________________ केवलि(ण) ६५५-अभिधानराजेन्द्र-भाग 3 केवलि(ण) धात्॥१॥ (दग्धेति) च पुनर्वेदनीयकर्मणो दग्धरज्जुसमत्यात्तादृशेन तेन स्वकार्यस्य क्षुद्वेदनोदयस्य जनयितुमशक्यत्वात् / देहगतयोः शरीराश्रितयोः सुखदुःखयोरक्षोद्भवतयेन्द्रियाधीनतयाऽतीन्द्रियाणां भगवतां तदनुपतेः।।२।। (मोहादिति) मोहाद् मोहनीयकर्मणः परप्रवृत्तेः परद्रव्यप्रवृत्तेर्निर्मोहस्य सत आहारादिपरद्रव्यप्रवृत्त्यनुपत्तेः। सातवेद्यस्य सातवेदनीयस्यानुदीरणात् सातासातमनुजायुषामुदीरणायाः सप्तमगुणस्थानएव निवृत्तेः केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात्। च पुनराहारकथयाऽप्युच्चैरत्यर्थं प्रमादजननादाहारस्य सुतरां तथात्वात् / 3 / / (भुक्त्येति)भुक्त्या कवलाहारेण निद्रादिकस्योत्पत्तेः, आदिना रासनमतिज्ञानेर्यापथपरिग्रहः / केवलिनां च निद्राधभावात् तद्वयाप्यभुक्तेरप्ययोगात् / तथा भुक्तौ सत्यां ध्यानतपसोळयात्, केवलिनश्च तयोः सदातनत्वात् तां विनाऽपि च भुक्तिं विनाऽपि च परमौदारिकाङ्गस्य स्थास्नुत्वाच्चिरकालमवस्थितिशीलत्वात्तदर्थ केवलिनस्तत्कल्पनायोगात्॥४॥ (परेति) परोपकारहानेश्य भुक्तिकाले धर्मदेशनाऽनुपपत्तेः सदा परोपकारस्वभावस्य भगवतस्तव्याघातायोगात् / पुरीषादिजुगुप्सया भुक्तौ तद्धौव्यात् / व्याध्युत्पत्तेश्च भुक्तेस्तन्निमित्तत्वात् / भगवान् केवली भुङ्क्ते न इति दिगम्बरा वदन्ति / / 5 / / सिद्धान्तश्चायमधुना, लेशेनास्माभिरुच्यते। दिगम्बरमतव्याल-पलायनकलागुरुः॥६॥ हन्ताज्ञानादिका दोषाः, घातिकर्मोदयोद्भवाः। तदभावेऽपि किं न स्या-द्वेदनीयोद्भवा क्षुधा / / 7 / / अव्याबाधविघाताचेत्, सा दोष इति ते मातम्। नरत्वमपि दोषः स्यात्, तदा सिद्धत्वदूषणात् // 8 // घातिकर्मक्षयादेवा-क्षता च कृतकृत्यता। तदभावेऽपिनो बाधा, भवोपनाहिकर्मभिः ||6| आहारसंज्ञा चाहार-तृष्णाख्या न मुनेरपि। किं पुनस्तदभावेन, स्वामिनो मुक्तिबाधनम् / / 10 / / अनन्तं च सुखं भर्तु-ज्ञानादिगुणसङ्गतम्। क्षुधादयो न बाधन्ते, पूर्ण त्वस्ति महोदये // 11 // दग्धरज्जुसमत्वं च, वेदनीयस्स कर्मणः। वदन्तो नैव जानन्ति, सिद्धान्तार्थव्यवस्थितिम् / / 12 / / सिद्धान्तश्चायमिति व्यक्तः // 6 / / (हन्तेति) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः। तदभावेऽपि वेदनीयोद्भवा क्षुधा किं न स्यात् / न हि वयं भवन्तमिव तत्त्वमनालोच्य क्षुप्तिपासादिनैव दोषानभ्युपेमो येन निर्दोषस्य केवलिनः क्षुधाद्यभावः स्यादिति भावः ॥७॥(अव्याबाधेति) अव्याबाधस्य निरतिशयसुखस्य विघातात् सा क्षुधा दोषो, गुणदूषणस्यैव दोषलक्षणत्वादिति चेद् यदि ते तव मतं, तदा नरत्वप्रपिभवतो दोषः स्यात्, सिद्धत्वदूषणात् / तस्मात्केवलज्ञानप्रतिबन्धकत्वेन धातिकर्मोदयोद्भवानामज्ञानादीनामिव दोषत्वं, नतु क्षुधादीनामितियुक्तमुत्पश्यामः // 8 // (घातीति) घातिकर्मक्षयादेवाक्षताऽहीना च कृतकृत्यता भवोपग्राहिकर्माभिर्वेदनीयादिभिः सद्भिः। तद्भावेऽपि कृतकृत्यत्वाभावेऽपि (नो) नैव बाधा। सर्वथा कृतकृतत्यस्य सिद्धेष्वेव संभवात् उपादित्साभावेऽप्युपादेयस्य मोक्षस्य सयोगिकेवलित्वकालेऽसिद्धेः। रागाद्यभावमात्रेण कृतकृत्यत्वस्य च मुक्तिपक्षेऽप्यबाध एवेति कथितप्रायमेव / / 6 / / (आहारसंज्ञा चेति) आहारसंज्ञा चाहारतृष्णाख्या मोहाभि-व्यक्तचैतन्यस्य संज्ञा पदार्थत्यान्न मुनेरपि भावसाधोरपि, किं पुनस्तदभावेनाहारसंज्ञाभावेन स्वामिनो भगवतो मुक्तिबाधनम् ? तथा चाहारसामान्ये तद्विशेषेवा आहारसंज्ञया हेतुत्वमेव नास्तीत्युक्तं भवति / न च तद्विशेषे तद्धेतुत्वमेवाप्रमत्तादीनां चाहाराभावान्न व्यभिचार इति कुचोद्यमाशङ्कनीयम्, आहारसंज्ञाया अतिचारनिमित्तत्वेन कदापि निरतिचाराहारस्य साधूनामप्राप्तिप्रसङ्गात् // 10 // (अनन्तं चेति) अनन्तं च सुखं भर्तुर्भगवतो ज्ञानादिगुणसङ्गतं तन्मयीभूतमिति यावद् अज्ञानादिजन्यदुःखनिवृत्तेः सर्वेषामेव कर्मणां परिणामदुःखहेतुत्वाच क्षुदादयो न बाधन्ते, स्वभावनियत सुखानामेव तैर्बाधनं, पूर्ण तु निरवशेषं तु सुखं महोदये मोक्षेऽस्ति, तत्रैव सर्वकर्मक्षयोपपत्तेः // 11 (दग्घेति) दग्धरजुसमत्वं च वेदनीयस्य कर्मणो वदन्तः सिद्धान्तार्थव्यवस्थितिं नैव जानन्ति॥१२॥ पुण्यप्रकृतितीव्रत्वा-दसाताद्यनुपक्षयात्। स्थितिशेषाद्यपेक्षं वा, तद्वचो व्यवतिष्ठते // 13 // इन्द्रियोद्भवता ध्रौव्यं, बाह्ययोः सुखदुःखयोः। चित्रं पुनः श्रुतं हेतुः, कर्माध्यात्मिकयोस्तयोः / / 14 / / आहारादिप्रवृतिश्च, मोहजन्या यदीष्यते। देशनाऽऽदिप्रवृत्त्याऽपि, भवितव्यं तदा तथा।।१५।। यत्नं विना निसर्गाचेद्, देशनाऽऽदिकमिष्यते। भुक्त्यादिकं तथैव स्याद, दृष्टवाधा समोभयोः॥१६|| मुक्त्या या सातवेद्यस्यो-दीरणाऽऽपाद्यते त्वया। साऽपि देशनयाऽसात-वेद्यस्यैतां तवाक्षिपेत्॥१७॥ उदीरणाख्यं करणं, प्रमादव्यङ्ग्यमत्र यत् / तस्य तत्त्वमजानानाः, खिद्यसे स्थूलया धिया।|१८|| आहारकथया हन्त, प्रमादः प्रतिबन्धतः। तदभावे च नो भुक्त्या , श्रूयते सुमुनेरपि॥१६॥ निद्रा नोत्पाद्यते भुक्त्या, दर्शनावरणं विना। उत्पाद्यते न दण्डेन, घटो मृत्पिण्डमन्तरा।।२०।। रासनं च मतिज्ञान-माहारेण भवेद्यदि। घ्राणीयं स्यात्तदा पुष्पं, घ्राणतर्पणयोगतः॥२१।। ईर्यापथप्रसङ्गश्च, समोऽत्र गमनादिना। अक्षते ध्यानतपसी,स्वकालासंभवे पुनः॥२२॥ (पुण्येति) पुण्यप्रकृतीनां तीर्थकरनामादिरूपाणांतीव्रत्वात्तीव्रविपाकत्वातजन्यसातप्राबल्ये वेदनीयमात्रस्य दग्धरजुसमत्वासिद्धेरसातादीनामनुपक्षयादसातवेदनीयस्यापि तदसिद्धेः पापप्रकृतीनां भगवति रसधातेन नीरसत्वाभ्युपगमे स्थितिघातेन निःस्थितिकत्वस्याप्यापत्तेः, अपूर्वकरणादौ वध्यमानप्रकृतिविषयकस्यैव तस्य व्यवस्थितेः। ननु तर्हि कथं भवोपग्राहिकर्मणां केवलिनांदग्धरज्जुकल्पत्वाभिधानम् आवश्यक