________________ केवलणाण ६४७-अभिधानराजेन्द्र भाग 3 केवलणाण एतत्केवलज्ञानं, न नैव, यद् यस्मात्कारणात, अन्यथा अनन्तरोक्त- / प्रकारात् प्रकारान्तरेण चन्द्रप्रभाज्ञातस्य सर्वसाधर्म्यज्ञाततालक्षणे न युज्यतेघटते। अघटना चैवम् चन्द्रप्रभा हिन सर्वगताभासा, तत्साधयाच केवलमपि तथा स्यादिति (तेनेति) तस्मात्कारणात् सन्नयायादुक्तलक्षणया शोभनोपपत्त्या संवित्त्या स्वसंवेदनेन च अदोऽप्येतदपि प्रभाज्ञातस्य ज्ञातमात्रत्वमपि न केवलमात्मस्थत्वं के वलस्य भाव्यतां पर्यालोच्यताम् / तथाहि-संवेद्यत एव ज्ञातस्य ज्ञातमात्रत्वं प्रभायाः पद्गलद्रव्यत्वेन, केवलस्य च जीवधर्मत्वेन वैधर्म्यस्य स्पष्टत्वादिति // 7 // अथ पूर्वोक्तस्वरूपं केवलज्ञानं निगमयन्नाहनाऽद्रव्योऽस्ति गुणोऽलोके, न धर्मान्तौ विभुर्न च। आत्मा तद्रमनाऽऽद्यस्य, नास्तु तस्माद्यथोदितम्॥|| ननैव, अद्रव्यो द्रव्यवर्जितोऽस्ति विद्यते, गुणो धर्मः,"द्रव्याश्रया निर्गुणा | गुणाः" इति वचनात् / अत आत्मगुणत्वात् केवलस्यात्मस्थमेव तदिति गर्भः / तथा अलोके केवलाऽऽ-काशे, न नैव, धर्मश्च धर्माऽस्तिकायो जीवपुद्गलानां गत्युपष्टम्भकारी, अन्तश्च पर्यवसानं, धर्मान्तौ, स्त इति गम्यते / इद मुक्तं भवति-लोके गमनसंभवात् संभवति तदनात्मस्थमपि लोकप्रकाशम्, अलोके पुनर्धमास्तिकायाभावाद् गमनाभावेन अन्ताभावाच सर्वत्रालोकं गन्तुमशक्तत्वेनात्मस्थमेव सत्तदलोकप्रकाशकमिति / अथ सर्वगतत्वादात्मन आत्मस्थमपि केवलं लोकालोकप्रकाशकं भविष्यतीत्याशक्याऽऽह-विभुः सर्वव्यापी, नच नैव, आत्मा जीवः, शरीरमात्र एव चैतन्योपलब्धेरतः शरीरावगाहमानमेव सत्तत्सर्वाभासकमिति भावः / तदिति यस्मादेवं तस्माद्गमनादि गत्यादिका क्रिया, आदिशब्दादागमनपरिग्रहः / अस्य केवलज्ञानस्य, न नैयास्तीति गम्यते / अस्तु भवतु, तस्मात्कारणाद्, यथोदितं यथाऽभिहितमात्मस्थं केवलमित्यर्थः / इति / / 8 / / हा०३० अष्ट० / (केवलज्ञानके वलदर्शनयोर्युगपदुपयोगचिन्ता 'उवओग' शब्दे द्वितीयभागे 862 पृष्ठे कृता) (8) तद्भेदाः-- से किं तं केवलनाणं? केवलनाणं दुविहं पण्णत्तं / तं जहाभवत्थकेवलनाणंच, सिद्धेवलनाणं च / से किं तं भवत्थकेवलनाणं? भवत्थकेवलनाणं दुविहं पण्णत्तं / तं जहा-सजोगिभवत्थकेवलनाणं च, अजोगिभवत्थकेवलनाणं च / से किं तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं / तं तहापढमसमयसजोगिभवत्थके वलनाणं च, अपढमसमयसजोगिभवत्थकेवलनाणं च / अहवा चरमसमयसजोगिभवत्थके वलनाणं च, अचरमसमयसजोगिभवत्थकेवलनाणं च / सेत्तं सजोगिभवत्थकेवलनाणं / से किं तं अजोगिमवत्थकेवलनाणं ? अजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं / तं जहा-पढमसमयअजोगिभवत्थके वलनाणं च, अपढमसमयअजोगिभवत्थकेवलनाणंच। अह वा चरमसमयअजोगिभवत्थके वलनाणं च, अचरसममयअजोगिभवत्थकेवलनाणं च सेत्तं अजोगिभवत्थकेवलनाणं / (से किं तमित्यादि) अथ किं तम् केवलज्ञानम् ? सूरिराह केवलज्ञानं द्विविधं प्रज्ञप्तम्। तद्यथा--भवस्थकेवलज्ञानं, सिद्धकेवलज्ञानं च। भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो नारकादिजन्म, तत्र इह भवो मनुष्यभव एव ग्राह्यः, अन्यत्र केवलोत्पादाभावात् / भवे तिष्ठतीति भवस्थः / “स्थादिभ्यः कः" ||५३५२इति (हैम०) कः प्रत्ययः। तस्य केवलज्ञानं भवस्थकेवलज्ञानम्। चशब्दः स्वगतानेक-भेदसूचकः। तथा 'षिधू' संसिद्धौ, सिध्यति स्म सिद्धः। यो येन गुणेन परिनिष्ठितोन पुनः साधनीयः स सिद्ध उच्यते / यथा सिद्ध ओदनः / स च कर्मसिद्धादिभेदादनेकविधः / उक्तंच-“कम्मे सिप्पे य विजाए, मंते जोगे अ आगमे / अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय" ||1|| अत्र कर्मक्षयसि-द्धेनाधिकारोऽन्यस्य केवलज्ञानाभावात् / अथवा सितं बद्धध्मातं भस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः / “पृषोदरादयः" / 3 / 2 / 115 // इति (हेम०) रूपसिद्धिः / सकलकर्मविनिर्मुक्तो, मुक्ताऽवस्थामुपगत इत्यर्थः / तस्य केवलज्ञानं सिद्धकेवलज्ञानम् / अत्राऽपि चशब्दः स्वगतानेकभेदसूचकः। (से किं तमित्यादि) अथ किं तत् भवस्थकेवलज्ञानम्। भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम्। तद्यथासयोगिभवस्थकेवलज्ञानं च, अयोगिभवस्थकेवलज्ञानं च। तत्र योजन योगो व्यापारः / उक्तं च-"कायवाङ्मः कर्मयोगः" इह औदारिकादिशरीरस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याञ्जीवव्यापारो वाग्योगः / उक्तं च-"अहवा तणु ओगाहिय, वइदव्वसमूहजीववावारो। सोवयजोगो भण्णइ, वाया निसरिज एतेणं" / / 1 / / तथा औदारिकं वैक्रियाहारकशरीव्यापाराहतमनोद्रवयसाचिव्याज्जीवव्यापारो मनोयोगः / उक्तं च "तह तणु वावाराहियमणदव्वसमूहजीववावारो। सो मणजोगो भण्णइ, मन्नइ नेयं जओ तेण" ||१||ततः सह योगेन वर्तन्ते येते सयोगाः मनोवाकायाः, ते यथासंभवमस्य विद्यन्ते इति सयोगी, सयोगी चासौ भवस्थश्च सयोगिभवस्थः, तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानम् / तथा योगोऽस्य विद्यते इति योगी, न योगी अयोगी, अयोगी चासौ भवस्थश्च अयोगिभवस्थः शैलेश्यवस्थामुपगत इत्यर्थः। तस्य केवलज्ञानमयोगिभवस्थकेवलज्ञानम्। अथ किंतत्सयोगिभवस्थकेवलज्ञानम् ? सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् / तद्यथाप्रथमसमयसयोगिभवस्थ केवलज्ञानं च, अप्रथमसमयसयो गिभवस्थकेवलज्ञानं च / तत्रेह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः अप्रथमसमयः केवलोत्पत्तिसमयादूर्द्ध द्वितीयादिकः सर्वोऽपि समयो यावत्सयोगित्वचरमसमयः / अथ वेति प्रकारान्तरे, एष एवार्थः, समययिकल्पनेन अन्यथा प्रतिपाद्यत इत्यर्थः / (चरमसमयेत्यादि) तत्र चरमसमयः सयोग्यवस्थाऽन्तिमसमयः,नचरमसमयः अचरसममयः, सयोग्यवस्थाचरमसमययाद-क्तिनः सर्वोऽप्याकेवलप्राप्तेः। “सेत्तमित्यादि' निगमनं सुगमम् (से कि तमित्यादि) अथ किं तत् अयोगिभवस्थकेवलज्ञानम् ? अयोगिभवस्थकेवज्ञानं द्विविध प्रज्ञप्तम्। तद्यथा-प्रथमसमयायोगिभवस्थकेयलज्ञानम्, अप्रथमसमयायोगिभस्थके वलज्ञानं च / अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः; शैलेश्यवस्थाप्रतिपत्तिसमय इत्यर्थः / प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्छैलेश्यवस्थाचरमसमथः / अथवेति प्र