SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ केवलणाण ६४८-अमिधानराजेन्द्र-भाग 3 केवलणाण कारान्तरे (चरमसमयेत्यादि) इह चरमसमयः शैलेश्यवस्थाऽन्तिसमयः, स चरमसमयादन्यः सर्वोऽप्यन्यः सर्वोऽप्यचरमसमयो यावच्छै लेश्यवस्थाचरमसमयः / “सेत्तं अयोगिभवस्थकेवलज्ञानम, नदेतदयोगिभ्रावस्थकेवलज्ञानम्। नं० / स्था०। (8) सिद्धेवलज्ञानस्य द्वैविध्यम्से किं तं सिद्धकेवलणाणं?1 सिद्धकेवलणाणं दुविहं पण्णत्तं अणंतरसिद्धकेवलनाणं च, परंपरसिद्धकेवलनाणं च / / “से किं तमित्यादि" अथ किं तत् सिद्धेवलज्ञानम् ? सिद्धेवलज्ञानं द्विविधं प्रज्ञप्तम्। तद्यथाअनन्तरसिद्धकेवलज्ञानंच, परम्परसिद्धकेवलज्ञानं, च। तत्र न विद्यते अन्तरं समयेन व्यवधानं यस्य सोऽनन्तरः, स चासौ सिद्धश्चानन्तरसिद्धः, सिद्धत्वप्रथमसमये वर्तमान इत्यर्थः। तस्य केवलज्ञानमनन्तरसिद्धकेवलज्ञानम्। चशब्दः स्वगतानेकभेदसूतकः / तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परः, तस्यापि यस्तृतीयसमयसिद्धः स परः। एवमन्येऽपि वाच्याः। परेच परे चेति वीप्सायां "पृषोदरादयः” / 3 / 2 / 155 / इति परम्परशब्दनिष्पत्तिः / परस्परे च ते सिद्धाश्च परम्परसिद्धाः / विवक्षितसिद्धत्वप्रथमसमयात्प्राग द्वितीययादिषु समयेष्वनन्तामतीताद्धां यावद्वर्तमाना इत्यर्थः / तेषां केवलज्ञानं परम्परसिद्धकेवलज्ञानम् / अत्रापि चशब्दः स्वगतानेकभेद-संसूचकः। नं०। (10) संप्रति विशेषान्तरं जिज्ञासुरनन्तरसिद्धस्वरूपं शिष्यः प्रश्नयन्नाहसे किं तं अणंतरसिद्धवलनाणं ? / अणंतरसिद्धकेवलनाणं पन्नरसविहं पण्णत्तं / तं जहा-तित्थसिद्धा 1 अतित्थसिद्धा 2 तित्थयरसिद्धा 3 अतित्थयरसिद्धा 5 सयंबुद्धसिद्धा 5 पत्तेयबुद्धसिद्धा 6 बुद्धवोहियसिद्धा 7 इथिलिंगसिद्धा 8 पुरिसलिंगसिद्धा नपुंसयलिंगसिद्धा 10 सलिंगसिद्धा 11 अन्नलिंगसिद्धा 12 गिहिलिंगसिद्धा १३एगसिद्धा 14 अणेगसिद्धा 15 / सेत्तं अणंतरसिद्धके वलनाणं / / अथ किं तत् अनन्तरसिद्धकेवलज्ञानम् ? सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविध प्रज्ञप्तम् / पञ्चदशविधता च तस्यानन्तरसिद्धानामनन्तरपाश्चात्यभवरूपोधिभेदापेक्षया, पञ्चादशविधत्वात्, ततोऽनन्तरसिद्धानामेवानन्तरभवो पाधिभेदतः, पञ्चदशविधतां मुख्यत आह-तद्यथेत्युपदर्शनम्, "तित्थसिद्धा" इत्यादि। से किं तं परंपरसिद्धकेवलनाणं ? / परंपरसिद्धकेवलनाणं अणेगविहं पण्णत्तं / तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा० जाव दससमयसिद्धा संखिज्जसमयसिद्धा असंखिनसमयसिद्धा अनंतसमयसिद्धा, सेत्तं परंपरसिद्धकेवलनाणं। "से किं तं परंपर" इत्यादि।न प्रथमसमयसिद्धा अप्रथमसमयासिद्धाः परंपरसिद्धविशेषणं प्रथमसमयवर्तिनः सिद्धत्वसमयात् द्वितीयसमयवर्तिन इत्यर्थः / आदिषु द्वितीयसमयसिद्धादय उच्यन्ते। यद्बासामान्य तोऽप्रथमसमयसिद्धा इत्युत्कम्। तत एतदेव विशेषेण व्याचष्टेद्विसमयसिद्धास्त्रिसमय इत्यादि। नं। अणंतरसिद्धके वलनाणे दुविहे पण्णत्ते / तं जहाएक्काणंरसिद्धके वलनाणे चेव, अणेक्काणंतरसिद्धके वलनाणे चेव। परंपरसिद्धके वलणाणे दुविहे पण्णत्ते / तं जहाएक्कपरंपरसिद्धकेवलणाणे चेव, अणेकपरंपरसिद्धकेव-लणाणे चेव / स्था०२ ठा०१ उ०।। द्रव्यक्षेत्रादिविषयाःतं समासओ चउय्विहं पण्णत्तं / तं जहा-दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं केवलनाणी सव्वदव्वाई जाणइपासइ, खित्तओणं केवलनाणी सव्वं खेत्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ। (समासतो इत्यादि) तदिदं सामान्येन केवलज्ञानमभिगृह्यते समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तम्। तद्यथा-द्रव्यतः क्षेत्रतः कालतो भवतश्च। तत्र द्रव्यतो, णमिति वाक्यालङ्कारे / केवलज्ञानी सर्वद्रव्वयाणि धर्माऽस्तिकायादीनि साक्षाज्जानाति, पश्यति / क्षेत्रतः केवलज्ञानी सर्व क्षेत्र लोकालोकभेदभिन्नं जानाति, पश्यति / इह यद्यपि सर्वद्रव्यग्रहणेनाऽऽकाशास्तिकायोऽपि गृह्यते, तथाऽपितस्य क्षेत्रत्वेन रूढत्वाद्वेदेनोपन्यासः। कालतः केवलज्ञानी सर्वकामतीतानागतवर्तमानभेदभिन्न जानाति, पश्यति / भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् भावान् गतिकषायागुरुलघुप्रभृतीन जानाति, पश्यति। (अग्रेतनपाठस्तु 644 पृष्ठस्थ आ० म०प्र० पाठेन गतार्थः) (11) इह तीर्थकृत्समुपजातकेवलालोकः तीर्थकरनामकर्मादयतः तथा स्वाभाव्यादुपकार्यकृतोपकारानपेक्षं सकलसत्त्वाऽनुग्रहाय सवितेव प्रकाश देशनामातनोति, तत्राव्युत्पन्नविनेयानां केषाञ्चिदेवमाश्डाभावात् भगवतोऽपि तीर्थकृतस्तावद् द्रव्यश्रुतं ध्वनिरूपं वर्तते, द्रव्यश्रुतं च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति ततस्तदाऽऽशङ्कऽपनोदार्थमाहकेवलनाणेणऽर्थ, नाउंजे तत्थ पण्णवणजोग्गे / ते भासइ तित्थयरो, वइजोगसुयं हवइ सेसं १८२६।(नं०) इह समुत्पन्नकेवलज्ञानः तीर्थकरादिरर्थान् धर्मास्तिकायादीन् मूर्ताऽमूर्ताभिलाप्याऽनभिलाप्यान् केवलज्ञानेनैव ज्ञात्वा अवबुध्य न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्। केवलिनश्चावरणस्यसर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् नहि सर्वशुद्धे पटे देशशुद्धिः संभवति, तदिहापीति भावः। ततः किम् ? इत्याह-तत्रतेषामर्थानांमध्येयेप्रज्ञापनीयाः प्ररूपणीयाः योग्यास्तानभिलप्यान् भाषते, नेतरान्-अनभिलप्यान्। प्रज्ञापनीयानपि न सर्वानेव भाषते तेषामनन्तत्वात्, आयुषस्तु परिमितत्वात्, किं तर्हि, योग्यानेव भाषते गृहीतृशक्त्यऽपेक्षया, यो हियावतां योग्य इति। यत्र चाऽभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति तदपि योग्यं भाषते, तथा 'प'' ऋषभसेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः / तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशि ष्यमाणः तस्य भगवतः। (वइजो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy