________________ केवलि(ण) ६५४-अभिधानराजेन्द्र-भाग 3 केवलि(ण) निर्देशस्य शेषोपलक्षणत्वात् “सिन्झिसु सिज्झंति सिज्झिस्संति" इत्येवमतीतादिनिर्देशो द्रष्टव्यः / अत एव “सव्वदुक्खाणं" इत्यादी पञ्चमपदेऽसौ विहित इति / “जहा छउमत्थो" इत्यादेरिय भावना"अहोहिए णं भंते ! मणूसे तीतमणतं सासयं" इत्यादिदण्डकत्रयं, तत्र अधः परमावधेरधस्ताद्योऽवधिः सोऽधोऽवधिः, तेन यो व्यवहरत्यसावाऽधोऽवधिकः, परिमितक्षेत्रविषयावधिकः / (परमाहोहिउ ति) परम आधोऽवधिकाद्यः स परमाधोऽवधिकः / प्राकृतत्वाच्च व्यत्ययनिर्देशः। परमोहिउत्ति" कचित्पाठो व्यक्तश्च। स च समस्तरूपिद्रव्यासंख्यातलोकमात्रालोकखण्डासंख्यातावसर्पिणीविषयावधिज्ञानः / (तिण्णि आलावग ति) कालत्रयवेदिनः केवलिनोऽप्यत एव त्रयो दण्डकाः, विशेषस्तुसुत्रोक्त एवेति। से नूणं भंते ! उप्पन्ननाणदंसणधरे अरहा जिणे के वली अलमत्थु त्ति वत्तव्यं सिया? हंता गोयमा! उप्पन्ननाण दंसणरे अरहा केवली अलमत्थु त्ति वत्तव्वं सिया, सेवं भंते भंते त्ति / / “से नूणं" इत्यादिषु कालत्रयनिर्देशो वाच्य एवेति / (अलमत्थु त्ति) अलमस्तु पर्याप्त भवतु, नातः परं किञ्चिज्झानान्तरं प्राप्तव्यमस्यास्तीति एतद्वक्तव्यं स्याद्भवेत्, सत्यत्वादस्येति। भ०१ श०४ उ०। (5) अवगाहना। केवली यस्मिन्नाकाशप्रदेशेऽवगाढस्तत्रहस्ताद्यवगाह्य स्थातुं शक्तः केवली भंते अस्सिं समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा वाहं वा ऊरुं वा उग्गाहित्ता णं चिट्ठइपभू ! णं केवली से य कालंसि विएसु चेव आगासपएसेसु हत्थं वा० जाव उग्गाहित्ता णं चिट्ठित्तए? गोयमा! णो इणट्टे समढे। से केणतुणं भंते !0 जाव केवली णं अस्सि समयंसि जेसु आगासपएससु० जाव चिट्ठइ णो णं पभू ! केवली से य कालंसि विएसु चेव हत्थं या० जाव चिहित्तए / गोयमा ! के वलिस्स णं वीरियस्स सजोगसव्वयाए चलाइंउवगर-णाई भवंति चलोवगरणट्ठयाए णं केवली अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा० जव चिट्ठइ णो णं पभू ! केवली से य कालंसि विएसु चेव० जाव चिद्वित्तए से तेणटेणं जाव वुच्चइ केवलीणं अस्सिं समयंसि० जाव चिट्ठित्तए। (अस्सि समयंसि ति) अस्सिन् वर्तमानसमये (ओगाहित्ता णं ति) अवगाह्याऽऽक्रम्य (से य कालंसि व ति) एष्यत्कालेऽपी (वीरियस जोगसव्वणाए त्ति) वीर्यं वीर्यान्तरायक्षयप्रभवा शक्तिः, तत्प्रधानं सयोगं मानसादिव्यापारयुक्तं यत्सत् विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपिजीवद्रव्यस्य योगान् विना चलनं स्यादिति; सयोगशब्देन सद् द्रव्यं विशेषितं, सदिति विशेषणं च, तस्य सदा सत्ताऽवधारणार्थम्। अथवा स्वआत्मा, तदूपं स्वद्रव्यं, ततः कर्मधारयः। अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुक्तो | वीर्यसयोगसद्व्यः , तस्य भावस्तत्ता, तया हेतुभूतया (चलाई ति) | अस्थिराणि (उवगरणाई ति) अङ्गानि (चलोवगरणट्टयाए ति) चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणार्थता, तया / चशब्दः पुनरर्थः / भ०५ श०४ उ०। (6) अनुत्तरोपपातिकैः सहाऽऽलापःपभू णं भंते ! अणुत्तरोववाइया देवा तत्थ गया चेव समाणा इह गएण केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ? हंता पभू / से केणद्वेणं० जाव पभू णंअणुत्तरोववाइया देवा० जव करेत्तए? गोयमा ! जण्णं अणुत्तरोववाइया देवा तत्थ गया चेव समाणा अटुं वा हेउं वा पसिणं वा कारणं वा वागरणं वा पुच्छंति तण्णं इह गए केवली अटुं वा० जाव वागरणं वा वागरेइ, से तेणटेणं भंते ! इह गए केवली अहूं वा० जाव वागरेइ, तण्णं अणुत्तरोववाइया देवा तत्थ गया चेव समाणा जाणंति, पासंति, से केणष्टेणं० जाव पासंति। गोयमा! तेसिणं देवाणं अणंताओ मणोदव्वग्गणाओ लद्धाओ पत्ताओ अभिसमण्णागयाओ भवंति, से तेणद्वेणं जण्णं इह गए केवली०जाव पासइ। (आलावं वत्ति) सकृजल्प (सलावंव ति) मुहुर्मुहुर्जल्प मानसिकमेवेति, (लद्धाओ ति) तदवधेर्विषयभावं गताः (पत्ताओ ति) तदवधिना सामान्यतः प्राप्ताः, परिच्छिन्ना इत्यर्थः / (अभिसमण्णागयाओ त्ति) विशेषतः परिच्छिन्नाः यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं, यच लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपि लोकसंख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही, यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राहीन भविष्यति, इष्यते च लोकसंख्येयभागावधेर्मनोदव्यग्राहित्वम् / यदाह-"संखेजमणोदव्वे, भागो लोगपलियस्स बोधव्वो" त्ति / भ०५ श०४ उ०। (7) आहारः। तत्र दिगम्बरैः सह विप्रतिपत्तिः - सर्वथा दोषविगमात्, कृतकृत्यतया तथा। आहारसंज्ञाविरहा-दनन्तसुखसङ्गतेः।।१।। दग्धरज्जुसमत्वाच्च, वेदनीयस्स कर्मणः। अक्षोद्भवतया देह-गतयोः सुखदुःखयोः।२।। मोहात्परप्रवृत्तेश्च, सातवेद्यानुदीरणात्। प्रमादजननादुचै-राहारकथयाऽपि च / / 3 / / भुक्त्या निद्रादिकोत्पत्तेः, तथा ध्यानतपोव्ययात्। परमौदारिकाङ्गस्य, स्थास्नुत्वात्तां विनाऽपि च // 4 // परोपकारहानेश्च, पुरीषादिजुगुप्सया। व्याध्युत्पत्तेश्च भगवान्, भुङ्क्ते नेति दिगम्बराः / / 5 / / (सर्वथेति) सर्वथा सर्व प्रकारैर्दोषविगमात, क्षुधायाश्च दोषत्वात्तदभावे कवलाहारानुपपत्तेः / तथा कृतकृत्यतया केवलिनः कवलभोजित्वे तद्धान्यापत्तेः / आहारसंज्ञाविरहात् तस्याश्चाहारहेतुत्वात् / अनन्तसुखस्य संगतेः केवलिनः कवलभुक्तौ तत्कारण क्षुद्वेदनोदयावश्यभावात्तेनानन्तसुखविरो