________________ केवलि(ण) ६५६-अभिधानराजेन्द्र-भाग 3 केवलि(ण) वृत्त्यादौ श्रूयते ? इत्यत आह-स्थितिशेषाद्यपेक्षं वा तद्वचो दग्धरञ्जकल्पत्ववचो व्यवतिष्ठते, नतु रसापेक्षया, अन्यथा सूत्रकृवृत्ति विरोधप्रसङ्गात, असातादिप्रकृतीनामसुखदत्याभिधानमप्यावश्यकनिर्युक्त्यादौ घातिकर्मजन्यबहुतरासुखविलयेनाल्पस्याविवक्षणात् / अन्यथा भवोपग्रहायोगादिति विभावनीयं सुधीभिः॥१३॥ (इन्द्रियेति) इन्द्रियोद्भवताया घ्रौव्यमावश्यकत्वं बाह्ययोरिरिन्द्रयार्थसम्बन्धापेक्षयोविलक्षणयोरेव सुखदुःखयोः आध्यात्मिकयोस्तयोः सुखदुःखयोः पुनश्चित्रं कर्महेतु श्रुतं क्वचिद् बहिरिन्द्रियव्यापाराभावेऽपि मनोमात्रव्यापारेण सदसचिताभ्यामेव तयोत्पत्तेः कृचिचतस्याऽप्यभावे आध्यात्मिकदोषोपशमोद्रेकाभ्यामेव तदुत्पत्तेर्दर्शनाद्भगवत्यपि द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति / वस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टानिष्टार्थशरीरसंपर्कमात्र प्रयोयोजकं, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिपरीषहाभिधानं सांप्रदायिकं संगच्छत इति न किञ्चिदेतत् // 14 // (आहारादीति) आहारादिप्रवृत्तिश्च यदि मोहजन्या इष्यते भगवता बुद्धिपूर्वकपरद्रव्यविषयकप्रवृत्तेर्मोहजन्यत्वनियमात्तदा देशनादिप्रवृत्त्याऽपि भगवतस्तथा माहजन्यत्वेन भवितव्यम् / / 15 / / इच्छाभावाद्भगवतो नास्त्येव देशनाप्रवृत्तिः स्वभावत एव च तेषां नियतदेशकाला देशनेतीष्टापत्तावाह-(यत्नमिति) यत्नताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् स्वभावाचेद्देशनादिकमिष्यते भगवतः तदा भुक्त्यादिकं तथैव यलं विनैव स्यात् दृष्टबाधोभयोः पक्षयोः समा। भुक्तेरिव देशनाया अपि यत्नं विना क्वाप्यदर्शनात् / चेष्टाविशेषे यत्नहेतुत्वकल्पनस्य चोभयत्र साम्यात्। ननु प्रयत्नं विना चेष्टामात्र न भवत्येव, देशना च भगवतामव्यापूतानामेव ध्वनिमयी संभवति, अक्षरमय्यामेव तस्यां यत्नजन्यत्वेनेच्छाजन्यत्वादिनि यमावधारणादिति न साम्यम्। यदाह समन्तभद्रः- "अनात्मार्थ विना रागैः, शास्ता शास्ति सतो हितम्। ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते"?||१|| इति, मैवं,शब्दस्य शब्दान्तरपरिणामकल्पनस्य साजात्येनन्याय्यत्वेऽपि ध्वनेस्तत्कल्पनस्यातिशयातोऽप्यन्याय्यत्वाद्, भगवद्देशनाया ध्वनिरूपत्वेऽपि वाग्योगापेक्षत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नानुसरणध्रौव्यात् / अन्यथा 'अपौरुषेयमागमं वदतो मीमांसकस्य दुर्जयत्वापत्तेरिति न किञ्चिदेतत्। अथ सुहृद्भवेन पृच्छामः बुद्धिपूर्वकप्रवृत्ताविच्छाया हेतुत्वात् कथं केवलिनो देशनादावाहारादौ च प्रवृत्तिरिति चेत् ? सुहृद्भावेन ब्रूमः बुद्धिः खल्विष्टसाधनताधीरन्यस्यातिप्रशक्तत्वात्, तत्पूर्वकत्वं चयदीष्टसाधनताधीजन्यतावच्छेदकं तदाऽप्यधुद्धिपूर्वकप्रवृते-जीवनयोनिभूताया इव भवोपग्राहिकर्मवशादुपपत्तेर्न कश्चिद्दोष इति। प्रवृत्तिसामान्ये तुयोगानामेव हेतुत्वादिच्छापूर्वकत्वमार्थसमाजसिद्धमेव। यदवदाम-“परदव्वम्मिपवित्तीणमोहजणिया व मोहजण्णा वा। जोगकया हु पवित्ती, फलकंखा रागदोसकाया" १इत्यधिकमन्यत्र // 16|| (भुक्त्येति) भुक्त्या कवलाहारेण वा सातवेद्यस्य सातवेदनीयस्योदीरणा त्वयाऽपाद्यते। भुक्तिव्यापारेणसातोत्पत्तेः साऽपि देशनया सातवेद्यस्यैतामुदीरणां तवापि क्षिपेत्, ततोऽपि परिश्रमदुःखसंभवात्प्रयत्नजन्यत्वस्य तत्र व्यवस्थापितत्वादिति भावः॥१७ सुहृद्भावेन समाधत्ते (उदीरणाख्यमिति) उदीरणाख्य करणं यदान्तरशक्तिविशेषलक्षणं प्रमादव्यङ्गचं वर्तते, तस्य तत्त्वं स्वरूपमजानानाः स्थूलया धिय बहिर्योगमात्रव्यापार गोचरया खिद्यसे त्वम् / योग व्यापारमात्रस्य तदाक्षेपकत्वे ततो मनोयोगेनाप्यप्रमत्ते सुखोदीरणप्रसङ्गात्, तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्यापि तथात्वप्रसङ्गात् / सुख्यहमित्यनुभवस्य चाप्रमतेऽप्यक्षतत्वादिति // 18|| (आहारकथयेति) आहारकथया हन्त ! प्रतिबन्धतस्तथाविधाहारेच्छासंस्कारप्रवृद्धेः प्रमादो भवति, न त्वन्यथाऽपि / अकथा विकथानां विपरिणामस्य परिणामभेदेन व्यवस्थितत्वात्। तदभावे च प्रतिबन्धाभावे च 'नो' नैव भुक्त्या श्रूयसे सुमुनेरपि उत्तमसाधोरपि प्रमादः किं पुनर्भगवत इति भावः / बहिर्योगव्यापारमात्रोपरम एवाप्रमत्तत्वलाभ इतितुन युक्तम्, आरब्धस्य तस्य तत्रासङ्गतया निष्ठाया अविरोधादिति॥१६॥ निद्रेति स्पष्टः / / 20 / / रासनं चेति स्पष्टः / / 21 / / (ईर्यति) ईर्यापथप्रसङ्गश्चात्र भगवतो भुक्ती गमनादिना समस्तेनापितत्प्रसङ्गस्यतुल्ययोगक्षेमत्वात्, स्वाभाविकस्य च तद्गमनस्य दृष्टबाधेन कल्पयितुमशक्यत्वादिति भावः। स्वकालासंभवे भुक्तिकालासंभविनी ध्यानतपसी पुनरक्षते / योगनिरोधदेहापवर्गकालयोरेव तत्स्वभावात् स्वभावसमवस्थितिलक्षणयोश्च तयोर्गमनादिमेव भुक्त्याऽपि न व्याघात इति द्रष्टव्यम् / / 22 / / परमौदारिकं चाङ्ग,भिन्नं चेत्तत्र का प्रमा?। औदारिकादभिन्नं चेत, विना भुक्तिं न तिष्ठति // 23 // मुक्ताधदृसंबन्ध-मदृष्टं स्थापकं तनोः। तत्त्यागे दृष्टवाधा त्व-त्पक्षभणराक्षसी॥२४॥ प्रतिकूलानिवर्त्यत्वा-तत्तनुत्वं च नोचितम्। दोषजन्म तनुत्वं च, निर्दोषे नोपपद्यते // 25 / / परोपकारहानिश्च, नियतावसरस्य न। पुरीषादिजुगुप्सा च, निर्मोहस्य न विद्यते // 26 // ततोऽन्येषां जुगुप्सा चेत्, सुरासुरनृपर्षदि। नाग्न्येऽपि न कथं तस्या-वर्तमानोऽनुभूयते // 27|| (गुणहानेरनिवृत्व, वैराग्यानाथ वेद्यते।। इच्छाबन्धं विना नैवं, प्रवृत्तिः सुखदुःखयोः॥२८॥) (परमौदारिक चेति) परमौदारिकं चाङ्गं शरीरं भिन्नं चेदौदारिकादिभ्यः क्लृप्तरीरेभ्यस्तर्हि तत्र का प्रमा किं प्रमाणम् ? न किञ्चिदित्यर्थः / औदारिकादभिन्नं चेत्तत्केवलमतिशयितरूपाद्युपेतं तदेव तदा भुक्तिं विना न तिष्ठति / चिरकालीनौदारिकशरीरस्थितेर्भुक्तिप्रयोज्यत्वनियमात् / भुक्तेः सामान्यतः पुद्गलविशेषोपचयव्यापारकत्वेनैवोपयोगादनस्पत्यादीनामपिजलाद्यभ्यादानेनैव चिरकालस्थितेः शरीरविशेषस्थिती विचित्रपुद्गलोपादानस्यापि हेतुत्वेन तं विना केवलिशरीरस्थितेः कथमप्यसंभवात् तत्र परमौदारिकभिन्नतवस्य कैवल्याकालीनत्वपर्यवशितस्य विशेषणस्याप्रामाणिकत्वादिति // 23 / / (भुक्त्यादीति) भुक्त्याद्यदृष्टन भोजनादिफलहेतुजाग्रद्विपाककर्मणा संबन्धंतनोःशरीरस्य स्थापकमाष्टम् दृष्टमिति शेषः / तत्यागे केवलिन्यभुपगम्यमाने त्वत्पक्षभक्षणराक्षसी दृष्टबाधा समुपतिष्ठते। तथा च तद्भयादपि तव नेत्थं कल्पना हितावहेतिभावः // 24 // ननुतनुस्थापकादृष्टस्य भुक्त्याद्यदृष्टनियतत्वेऽपि भुक्त्याद्यदृष्टस्य तनुत्वादभुक्त्याधुपपत्तिर्भगवतो भविष्यतीत्यव आह-(प्रतिकूलेति) तस्य भुक्त्याद्यदृष्टस्यतनुत्वंचनोचित, प्रतिकूले न विरोधिपरिणामेनानिवर्त्यत्वात् / न हि वीतरागत्वादिपरिणा