SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ केलास ६४२-अमिधानराजेन्द्र-भाग 3 केवलणाण 5 ठा०३ उ० / अनुबेलन्धरनागराजभेदे, तदावासपर्वते च / स्था०४ ठा०२ उ० / भाजनविशेष, तैलकैलासो राष्ट्रप्रसिद्धो मृण्मस्तैलभाजनविशेषः / नि०३ वर्ग। ज्ञा०। नन्दीश्वरस्थे तदधि पदेवे, सू० प्र०१० पाहु० / राहुमण्डलस्थे नवमे कृत्स्ने पुद्गले. सू० प्र०२० पाहु०। चं० प्र०। साकेतनगरे जाते स्वनामख्याते गृहपतौ, तत्कथा अन्तकृद्दशासु षष्ठे वगै सप्तमेऽध्ययने सूचिता / यथा-स च साकेतनगरे जातस्तत्रैव श्रीवीरान्तिके प्रव्रज्य द्वादश वर्षाणि प्रव्रज्यापर्यायं परिपाल्य विपुले सिद्धः / अन्त०६ वर्ग। केलाससम-त्रि०(कैलाससम) कैलासपर्वततुल्ये, उत्त०८ अ०। "सुवन्नरुप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया"।।४८|| उत्त०६ अ०। केलि-पुं०,स्त्री०(केलि) केल इन्। द्यूतक्रीडादिकायां क्रीडायाम्ध०२ अधि०। प्रव० / जी०। परिहासे, बृ०१ उ० नर्मणि, कामे च। औ०। "विहारे सह कान्तेन, क्रीडितं केलिरुच्यते।" पृथिव्याम्, वाचा केली-स्त्री०(कदली) “वा कदले" ||8111167 / / इति आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद्वा। रम्भायाम् प्रा०१ पाद। केवइय-त्रि०(कियत्) किंपरिमाणे, भ०६ श०१ उ०। कियत्संख्याके, "केवइया णं भंते ! दीवसमूहा पण्णत्ता।" जी०३ प्रति० / "ओभासति केवतियं, सेयाए किं ते संठिती।" सू०प्र०१ पाहु० "केवइयं कालं ति" कियता कालेन निर्वय॑ते। भ०१२श०४ उ०। कतिकालंयावति इत्यर्थे, स्था०३ ठा०१ उ०। केवट्ट-पुं०(कैवर्त्त) स्त्री०। के जले वर्तते वृत् अलुक्स-मासः। ततः स्वार्थे अण्। "तस्याधूर्ताऽऽदौ"||२२३०। इति तस्य ट्टः। 'केवट्टो'। प्रा०१ पाद / धीरवरजातौ, वाच०! केवडिय-(देशी) रूपके, बृ०१ उ०। केवल-न०(केवल) केवृ सेवने, वृषा० कल। शिरसि बलयति चुरा० बल | प्रापणे अच् / वाच० / संपूर्णे, आ०चू०३ अ० / परिपूर्णे, नि०१ वर्ग। विशे०। स्था०। ज्ञा०। अनु०। भ० / अनन्ते, एकस्मिन् स्था०३ ठा०४ उ० / असहाये, स्था०२ ठा०१ उ०। पा०। दशा०। औ०। आ०म०। कर्म०। अद्वितीये, भ०६ श०३३ उ०। ज्ञा०। शुद्धे अन्यपदार्थासंसृष्टे, दश०४ अ०। केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइज्जा" केवला शुद्धा संपूर्णां वा, अनगारतामिति योगः। भ०६ श०३१ उ० / केवलमाण' शब्दे दर्शयिष्यमाण-स्वरूपे परिपूर्ण ज्ञाने, स्था०४ ठा०१ उ०। केवलकप्प-पुं०(केवलकल्प) केवलः परिपूर्णः कल्पत इति कल्पः, स्वकार्यकरणसामोपेतः। ततः कर्मधारयः। भ०३ श०१ उ०। ज्ञा० / स्था० / नि० / केवलकल्पे परिपूर्णे, भ०६ श०५ उ० / "केवलकप्पं जंबूद्दीवं” जी०३ प्रति० / केवलकप्पा पुढवी चलेजा" केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः / परिपूर्णप्राया चेति। स्था०३ ठा०४ उ०। केवलक्खर-न०(केवलाक्षर) केवलज्ञाने, विशे०। केवलजुयलावरण न०(केवलयुगलावरण) केवलयुगलं केवलज्ञान- | केवलदर्शनरूपंतस्य आवरणे आच्छादके कर्मणि केवलज्ञानावरणकेवल दर्शनावरणद्विके, कर्म०५ कर्म० / केवलणाण-न०(केवलज्ञान) केवलणाणे दुविहे पन्नत्ते / तं जहा-- भवत्थकेवलनाणे चेव, सिद्धकेवलनाणेचेव"। (व्याख्याऽस्य स्वस्वस्थाने व्याख्यास्यते) स्था०२ ठा०१ उ०। कर्म० भ०। यथावस्थिताशेषभूतभवदभाविभावस्वभावावभासिनि, स्था०५ ठा०३ उ०। समस्तपदार्थाविर्भावके, सूत्र०१ श्रु०६ अ० 1 अनु० / प्रत्यक्षज्ञानभेदे, विशे०। (1) केवलज्ञानशब्दार्थनिरूपणम्। (2) केवलज्ञानस्वरूपनिर्वचनम्। (3) केवलज्ञानलक्षणम्। (4) केवलज्ञानस्य सिद्धिः। (5) केवलज्ञानस्य प्रतिपादनम्। (6) केवलज्ञानस्य साद्यपर्यवसितत्वनिरूपणम्। (7) अस्याप्राप्य विषयपरिच्छेदकत्वप्ररूपणम् / (8) केलज्ञानभेदाः। (e) सिद्धकेवलज्ञानस्य द्वैविध्यनिरूपणम्। (10) सिद्धस्वरूपनिरूपणम्। (11) समुत्पन्न केवलज्ञानस्य शब्देन देशनां ददतो न काऽपि क्षतिः। (12) सत्पदप्ररूपणा। (13) कीदृशं केवलज्ञानं भवति। (14) केवलज्ञानदर्शनयोः प्रतिबन्धः। (1) अथ केवलज्ञानविषयं शब्दार्थमाहकेवलमेगं सुद्धं, सगलमसाहारणं अणंतं च / पायं च नाणसद्दो, नामसमाणाहिगरणोऽयं // 4 // केवलमिति व्याख्येयं पदम् / ततः केवलमिति कोऽर्थः ? इत्याह-- एकमसहायम्, इन्द्रियादिसाहाय्यानपेक्षित्वात्, तद्भावे शेषछाद्यस्थिकज्ञाननिवृत्तेर्वा / शुद्ध निर्मलं, सकलावरणमलकलङ्कविगमसंभूतत्वादिति। सकलं परिपूर्ण, संपूर्णज्ञयग्राहित्वात्। असाधारणमनन्यसदृशं, तादृशापरज्ञानाभावात् / अनन्तम्, अप्रतिपातित्वेनाविद्यमानपर्यन्तत्वात् / इत्येकादिष्वर्थेषु केवलशब्दोऽत्र वर्तते। केवलं च तद्ज्ञानं च के वलज्ञानमिति समासः / आह-नन्वाभिनिबोधिकादीनि ज्ञानवाचकानि नामान्येव भाष्यकृता “अत्थाभिमुहो नियओ" इत्यादौ सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न क्वचिदुपात्तः, स कथं लभ्यते ? इत्याशङ्कयाह (पायं चेत्यादि) प्रक्रमलब्धो ज्ञानशब्द आभिनिबोधिकश्रुतादिभिर्ज्ञानाभि-धायकै मिभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एव / तद्यथा-आभिनिवोधिकंच तद् ज्ञानं च, श्रुतं च तज्झानं चेत्यादि। क्वचिद्वैयधिकरण्यसमासोऽपि संभवतीति प्रायो ग्रहणम् / स च मनः पर्यायज्ञाने दर्शित एव / अन्यत्रापि च यथासंभवं द्रष्टव्यम्। इति गाथार्थः / / 84 // विशे। बृ० / आ०म० नं० (2) केवलज्ञानस्वरूपनिर्वचनम् - के वलमे कमसहायं, मत्यादिज्ञाननिरपेक्षत्वात्। के वलज्ञान
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy