________________ केवलणाण ६४३-अभिधानराजेन्द्र-भाग 3 केवलणाण प्रादुर्भाव मत्यादीनलामसंभवात् / ननु पुनः कथमसंभवः ? यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्पन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति ? चारित्रपरिणामत्रत्। उक्तं च "आवरणदेसविगमे, जाइं विजंति मइसुयाईणि। आवरणसव्वविगमे, कह ताइन होति जीवस्स?"||१|| उच्यते-इह जात्यस्य मरकतादिमणेमलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च क्वचित्कदाचित्कथञ्चिद्भवति इत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालावलम्बिनिखिलपदार्थपरिच्छेदरकरणैकपारमार्थिकस्वरूपस्याप्याऽऽवरणमलपटलतिरोहितस्वरूपस्य यावन्नाद्यापि निखिलकर्म-मलापगमस्तावद्यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुघुम्भते,साच क्वचित्कदाचित्कथञ्चिदित्यनेक-- प्रकारा। उक्तं च-"मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारतः / कर्मविद्धाऽऽत्मविज्ञप्तिस्तथाऽनेक प्रकारतः"।।१11 सा चानेक प्रकारतः मतिश्रुतादिभेदेनावसेया। ततो यथा मरकतमणेरयशेषमला-पगमसंभवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाऽभिव्यक्तिरुपजायते, तद्वदात्मनोऽपि ज्ञानदर्शन चारित्रप्रभावतो निःशेषाऽऽवरणप्रहाणादशेश्ज्ञदेशज्ञानव्यवच्छेदेनैकरूपा अतिपरिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञपितरुल्लसति / तथा चोक्तम्-"यथा जात्यस्य रत्नस्य, निःशेषमलहानितः / स्फुटेकरूपाभिव्यक्ति विज्ञप्तिस्तद्वदात्मनः"||१|| ततो मत्यादिनिरपेक्षं केवलज्ञानम् / नं०। तथा चागमः --"केवली णं भंते ! आयाणेहिं जाणइ पासइ ? गोयमा! नो इणढे समठे। से केण?णं ? / गोयमा ! केवली णं पुरच्छिमेणं मियं पिजाणइ, अमियं पि जाणइ० जाव निव्वुडे दंसणे केवलिस्स से तेणटेणं जीवाण य सुहं दुक्खं जीवे जीवइ तहेव भक्यिा य एगंतदुक्खवेयण अत्तमाया य केवली, सेवं भंते त्ति।" भ०६ श०१० उ० / अथ वा शुद्धं केवलं, तदाऽऽवरणमलकलङ्कस्य निःशेषतोऽभ्युपगमात, सकलं वा केवलं, प्रथमत एवाशेषतदाऽऽवरणापगमतः संपूर्णोत्पत्तेः; असाधारणं वा केवलम्, अनन्यसदृशत्वात्, अनन्तं या केवलं, ज्ञेयानन्तत्वात्। केवलं चतज्झानं च केवलज्ञानम्। नं०। अथ किंस्वरूपं केवलज्ञानम् ? इत्याहस्वरूपमात्मनो ह्येतत्, किं त्वनादिमलाऽऽवृतम्। जात्यरत्नांशुवत्तस्य, क्षयात्स्यात्तदुपायतः॥३।। स्वरूपं स्वभाव एव, अवधारणार्थस्य हिशब्दस्येह संबन्धात् कस्थेत्याह-आत्मनो जीवस्य एतत् केवलज्ञानम्। एतेन चेदमुक्तं भवतिनप्रतिवियोगमात्रं केवलज्ञानं, तस्याभावरूपत्वात्। नाप्यात्मनो भिन्नं, पुरुषान्तरज्ञानसंवेदनप्रसङ्गात् नापि समवायवशात् तत्र वर्तत इति समवायकृतो विशेषः, तस्यैकत्वेन सर्वत्र तद्वर्तनप्रसङ्गादिति / ननु यद्येतदात्मनः स्वरूपं तत्कुतः सदा नोपलभ्यते ?