निय कोसे अट्ठावीसं च घणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते देवे णं महडिए० जाव महासोक्खे एगं महं सविलेवणं गंधसमुग्गयं गहाय तं अवद्दालेइ, तं महं एगं सविलेवणं गंधसमुग्गयं अवहालइत्ता इणमेव णं तिकटु केवलकप्पं जंबुद्दीवं दीवं तिहि अच्छराणि वा तेहिं सत्तखुत्तो अणुपरियट्टित्ता णं हवमागच्छेज्जा / से नूर्ण गोयमा ! से केवलकप्पे जंबुद्दीवे हीवे तेहिं घाणपुग्गले हिं फुडे ? हन्ता फुडे / छउमत्थे णं गोयमा ! मणूसे तेसिंघाणपोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंध रसेणं रसं फासेणं फासं जाणइ पासइ? भगवं! णो इणढे समझे। सेकेण?णं गोयमा ! एवं दुबइ छउमत्थेणं मणुस्से तेसिं निजरापोग्गलाणं नो किंचि वनेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ? जे सुहमा णं ते पोग्गला पन्नत्तासमणाउसो ! सव्वलोगं पियणं फुसित्ता णं चिट्ठति।। (छउमत्थेणमित्यादि) छद्मस्थो भदन्त ! मनुष्यः, तेषामनन्तरो दृिष्टानां निर्जरापुद्गलानां किञ्चिदिति प्रथमतः सामान्येन प्रयुक्तं जानाति पश्यतीति संबध्यते / एतदेव विशेषता व्याचष्टे वर्णन वर्णग्राहकेण चक्षुरिन्द्रियेण वर्ण्यते यथास्थितं वस्तुस्वरूपं निर्णीयतेऽनेनेति वर्ण इति व्युत्पत्तेः वर्ण कृष्णादिरूपम्। गन्धनं गन्धग्राहकेण नासिकेन्द्रियेण 'गन्ध' आघ्राणे, चुरादिभ्यो णिच्, गन्ध्यत आघ्रायतेशुभोऽशुभो वा गन्धोऽनेनेति गन्ध इति व्युत्पादनात्गन्धं शुभाशुभंवा। रसेन रसग्राहकेण रसनेन्द्रियेण रस्यते आस्वाद्यतेऽनेनेति शब्दार्थत्वात् रसं तिक्तादिरूपम् / स्वर्शन स्पर्शग्राहकेण स्पर्शनेन्द्रियेण स्पृश्यतेऽनेनेति कर्क शादिरूपः परिच्छेद्यवस्तुगतः स्पर्श इति व्युत्पादनात् स्पर्श कर्कशादिरूपं जानाति पश्यतीति। भगवानाह-गौतम ! नायमर्थ उपपन्न इत्यर्थः / पुनौतमः प्रश्नयति-“से केट्ठणं भंते !" इत्यादि उत्तानार्थम्। भगवानाह-गौतम ! "अयण्णमित्यादि" अयं प्रत्यक्षत उपलभ्यमानो, णमिति वाक्यालङ्कारे, अष्टयोजनोच्छितया रत्नमय्या जम्बा उपलक्षितो द्वीपो जम्बूद्वीपः, द्वीपसमुद्राणां सर्वाभ्यन्तरक इति सर्वेषामभ्यतरो मध्यवर्ती सर्वाभ्यन्तरः, सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, 'जातौ वा स्वार्थे कः (स्वार्थे कश्च वा)|१६४ाइति प्राकृतलक्षणवशात् स्वार्थे कः प्रत्ययः / केषां सर्वेषामभ्यन्तर इत्याह-सर्वद्वीप-समुद्राणां, तथाहि-सर्वे शेषा द्वीपसमुद्रा जम्बूद्वीपादारभ्याऽऽगमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारा व्यस्थिताः, ततो भवति द्वीपसमुद्राणां च चम्बूद्वीपोऽभ्यन्तरः / तथा | (सव्वाखुडागे इति) सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लकोहस्वः सर्वक्षुल्लक इति। तथाहि-सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपाः अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणचक्रवालचिन्तनाः ततः शेषद्वीपसमुद्रापेक्षया सर्वलघुरिति / तथा वृत्तो वर्तुलो यतस्तैलापूपसंस्थानसंस्थितः; तैलेन हि पक्वोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव संस्थानसंस्थितस्तथा वृत्तो जम्बूद्वीपो यतो रथचक्रवालसंस्थानसंस्थितः रथस्य रथाङ्गस्य चक्रवाल मण्डलं तस्येव यत् संस्थानं तेन संस्थितः / एवमुक्तमपि पदद्वयं भावनीयम् (आयामविक्खंभेणं ति) आयामश्च विष्कम्भकश्चेति समाहारो द्वन्द्वः। तेन आयामेन विष्कम्भेण च प्रत्येकमेकं योजनशतसहस्रमित्यर्थः / परिधिपरिमाणानयनगणितंच जम्बूद्वीपप्रज्ञप्त्यादावनेकशो भावितमिति ततोऽवधार्यम् / "देवे णामित्यादि देवश्च, णमिति वाक्यालडकारे। (महड्डिए इति) महती ऋद्धिर्विमानपरिवारादिका यस्याऽसौ महर्द्धिकः / (जाव महासोक्खे इति) यावच्छब्दकरणात् “महज्जुईए इति महाबले महाजसे” इति द्रष्टव्यम् / तत्र महती द्युतिः शरीराभरणविषया यस्य सः सहाद्युतिः, महगल शारीरप्राणो यस्य स महाबलः महत् यशः ख्यातिर्यस्य सः महायशाः, तथा महत् प्रभूतं सौख्यं यस्य प्रभूतसद्वेधकर्मोदयभावादिति। महासौख्यः / क्वचित् “महेसक्खे" इति पाठः, तत्र महान् ईशः ईश्वरः इत्याख्या शब्दप्रथा यस्य लोके स महेशाख्यः। अथवा ईशानमीशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः, 'ईश' ऐश्वर्य इति वचनात्। तत ईशमैश्वर्यमात्मनः ख्यातिम्। अन्तर्भूतण्यर्थतया ख्थापयति प्रकाशयति / तथा परिवारादिस्फीत्या वर्तत इति ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः। अन्यत्र ‘महासक्ने ति' पाठः तत्रैवं वृद्धव्याख्या-आशुगमनादश्वं मनः, अक्षाणि इन्द्रियाणि, स्वस्वविषवव्यापकत्वात्। अक्षशब्दो हि प्रायेण 'असूड' व्याप्तावित्यस्य धातोर्निष्पाद्यते, अश्वश्च अक्षाणि च अश्वाक्षाणि महान्ति स्फीतिमन्ति अश्वाक्षाणि यस्याऽसौ महाश्वाक्षः; स्फीतमनाः, स्फूर्तिमच्चक्षुरादीन्द्रिश्चेत्यर्थः / एक महान्मति च गुरुकमन्यथा स्तोकं तथा तद्गतेर्गन्धपुदगलैः सकलस्य जम्बूद्वीपस्य व्याप्तुमशक्यत्वात् / (सविलेवणमिति) सह विशिष्टमतिसूक्ष्मरन्ध्राणामपि स्थगनात् लेपनं लेपो जत्वादिकृतं पिधानोपरि वर्तते येन स तथा तम् / विशिष्टलेपप्रदानाभावे हि बहवः सूक्ष्मरन्धैर्गन्धपुद्गला निर्गच्छन्ति, तत उद्घाटनवेलायां तेषां स्तोकीभावेन सकलजम्बूद्वीपापूरणं नोपद्यते (गंधसमुग्गधं ति) गन्धद्रव्यैरतिविशिष्टः परिपूर्णभृतः समुद्रको गन्धसमुद्कस्तम्। (अवदाले इति) अवदलयति, उत्पाटयतीत्यर्थः (इणमेवेति) एवमेवेत्यर्थः / (केवलकप्पं ति) केवलं केवलज्ञानं तत्कल्पं परिपूर्णतया तत्सदृशं परिपूर्णमित्यर्थः / जम्बूद्वीप त्रिभिरप्सरोनिपातो नाम चप्पुटिका, ततस्तिसृभिश्चप्पुटिकाभिरिति द्रष्टव्यम् / चप्पुटिकाश्च कालोपलक्षणम् / ततोऽयमर्थः यावत्कालेन तिसश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्ये इति त्रिःसप्तकृत्यः एकविंशतिवारान् अतिपरिवर्त्य सामस्त्येन परिभ्रम्य (हव्वं) शीघ्रमागच्छेत् / "सेनूणमित्यादि 'से' शब्दो मगधदेशप्रसिद्ध्या अथशब्दार्थः। अथशब्दस्य चार्थो वाक्योपन्यासादयः / उक्तं च- “अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलाधिकारवाक्योपन्यासेषुअत्राथवाक्योपन्यासेतिद्भावना चैवम्।उक्तास्तावत्