________________ केवलणाण ६४५-अभिधानराजेन्द्र-भाग 3 केवलणाण - 00 “सव्वदव्याण पओ-गवीससा-मीसजा जहाजोग्गं। परिणामा पजाया, जम्मविणासादओ सव्वे / / 825 / / तेसिं भावो सत्ता, सलक्खणं वा विसेसओ तस्स। नाणं विण्णत्तीए, कारणं केवलण्णाणं" ||826 / / तच ज्ञेयानन्तत्वादनन्तं, तथा शश्वद्भवं शाश्वतं, सदोपयोगवदिति भावार्थः / तथा प्रतिपतनशीलं प्रतिपाति, न प्रतिपाति अप्रतिपाति, सदाऽवस्थायीति भावः। ननुयत्शाश्वतं तदप्रतिपात्येव, ततः किमनेन विशेषणेन? तदयुक्तम्, सम्यक् शब्दार्थापरिज्ञानात् / शाश्वतं हि नाम अनवरतं भवदुच्यते, शश्वद्भवं शाश्वतमिति व्युत्पत्तेः। तच कियत्कालमपि भवति, यावद्भवति तावन्निरन्तरं भवनात्ततः सकलकालसभावप्रतिपत्त्यर्थमप्रतिपाति विशेषणोपादानम् / एष तात्पर्यार्थ:-अनवरतं सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावो भवतीति ज्ञापनार्थं विशेषणद्वयोपादानम्। तथाहिशाश्वतमप्रतिपात्येव, प्रतिपाति तुशाश्वतमशाश्वतं च भवति। यथा अप्रतिपात्यवधिज्ञानमिति। तथा एकविधमेकप्रकारं, तदावरणक्षयस्यैकरूपत्वात्। उक्तंच - "पजायओ अणंतं, सासयमिहं सदोवओगाओ। अव्वयओपडिवादी, एगविहं सव्वसुद्धीए"।।८२५|| (विशे०) केवलं च तद्ज्ञानं च केवलज्ञानम्। आ०म०प्र०। (६)अथ साद्यपर्यवसितं केवलज्ञानं सूत्रे प्रदर्शितम्। अनुमानंच तथाभूतस्य तस्य प्रतिपादकं संभवति / तथाहि- घातिकर्म चतुष्टयक्षयादाविर्भूतत्वात् केवलं सादि। न च तथोत्पन्नस्य पश्चात्तस्यावरणमस्त्यतोऽनन्तमिति न पुनरुपद्यते, विनाशपूर्वकत्वादुत्पादस्य। न हि घटस्याविनाशे कपालानामुत्पादो दृष्ट इत्यनुत्पादव्ययात्मकं केवलमित्यभ्युपगमवतो निराकर्तुमाहकेवलणाणं साई,अपज्जवसियं ति दाइयं सुत्ते। तेत्तियमित्तो तूणा, केइ विसेसंण इच्छंति|८|| केवलज्ञानं साद्यपर्यवसितमिति दर्शितं सूत्रे इत्येतावन्मात्रेण गार्विताः केचन विशेष पर्याय पर्यवसितत्वस्वभावं विद्यमानमपि नेच्छन्ति, तेन च सम्यग्दादिनः।।८८|| यतःजे संघयणाईया, भवत्थकेवलिविसेसपज्जाया। ते सिज्झमाणसमये, ण होति विगयं तओ होई // ये वजऋषभनाराचसंहननादयो भवस्थकेवलिजन्मपुद्गलप्रदेशयोरन्योऽन्यानुवेधात् व्यवस्थितेः विशेषपर्यायाः, ते सिध्यत्समये अपगच्छन्ति। तदपगमेतदव्यतिरिक्तस्य केवलज्ञानस्याप्यात्मद्रव्यद्वारेण त्रिगमात्ः अन्यथाऽवस्था-तुरवस्थानामात्यन्तिकभेदप्रसक्तेः, केवलज्ञानं ततो विगतं भवतीति सूत्रकृतोऽभिप्रायः। विनाशवत्केवलज्ञानस्योत्पादोऽपि सिद्ध्यत्समय इत्याहसिद्धत्तणेणय पुण्णो, उप्पण्णो एस अत्थपज्जाओ। केवलभावं तु पडुब केवलं दाइयं सुत्ते / / 60|| सिद्धत्वेनाशेषकर्मविगमस्वरूपेण पुनः पूर्ववदुत्पन्न एष केवलज्ञानास्योऽर्थपर्यायः, उत्पादविगमध्रौव्यात्मकत्वाद् वस्तुनोऽन्यथा वस्तुहानिः / यत्त्वपर्यवसितत्वं सूत्रे केवलस्य दर्शितं, तत्तस्य केवलभावं सत्तामात्रमाश्रित्य, कथञ्चिदात्मव्यतिरिक्तत्वात्तस्यात्मनश्च द्रव्यरूपतया नित्यत्वात्।। ननु केवलज्ञानस्याऽऽत्मरूपतामाश्रित्य तस्योत्पादविनाशाभ्यां केवलस्य तौ भवतः, न चात्मनः केवलरूपतेति कुतस्तद्वारेण तस्य तावित्याहजीवो अणाइणिहणो, केवलणाणं तु साइयमणंतं। इय थोरम्मि विसेसे, कह जीवो केवलं होई ? ||1|| जीवोऽनादिनिधनः, केवलज्ञानं तु साद्यपर्यवसितम्, इति स्थूरे विरुद्धधर्माध्यासलक्षणे विशेषेच्छायाऽऽतपवदत्यन्तभेदात् कथं जीवः केवलं भवेत् ? जीवस्यैव तावत् केवलरूपता असङ्गता दूरतः संहननादेरिति भावः। तम्हा अण्णो जीवो, अण्णे णाणाइपजवा तस्स। उवसमियाईलक्खण-विसेसओ केइ इच्छंति ||2|| तस्माद् विरुद्धधर्माध्यासतोऽन्यो जीवः, अन्ये ज्ञानादिपर्यायाः लक्षणभेदाच लयोर्भेदः। तथाहि-ज्ञानदर्शनयोः क्षायिकः, क्षयोपशमिको वा भावो लक्षणम्। जीवस्स तु पारिणामिकादिभावो लक्षणमिति केचित् व्याख्यातारः प्रतिपन्नाः। एतनिषेधाऽऽहअह पुण पुटवपउत्तो, अत्था एगंतपक्खपडिसेहो। तह वि उयाहरणमिणं, ति हेउपडिजोयणं वोच्छं / / 63|| यदप्ययं पूर्वमेव द्रव्यपर्यायो भेदाभेदैकान्तपक्षप्रतिषेधलक्षणोऽर्थः प्रयुक्तो योजितः। “अप्पायट्ठी भंगा" इत्यादिना अनेकान्तव्यवस्थापनात्, तथापि केवलज्ञानेनैकान्तात्मकैकप्ररूपप्रसाधकस्य हेतोः साध्येनानुगमप्रदर्शकप्रमाणविषयमुदाहरणमिदमुत्तरगाथया वक्ष्ये // 63|| तदेवाऽऽह-- जह कोइ सद्विवरिसो, तीसइवरिसो णराहिवो जाओ। उभयत्थ जायसद्दो, वरिसविभागं विसेसेइ / / 64|| यथा कश्चित्पुरुषः षष्टिवर्षः सर्वायुष्कमाश्रित्य, त्रिंशद्वर्षः सन्नराधिपो जातः, उभयत्र मनुष्ये राजनिच जातशब्दोऽयं प्रयुक्तो वर्षविभागमेवास्य * दर्शयति / षष्टिवर्षायुष्कस्य पुरुषसामान्यस्य नराधिपपर्यायो जातोऽभेदाध्यवसितभेदात्मकत्वात्पर्यायस्य,नराधिपपर्यायात्मकत्येन वाऽयं पुरुषः पुनर्जातो, भेदानुषक्ताभेदात्मकत्वात् / सामान्यस्यैकान्तभेदे अभेदे तयोरभावप्रसङ्गान्निराश्रयस्य पर्यायप्रादुर्भावस्य तद्विकलस्यवा सामान्यस्यासंभवात् संशयविरोधवैयधिकरण्येऽनवस्थोभयदोषादीनामनेकान्तवादे च प्रागेव निरस्तत्वात्।।६४॥ दृष्टान्तं प्रसाध्य दान्तिकयोजनायाऽऽह - एवं जीवद्दवं, अणाइनिहणमविसेसियं जम्हा। रायसरिसो उकेवलि-पज्जावो तस्स सविसेसो ||5|| एवमन्तरोक्तदृष्टान्तवज्जीवद्रव्यमनादिनिधनमविशेषितभव्यजीवरूपं सामान्यं, यतो राजत्वपर्यायसदृशः के वलित्वपर्यायस्तस्य तथाभूतजीवद्रव्यस्य विशेषस्तस्माद् तेन रूपेण जीवद्रव्य सामान्यस्यापि कथञ्चिदुत्पत्ले : सामान्यमप्युत्पन्नं, प्राक्तनरूपस्य विगमात् / सामान्यमपि तदभिन्न कथञ्चिद्विगतपू