इत्यत्राह-किं तु केवलमनादिरप्राथम्यो योमलो ज्ञानावरणादिकर्मरूपः, तेनावृतमाच्छादितम्; अनादिमलावृतमिति कृत्वा सदा नोपलभ्यते / अनादित्वं च कर्ममलस्य प्रवाहापेक्षया, सादित्वे चास्य मुक्तस्येव बन्धाभावः स्यादिति / किंवदित्याहजात्यं प्रधानं यद्रत्नं माणिक्यमरकतादि, तस्यांशवः किरणास्त इव, जात्यरत्नांशुवत् तस्यानादिमलस्य, क्षयाद्विनाशात, स्यात्संजायते तत्केवलज्ञानम् / मलक्षय एव कथं स्यादित्याह उपायत उपायाद्धेतोः, सामायिकाभ्यासलक्षणात् / नन्वनादित्वादेव न युक्तोऽस्य कर्ममलवियोगो व्योमात्मनोरिव / नैवम्। अनादित्वेऽपि रत्नांशुमलसंयोगस्योपायतः क्षयदर्शनात्। आह च-"जह चह कंचणोवल-संजोगोऽणाइ संतइगओ वि। वोच्छिज्जाइ मुवायं, तह जोगो जीवकम्माणं // 3 // " नन्वाऽऽत्मस्वरूपत्वेऽपीदं केवलज्ञानं कथं लोकालोकप्रकाशकमित्यत आहआत्मनस्तत्स्वभावत्वा-ल्लोकालोकप्रकाशकम् / अत एव तदुत्पत्ति-समयेऽपि यथोदितम्॥४॥ आत्मनो जीवस्य, तल्लोकालोकप्रकाशनं, स्वभावो यस्य स तथा, तद्भावस्तत्त्वं,तस्मात्तत्स्वभावत्वात् लोकालोकप्रकाशकंसकलपदार्थसार्थाविर्भावकमित्यर्थः, के वलमिति प्रकृतम् / ननूत्पत्तिसमये तद्यथोक्तप्रकाशं न संगतम्, उत्पद्यमानत्वात् दीपादिरिव। दीपो हि क्रमेण स्वप्रकाश्य प्रकाशयतीत्यत आह (अत एवेति) यत एव तल्लोकालोकप्रकाशकस्वभावात्मरूपम् अत एव कारणात्तत्केवलज्ञानमुत्पत्तिसमयेऽपि प्रादुर्भावक्षणेऽपि, आस्तामुत्पत्तिसमयानन्तरम् / यथोदितमुक्तस्वरूपमेव, युगपल्लोकालोकप्रकाशकमित्यर्थः / / 4 / हा०३अष्ट० / सम्भ०। (3) तल्लक्षणम्। सकलप्रत्यक्ष लक्षयन्तिसकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयाऽपेक्ष निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानमिति।२३। सामग्री सम्यग्दर्शनादिलक्षणाऽन्तरङ्गा तु बहिरङ्गा तु जिनकालिकमनुष्यभवादिलक्षणा, ततः सामग्रीविशेषात्प्रकर्षप्राप्तसामग्रीतः, समुद्भूतो यः समस्तावरणाक्षयः सकलघातिसंघातविघातः, तदपेक्षं सकलवस्तुप्रकाशस्वभावं, केवलज्ञानं ज्ञातव्यम्। (4) केवलज्ञानस्य सिद्धिः-- यस्तु नैतदमस्त मीमांसकः, मीमांसनीया तन्मनीषा / तथाहि बाधकभावात्साधकाभावाद्वा सकलप्रत्यक्षप्रतिक्षेपः ख्याप्येत आद्यपक्षे प्रत्यक्षम्, अप्रत्यक्ष वा बाधकमभिदाः ? प्रत्यक्षं चेत्पारमार्थिकं, सांव्यवहारिकं वा ? पारमार्थिकमपि विकलं, सकलं वा ? / विकलमप्यवधिलक्षणं, मनःपर्यायरूपं वा? नैतत्पक्षद्वयमपि क्षेमाय, द्वयस्यास्य क्रमेण रूपिद्रव्यमनोवर्गणागोचरत्वेन तद्वाधनविधावधीरत्वात्। सकलं चेत्, अहो ! शुचिविचारचातुरी, यत्केवलमेव केवलप्रत्यक्षस्यास्याभावं विभावयतीति वक्षि, वन्ध्याऽपि प्रसूयतामिदानीं स्तनन्धयान्, बान्ध्येयोऽपि च विधत्तामुत्तंसान् / सांव्यवहारिकमप्यनिन्द्रियोद्भवम्,इन्द्रियोद्भवं वा ? न तावत् प्रथमम्, अस्य प्रातिभाऽतिरिक्तस्य स्वात्माविष्वग्भूतसुखादिमात्रगोचरत्वात्। प्रातिभं तु तद्बाधक नानुभूयत एव। ऐन्द्रियं तु स्वकीयं, परकीयं वा ? / स्वकीयमपीदानीमत्र तदाधेत, सर्वत्र वा ? प्राचि पक्षे पिष्टं पिनष्टि भवान्, तथा तदभावस्यास्माभिरष्यभीष्टः / द्वितीये तु सर्वदेशकालानाकलय्येदं तदभावमुद्भावयेत्, इतरथा वा? आकलय्य चेदाकालं नन्दताद्भवान, भवत्येव सकलकाल-कलाकलापाशेषदेशविशेषवेदिनि वेदनस्य तादृशप्रसिद्धेः / अनाकलय्य चेत्, कथं सकलदेशकालाऽनाकलने सर्वत्र सर्वदा वेदनं तादृक् नास्तीति प्रतीतिरुल्लसेत्, परकीयमपीदानीमत्र