________________ केवलि(ण) ६५७-अभिधानराजेन्द्र-भाग 3 केवलि(ण) मेन रागादीनामिव क्षुधादीनां तथाविधपरिणामेन निवर्त्यत्व-मस्ति, येन ततस्तज्जनकादृष्टतनुत्वं स्यात् / अस्त्येवाभोजनभावनातारतम्येन क्षुन्निरोधतारम्यदर्शनादिति चेन्न / ततो भोजनादिगतस्य प्रतिबन्धमात्रस्यैव निवृत्तेः; शरीरादिगतस्येव शरीरादिभावनया / अन्यथा भोजनभावनाऽत्यन्तोत्कर्षेण भुक्तिनिवृत्तिवदशरीरभावनाऽत्यन्तोत्कर्षेण शरीरनिवृत्तिरपि प्रसज्येतेति महत्सङ्कटमायुष्मतः / नन भुक्त्यादिविपरीतपरिणामेन भुक्त्याद्यदृष्टस्य मोहरूपप्रभूतसामग्री विना स्वकार्याक्षमत्वलक्षणं तनुत्वमेव क्रियते / तनुस्थापकादृष्टस्यापि अशरीरभावनया तद्भवबाह्ययोगक्रियां निरुणद्ध्येव / शरीरं तु प्रागेव निष्पादितं न बाधितुं क्षमत इत्यस्माकं न कोऽपि दोषः? इति चेन्न, विपरीतपरिणामनिवर्त्यत्वे भुक्त्यादेस्तददृष्टस्य रागाद्यर्जकादृष्टवद् योगप्रकर्षवति भगवति निर्मूलनाशापत्तेर्विशेषाभावात्। घात्यघातिकृतविशेषाभ्युपगमे तु अघातिनां भवोपग्राहिणां यथाविपाकोपक्रममेव निवृत्तिसंभ-वादिति न किञ्चिदेतत्। दोषजन्म अग्निमान्धादिदोषजनितं तनुत्वं च चिरकालविच्छेदलक्षणं निर्दोष भगवति नोपपद्यते / नियतविच्छेदश्च नियतकालभुक्याद्यापेक्षक एवेति भावः / / 25 / / (परोपकारेति) परोपकारस्य हानिश्च नियतावसरस्य भगवतो न भवति, तृतीययाममुहूर्त्तमात्र एव भगवतो भुक्तेः, शेषमशेषकालमुपकारावसरात्। पुरुषादिजुगुप्सा च निर्मोहस्य क्षीणजुगुप्सामोहनीयकर्मणो न विद्यते भगवतः // 26 // (तत इति) ततः पुरीषादेरन्येषां लोकानां जुगुप्सा चेत्सुरासुरनृपर्षदि, उपविष्टस्येति शेषः। नाग्न्येऽपितेषां कथंनजुगुप्सा? अतिशयश्चोभयोः पक्षयोः / समः। ततो भगवतो नाग्न्यादर्शनवत्पुरीषाद्यदर्शनस्याप्युपपत्तेः / सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणान्न दोष इति वदन्ति / / 27 / / स्वतो हितमिताहाराद, व्याध्युत्पत्तिश्च काऽपिन। ततो भगवतो भुक्ता, पश्यामो नैव बाधकम् / / 28|| (स्वत इति) स्वतः पुण्याक्षिप्तनिसर्गतः हितमिताहाराव्याध्युत्पत्तिश्च काऽपि न भवति। ततो भगवतो भुक्तौ कवलभोजने नैव बाधकं पश्यामः; उपन्यस्तानां तेषां निर्दलनात्। अन्येषामप्येतज्जातीयानामुक्तजातीयतर्केण निर्दलयितुं शक्यत्वादिति। तत्त्वार्थिना दिगम्बारमतिभ्रमध्वान्तहरणतरणिरुचिरध्यात्ममतपरीक्षा निरीक्षणीया सूक्ष्मधिया // 28 // द्वा०३० द्वा०। अतः शास्त्रे“विग्गहगइमावन्ना, केवलिणो समुहया अयोगी या। सिद्धा य अनाहारा, सेसा आहारगा जीवा" ||1 // सूत्र०२ श्रु०३ अ०। ('उवओग' शब्दे द्वि० भागे८६० पृष्ठ उपयोगद्वयविचारे चैतत्स्पटीकृतम्) (8) उन्मेषनिमेषौकेवली णं भंते ! उम्मिसेज वा निम्मिसेज वा? हंता गोयमा! उम्मिसेज वा निम्मिसेज वा एवं चेव, एवं आउट्टेज वा पसारेज वा, एवं ठाणं वा सेजं वा णिसीहियं वा वेएज्जा॥ (ठाणं ति)ऊवस्थान, निषदनस्थानं, त्वग्वर्तनस्थानं चेति। (सेज्जं ति) शय्यां वसतिं (निसीहियं ति) अल्पतरकालिकां वसतिं (वेएन त्ति) | कुर्यादिति। भ०१४ श०१० उ०। (उपयोगद्वययौगपद्यविचार 'उवओग' शब्दे द्वि० भागेच्६५ पृष्ठे उक्तः। चतुर्दशपूर्वी केवलज्ञानिना सह 'चउद्दस पुचि' शब्दे वक्ष्यते) (E) केवलिपरिज्ञानम् - सत्ताहिं ठाणेहिं केवली जाणेज्जा तंजहा-णो पाणे अइवा-एत्ता भवइ० जाव जहा वाई तहा कारीया वि भवइ / / स्था०७ ठा०। कथं पुनरसौ केवलितया ज्ञायत इत्याहकेवलिणा वा कहिए, अवंदमाणो व केवलिं अन्नं / वागरणपुटवकहिए, देवयपूआसु वसुण्णंति॥ अन्येन केनापि केवलिना कथिते अथ केवली ज्ञात इत्याख्याते सति अवन्दमानो वा केवलिनमन्यं केवलितया ज्ञायते व्याकरणपूर्व वा अतिशयज्ञानगम्यार्थकथनपुरस्सरंतेनैव केवलिना स्वयमेव कथिते सति दैवतपूजासु वा यथा सन्निहित देवैः क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवलिनं विदन्ति। वृ०३ उ०। (10) केवलिनोऽन्तकरज्ञानम् - केवली णं भंते ! अंतिकरं वा अंतिमसरीरियं वा जाणइ, पासइ? हंता गोयमा ! जाणइ पासइ / जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणइ पासइ, तहाणं छउमत्थे वि अंतकरं वा अंतिमसरीरियं वा जाणइ पासइ? गोयमा ! णो इणढे समढे, सोचा जाणइ पासइ, पमाणओ वा / से किं तं सोचा ? सोचा णं के वलिस्स वा के वलिसाव-यस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावयस्सवातप्पक्खियसावियाए वातप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा। यथा केवली जानाति तथा छद्मस्थो,न जानाति / कथञ्चित्पुनर्जानात्यपीत्येतदेव दर्शयन्नाह-“सोचेत्यादि" (केवलिस्स व ति) केवलिनो जिनस्य अयमन्तकरो भविष्यतीत्यादिवचनं श्रुत्वा जानातीति (केयलिसावयस्स व ति) जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिम्श्रावकः, तस्य वचनं श्रुत्वा जानाति, स हि किल जिनसमीपे वाक्यान्तराणि शृण्वन् अयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं श्रृणुयात्, ततश्च तद्वचनश्रवणाज्जानातीति। (केवलिउवासगस्स व त्ति) केवलिनमुपास्ते यः श्रवणानाकासी तदुपासनामात्रपरः सन्नसौ केवल्युपासकः, तस्य वचः श्रुत्वा जानाति भावना प्रायः प्राग्वत् / (तप्पक्खियस्स व त्ति) केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः / इह च श्रुत्वेति वचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततया अवसेयं, न त्वागमरूपं, तस्य प्रमाणग्रहणेन ग्रहीष्यमाणत्वादिति। भ०५ श०४ उ०। तओ केवली पण्णत्ता / तं तहा-ओहिनाणकेवली, मणपजवनाणकेवली, केवलनाणकेवली। केवलमेकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति ते केवलिनः / उक्तं च"कसिणं केवलकप्पं, लोग जाणंति तह य पासंति। केवलचरित्तनाणी, तम्हा ते केवली होति"॥१॥ इहापि जिनवद् व्याख्या। स्था०३ ठा०४ उ०। (केवलिनो यक्षावेशो न भवति इति 'जक्खावेस' शब्दे वक्ष्यते)