________________ केवलणाण ६४९-अभिधानराजेन्द्र-भाग 3 केवलणाण गति) वाग्योग एव भवति, नतु श्रुतं, नाम कर्मोदयजन्यत्वात्त स्य च क्षायोपशमिकत्वात्, ज्ञानमप्यस्य क्षायिकत्वात्केवलमेव, न भावश्रुतम्। आह-ननु वाग्योगो वाक्परिस्पन्दो वाग्वीर्यमित्यनान्तरम् / अयं च भवतु नामकर्मोदयजन्यः, भाष्यमाणस्तुपुद्गलात्मकः किं भवतु ? इति चेत्। उच्यते-सोऽपि श्रोतॄणां भाव श्रुतकारणत्वात् द्रव्यश्रुतमात्रं भवति, नतुभावश्रुतम्। तर्हि किं तद्भावश्रुतम् ? इत्याह-(सुयं हवइ सेसंति) यच्छद्मस्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलगताज्ञानापेक्षया शेषमन्यद्भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतं, तस्य क्षायिकत्वादिति / अथ वा 'सुयं हवइ' सेसं इत्यन्यथा व्याख्यायते-तगण्यमानं शब्दमात्रंतत्काल एव श्रुतं न भवति, किं तर्हि? शेष, कालमिति वाक्यशेषः। इदमुक्तं भवति-तत् केवलिनः शब्दमात्रं श्रोतृणां श्रवणानन्तरलक्षणे शेषकाले श्रोतृगतज्ञानकारणत्वेनोपचारात् श्रुतं भवति, नतु भणनक्रियाकाल इति। अथ वा अन्यथा व्याख्याते-स केवलिनः संबन्धी वाग्योगः श्रुतं भवति, कथंभूतम्? शेषंगुणभूतम्-प्रधानम्, औपचारिकत्वादिति / अन्ये तु पठन्ति-'वइजोगसुयं हवइ तेसिं' ति। तत्र तेषां भाष्यमाणानां संबन्धी वाग्योगः श्रोतृगतश्रुतकारणात्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः / अथ वा तेषामिति श्रोतृणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एवं श्रुतं वाग्योगश्रुतं भवति, भावश्रुतकारणत्वाद्दव्यश्रुतमेवेत्यर्थः / अथ वा, तानन भाषते केवली, वाग्योगश्चायमस्य भाषमाणस्य भवति, तेषां श्रोतृणां भाव श्रुतकारणत्वात् श्रुतमसौ भवतीति नियुक्ति गाथार्थः // 26 // अथ भाष्यम्नाऊण केवलेणं, भासइ न सुएण जं सुयाईओ। पण्णवणिजे भासइ, नाणभिलप्पे सुयाईए|३०|| तत्थ विजोग्गे भासइ, नाजोग्गे गाहयाणुवित्तीए। मणिए व जम्मि सेसं, सयमूहइ भणइ तम्मत्तं // 31 // वइजोगो तं न सुयं, खओवसमियं सुयं जओ न तओ। विनाणं से खइयं, सद्दो उणे दव्वसुयमित्तं // 832|| सेसं छउमत्थाणं, विनाणं सुयाणुसारेणं। तंभावसुयं भण्णइ, खओवसमिओवओगाओ॥३३॥ भन्न तं वा न सुयं, सेसं कालं सुयं सुर्णेताणं / तं चेव सुयं भण्णइ, कारणकम्जोवयारेण // 834|| अह वा वइजोगसुयं, सेसं सेसं ति जंगुणभूयं / भावसुयकारणाओ, जमप्पहाणं तओ सेसं॥८३५|| वइजोगसुयं तेसिं, ति केइ तेसिं ति भासमाणाणं / अह वा सुयकारणओ, वइजोगसुयं सुर्णेताणं // 536|| सप्ताऽपि व्याख्यातार्था एव। नवरं, प्रथमगाथायां यद्यस्माच्छुतातीतः केवलज्ञानेनैवाभासितसमस्तत्रिभुवनोदरत्वात् श्रुतातिक्रान्तोऽसौ भगवान् केवली(सुयाईए त्ति) वाग्गोचरातिक्रान्तत्वेन श्रुतातीतानर्थान्न भाषत इति। तृतीयगाथायां (नतओत्ति) तकः क्षयोपशमोऽस्य केवलिनो नास्तीति / विशे०। (12) सत्पदप्ररूपणा-अथास्य गत्यादिद्वारेषु सत्पदप्ररूपणतादयो | वाच्याः / तत्र गतौ तावत्-मनुष्यसिद्धयोः केवल ज्ञानं प्राप्यते / इन्द्रियद्वारे-अतीन्द्रियाणाम्, कायद्वारे-त्रस-कायाकाययोः योगद्वारेसयोगायोगयोः, वेदद्वारे-अवेदका-नामः कषायद्वारे-अकषायाणाम, लेण्याद्वारे-सलेश्यालेययोः सम्यक्त्वद्वारे-सम्यग्दृष्टीनाम्, ज्ञानद्वारेकेवलज्ञानिनाम् दर्शनद्वारे-केवलदर्शनिनाम्; संयतद्वारे-संयतानाम्, नोसंयतासंयतानां च; उपयोगद्वारे-साकारानाकारोपयोगयोः; आहारकद्वारे-आहारकानाहारकयोः; भाषकद्वारे-भाषकाऽभाषकयोः; परीत्तद्वारे-परीत्तानां, नोपरीत्तापरीत्तानां च; पर्याप्तद्वारेपर्याप्ताना, नोपर्याप्तापर्याप्तानां च; सूक्ष्मद्वारे-बाद-राणां, नोबादरसूक्ष्माणां च; संज्ञिद्वारे-नोसंजयसंज्ञिनाम्; भव्यद्वारे भव्यानां, नोभव्याभव्यानां च / चरमद्वारे-चरमाणां भवस्थ केवलिनां, नोचरमाचरमाणां च, सिद्धानां केवलज्ञानं प्राप्यते / पूर्वप्रतिपन्नप्रतिपद्यमानकयोजना तु स्वबुद्ध्या कर्तव्येति / द्रव्यप्रमाणद्वारे-प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽष्टोत्तरशतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धास्त्वनन्ताः / क्षेत्रस्पर्शनाद्वारयोस्तु जघन्यतो लोकस्यासंख्येयभागे केवली लभ्यते, उत्कृष्टतस्तु सर्वलोके / कालद्वारेसाद्यपर्यवसित कालं सर्वोऽपि केवली भवति, अन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताभायात् भागद्वारं मतिज्ञानवदिति / भावद्वारे क्षायिके भावे केवलमवाप्यते। अल्पबहुत्वद्वारे-मतिज्ञानवद्वाच्यमिति। तदेवं, केवलज्ञानं समाप्तम्। विशे० तदेवं "तस्स फलजोगमंगल-समुदायत्था तहेव दाराई" इत्यादिकायां धुरि निर्दिष्टद्वितीयगाथायां मङ्गलरूपं तृतीयद्वारं परिसमाप्य, चतुर्थ समुदायार्थद्वारमभिधानीयम्, इति चेतसि निधाय तावदिदमाहकेवलनाणं नंदी, मंगलमिति चेह परिसमत्ताई। अहुणा समंगलत्थो, भण्णइ पगओऽणुओग त्ति // 837 // विशे०।०२०। आ० चू०। (13) अथ कीदृशं केवलज्ञानं भवति ? तदाहजता से णाणावरणं, सव्वं होति खतं गतं / ततो लोमगजोगं च, जिणो जाणति केवली |8|| “जता से" इत्यादि / यदा यस्मिन्नवसरे, “से इति” अनिर्दिष्टनाम्नो जीवस्य ज्ञानावरणं विशेषावबोधरूपप्रस्तावात् केवलज्ञानावरणं सर्वं निरवशेष क्षयं गतं भवति / ननु केवलज्ञज्ञनं तदैवोत्पद्यते यदा सर्वावरणविगमो भवतीति अर्थादागते किमर्थे सर्वग्रहणमित्याशङ्का / तत्रोच्यते-सर्वग्रहणं ज्ञानान्तरभेदसूचकं ज्ञेयं यावदावरणविगमे ज्ञानान्तरव्यपदेशाद् दर्शितः ततो न निरर्थकता आशङ्कनीया। "तत" इति तदा लोकं चतुर्दशरजवात्मकमलोकं चानन्तं जिनो जानाति केवली लोकालोकं च सर्वं नान्यतरमेवेत्यर्थः। दशा०५ अ० / विशे० / अथाऽऽवरणक्षये केवलज्ञानलाभ इत्यत्र निश्चयव्यवहारनय वादमुपदर्शयन्नाह आवरणक्खयसमये, नेच्छइअनयस्स केवलुप्पत्ती। तत्तोऽणंतरसमये, ववहारो केवलं भणइ / / 1334 / / निश्चयनयस्यायमभिप्रायः यस्मिन्नेव समये आवरणस्य क्षयः