SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ केवलणाण ६४४-अमिधानराजेन्द्र भाग 3 केवलणाण तद्भावं बाधेत, सर्वत्र सर्वदा वेत्यादिविकल्पजालजर्जरीभूतं न तद्राधनधुरां धारयितुं धीरता दधाति / कथं वा परगृहरहस्याभिज्ञो भवानेवमभूत् ? तादृक्षप्रत्यक्षप्रतिक्षेपदक्षं प्रत्यक्ष प्रावर्तिष्ट ममेति तेन कथनाचेत्ः यदि कथिते प्रत्ययः, तर्हि तादृक्षाध्यक्षप्रतिक्षेपि प्रत्यक्ष वास्त्येव,ख इत्युत्तम्भितहस्ता वयं व्याकुर्माह इति किन तथाऽनुमन्यसे? अथन यौष्माकीणः प्रमाणप्रवीणः समुल्लापः परकीयः कथमितिवाच्यम् ? न खल्ययं स्वप्रत्यक्षं त्वत्प्रत्यक्षं कर्तुं शक्नोति, वचसा तु यथाऽसौ कथयति, तथा वयमपि / अथ तदुपदर्शितेऽर्थे संवादात्तद्वचः प्रमाणम्। नन्वेवं प्रत्यक्षम्, अप्रत्यक्ष वा संवादकं स्यात् ? इत्यादि पूर्वोक्तावर्त्तनेनानवस्थावल्लिरुल्लसन्ती कथंकर्तनीया? किञ्चसंविदापमिन्द्रियागोचरत्वादैन्द्रियमध्यक्षं सकलप्रत्यक्षस्य विधौ, प्रतिषेधे वा मूकमेव वराकम्। न च त्वन्मतेनाऽभावः प्रत्यक्षेण प्रेक्ष्यते / तथात्वे हि किमिदानीमपहतसर्वस्वेन तपस्विनाऽभावप्रमाणेन कर्त्तव्यम् ? तन्न प्रत्यक्षं तदाधविधानसंविधानोद्धरम्। अप्रत्यक्षमपि प्रत्यक्षाभावमात्रम्, अपरप्रमाणरूपं वा प्रणिगद्येत? आद्यं चेद् तर्हि निद्राणदशायामम्भस्तम्भकुम्भाम्भोरुहाम्भोधरादिगोचरप्रत्यक्षाभावात् तेषामभावो भवेत् / द्वितीयं चेद्भावस्वभावम्, अभावस्वभावं वा? भावस्वभावमप्यनुमानम्, शाब्दम, अर्थापत्तिः उपमानं वा ? अनुमानं चेत्, कस्तत्र धर्मी?सकलप्रत्यक्षं, पुरुषो वा कश्चित् ? सकलप्रत्यक्षं चेत्, तत्रोपादीयमानः समस्तो हेतुराश्रयासिद्धतामाश्रयेत्, भवतस्तस्याऽप्रसिद्धः। पुरुषोऽपि सर्वज्ञः, तदन्यो वा धर्मी वयेत? सर्वज्ञश्चेत् किं सर्वज्ञत्वेन निर्णीतः, पराभ्युपगतो वा ? निर्णीतश्चेत् कथं तत्र तादृक्षप्रत्यक्षप्रतिक्षेपः प्रेक्षाकारिणः कर्तुमुचितः ? तन्निर्णायकप्रमाणेनैव तद्गाधनात्। अथ सर्वज्ञत्वेन परैरभ्युपगतः पुमान् वर्द्धमानादिर्धर्मी, तर्हि किं तत्र साध्यम् ?-नास्तित्वम्, असर्ववित्त्वं वा ? न तावन्नास्तित्वं, तथाविधपुरुषमात्रसत्तायामुभयोरविवादात्, तथा व्यवहारपारमार्थिकापारमार्थिकत्व एव विप्रतिपत्तेः / असर्ववित्त्वं चेत्, कस्तत्र हेतुः?उपलब्धिः अनुपलब्धिर्वा उपलब्धिश्चेत्, अविरुद्धोपलब्धिः, विरुद्धोपलब्धिर्वा? अविरुद्धोपलब्धिस्तावद् व्यभिचारिणी, नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् / विरुद्धोपलब्धिस्तुकिं साक्षाद्विरुद्धोपलब्धिः, विरुद्धव्याप्तोपलब्धिः विरुद्धकार्योपलब्धिः, विरुद्धारणोपलब्धिः, विरुद्धसहचराद्युपलब्धिर्वा स्यात् ? नाद्या, सर्वज्ञत्वेन साक्षात् विरुद्धस्य किञ्जिज्झत्वस्य तत्र प्रसाधकप्रमाणाभावात् / नागेतनविकल्पचतुष्टयमपि घटामटाट्यते, प्रतिषेधस्य हि सर्ववित्त्वस्य विरुद्धं किञ्चिज्झत्वम् तस्य च व्यायं कतिपयार्थसाक्षात्कारित्वं कार्य, कतिपयार्थप्रज्ञापकत्वं कारणमावरणक्षयोपशमः, सहचरादिरागद्वेषादिकम्ः न च विवादोपादाने पुंसि तेषामन्यतमस्यापि किञ्चित्प्रमाणं तवास्ति, यतस्तदुपलब्धीनां सिद्धिः स्यात्। वकृत्वरूपा विरुद्धकार्योपलब्धिरस्त्येव तन्निषेधे साधनं साधिष्ठमिति चेत्। ननु कीदृग् वक्तृत्वमत्र विवक्षाचक्रे , यत्सर्ववित्त्वविरुद्धस्य कार्य स्यात् ?प्रमाणविरुद्धार्थवक्तृत्व, तदविरुद्धार्थवक्तृत्वं वक्तृत्वमात्रं वा ? आद्यभिदायाम् असिद्ध साधनम्, वर्द्धमानादौ भगवति तथाभूतार्थव~त्वाभावात् / द्वितीयभिदि तु, नेयं विरुद्धकार्योपलब्धिः, किन्तु कार्योपलब्धिरेव तद्विधिसाधनी, धूमध्वजसिद्धिनबन्धनोपन्यस्त धूमोपलब्धिक्त्, तथा च विरुद्धो हेतुः / तृतीयभेदे त्वनेकानतः, वक्तृत्वमात्रे सर्ववित्त्वकार्यत्वस्याविरोधात् / अनुपलब्धिरपि विरुद्धानुपलब्धिः, अविरुद्धानुपलब्धिर्वा? विरुद्धानुपलब्धिस्तावद्विधिसिद्धावेव साधीयस्तां दधाति, अनेकान्तात्मकं वस्तु, एकान्तस्वरूपानुपलब्धेः, इत्यादिवत् ।अविरुद्धानुपलब्धिरपि स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, सहचराद्यनुपलब्धिर्वाऽभिधीयेत? स्वभावानुपलब्धिरपि सामान्येन, उपलब्धिक्षणप्राप्तत्वविशेष्ज्ञणा वा व्याक्रियेत ? पौरस्त्या तावन्निशाचरादिना व्यभिचारिणी / द्वितीया पुनरसिद्धा, सर्ववित्त्वस्य स्वभावविप्रकृष्टत्वात् / व्यापकानुपलब्धिप्रभृतयोऽपि विकल्पा अल्पीयांसः यतः सर्ववित्त्वस्य व्यापकं सकलार्थसाक्षातकारित्वं कार्यमतीन्द्रियवस्तूपदेशः, कारणमखिलावरणविलयः, सहचरादि क्षायिकचारित्रादिकम्, न च तत्र तदनुपलब्धीनां सिद्धौ साधन किञ्चित्तेऽस्ति, इत्यसिद्धा एवामः। अथ सर्वज्ञादन्यः कश्चिद्धर्मी, तर्हि तस्यासर्ववित्त्वेसाद्ध्ये सिद्धसाध्यता, तन्नानुमानं तद्भाधकम् नापिशाब्दम् यतस्तदपौरुषेयं, पौरुषेयं वा स्यात् ? न तावदपौरुषेयम्, अपौरुषेयत्वस्य वचस्सु सम्भवाभावात्। पौरुषेयमपि केवलालोकाकलितपुरुषप्रणीतं, तदितरपुरुषप्रणीतं वा ? | आद्या कथं बाधक ?, विरोधात्। द्वितीये त्वसौ पुरुषः केवलालोकविकलाः सकलाः पुरुषपर्षदः प्रेक्षते, न वा? प्राच्यपक्षे, कथंतत्प्रतिषेधः? तस्यैवतदाकलितत्वात्। द्वितीयेऽपि क थन्तराम् तत्प्रणीतशब्दस्य पांशुलपादकोपदिष्ट शब्दस्येव प्रमाणत्वासम्भवात् / / नाप्यर्थापत्तिस्तदाधिका, तदभावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कनिष्ट कितस्यार्थस्य कस्यचिदसत्त्वात् / / नाप्युपमानं, तस्य सादृश्यमात्रगोचरत्वात् / तन्न भावरूपं प्रमाण तद्वाधबद्धकक्षम्।। नाप्यभावरूपम् तस्य सत्तापरामर्शिप्रमाणपञ्चकाप्रवृत्तौ सत्यां भावात्। न चासौ समस्ति विवादास्पदं कस्यचित्प्रत्यक्षं, प्रमेयत्वात्पटवत्, इति तद्ग्राहकानुमानस्य प्रवृत्तेः / प्रवृत्तेः / तत्र बाधकभावात् सकलप्रत्यक्षाऽभावः / नापि साधकाभावाद, अनुमानस्यैव तत्साधकस्येदानीमेव निवेदनात् / इति सिद्ध करतलकलितनिस्तुलस्थूलमुक्ताफलायमानाकलितसकलवस्तुविस्तारं केवलनामधेय संवेदनम्। इति सिद्धमेव केवलज्ञानम्॥२३॥ रत्ना०२ परि०। (अह दिङ्मात्रमुपदर्शितं, विस्तरस्तु सर्वज्ञसिद्धिप्रक्रियाऽवसरे वक्ष्यते मतिज्ञानादिज्ञानचतुष्कभणनानन्तरम्) (5) इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयन्नाहअह सव्वदव्वपरिणा-मभावविण्णत्तिकारणमनंतं। सासयमप्पडिवाई, एगविहं केवलं णाणं / / 823 // अथशब्द इहोपन्यासार्थः, पूर्वसमुद्देशसूत्रे मनःपर्यायानन्तरं केवलज्ञानमुपन्यस्तं, तत्संप्रति तात्पर्यनिर्देशार्थमुपन्यस्यते, इति पठितश्चाप्युपन्यासार्थोऽथशब्दः / यत उक्तम्-'अथ प्रक्रियाप्रआनन्तर्थमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्विति / सर्वाणि च तानिद्रव्याणि च जीवादीना, तेषां परिणामाः प्रयोगविस्र सोभयजन्या उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामाः, तेषां भावः सत्ता स्वलक्षणं स्वं स्वमसाधारण रूपं. तस्य विशेषेण ज्ञापनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः,परिच्छेद इत्यर्थः / तस्याः कारणं हेतुः सर्वद्रव्यपरिणामविज्ञप्तिकारणं, केवलज्ञानमिति संबध्यते। उक्तंच
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy