________________ ६२०-अमिधानराजेन्द्र-भाग 3 शार्दाधिकानिऊौं गतः, अस्य द्विकेन भागे लब्धाः षट्क्रोशाः, क्रोशस्य च पादः, एतावन्मूलव्यासात् शोध्यते, शेषं पञ्च योजनानि सपादक्रोशोनानि, इयान्मध्यभागे विष्कम्भः एवमन्यत्रापि प्रदेशे भाव्यम्। इमे चावरोहावरोकरणे, शेषेषु वैताठ्यकूटेषु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्राड्डेषुचहरिस्सहादिकूटेषु अष्टयोजनिकेषु ऋषभकूटेषु अवतारणीये वाचनान्तरोक्तमानापेक्षया तु-ऋषभकूटेषु करणं जगतीवदिति। अस्य पदावरवेदिकादिवर्णनायाह-'तेणमित्यादि' व्यक्तम्। अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह–'सिद्धायतण इत्यादि' प्राग्वत्। अथात्र जिनगृहवर्णनायाऽऽह(तस्स णमि-त्यादि) तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे इत्र महदेकं सिद्धानां शाश्वतानामर्हत्प्रतिमानामायतनं स्थानं, चैत्यमित्यर्थः / प्रज्ञप्तम् क्रोशमायामेनाद्धक्रोश विष्कम्भेन देशोनं क्रोशमूर्बोचत्वेन, देशश्चात्र षष्ट्यधिकपञ्चशतधनूरूप इति / यत उक्तम्-'वीरंजय सेहरे' त्यादि क्षेत्रविचारस्य वृत्तौ"ताणुवरि चेइहरा, दहदेवीभवणतुल्लपरिमाणा" इत्यस्याः गाथाया व्याख्यने तेषां वैताट्यकूटानामुपरि चैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणनितन्ते, यथा श्रीगृहंक्रोशैकदीर्घक्रोशार्द्धविस्तारं चत्वारिंशदधिकचतुर्दशशतधनुरुचमिति / तथा-अनेकेषु स्तम्भशतेषु संनिविष्ट, तदा-धारकत्वेन स्थितमित्यर्थः / तथा-स्तम्भेषु उद्गता संस्थिता सुकृतेव सुकृता निपुणशिल्परचितेवेति भावः / ततः पदवयस्य कर्मधारयः। तादृशी वजा वेदिका द्वारशुण्डिकोपरि वज्ररत्नमयी वेदिका तोरणं च स्तम्भोद्गतसुकृतं यत्र तत्तथा। तथा वराः प्रधानाः रतिदाः नयनमनः सुखकारिण्यः सालभजिका येषु ते तथा, सुश्लिष्ट संबद्धं विशिष्ट प्रधानं लष्ट मनोज्ञं संस्थितं संस्थानं येषां ते तथा। ततः पदद्वयकर्मधारये तादृशाः प्रशस्ताः प्रशंसास्पदीभूता वैडूर्यविमलस्तम्भा यत्र तत्तथा। ततः पूर्वपदेन कर्मधारयः। तथा नानामणिरत्नानि खचितानि यत्र सनानामणिरत्नखचितः। निष्ठान्तस्य परनिपातः, भार्यादिदर्शनात्। तादृश उज्ज्वलो निर्मलो बहुसमोऽत्यन्त समः सुविभक्तो भूमिभागोयत्र तत्तथा। (ईहामिगेत्यादि) प्राग्वद् व्याख्येयं, नवरं मरीचिकवं चं किरणजालपरिक्षेपं विनिर्मुञ्चत्, तथा 'लाइ' नाम यद्भमर्गामयादिना उपलेपनम् 'उल्लोइअं' कुट्यानामालयस्य च सेटिकादिभिः संसृष्टीकरनणं 'लाउल्लोइअंताभ्यामिव महितं पूजितम् 'लाउल्लोइअमहि। यथा गोमयादिनोपलिप्त सेटिकादिना च धवलीकृतं यद् गृहादि सश्रीकं भवति तथेदमपीति भावः। तथां (जाव भया इति) अत्र यावत्कर-णात् वक्ष्यमाणयमिका राजधानी, प्रकरणगतसिद्धायतनवर्ण केऽतिदिष्टा, सुधर्मासभागमो वाच्यो, यावत् सिद्धायतनोपरिध्वजा उपवर्णिता भवति, यद्यप्यत्र यावत्पदग्राह्ये द्वारवर्णकप्रतिमावर्णकधूपकडुच्छकादिक सर्वमन्तर्भवति तथाऽपि स्थानाशून्यतार्थं किञ्चिल सूत्रे दर्शयति(तस्स णं सिद्धायतणस्स इत्यादि) तस्य सिद्धायतनस्य तिसृणां दिशा समाहारस्त्रिदिक् तस्मिन् / अनुस्वारः प्राकृतत्यात् / पूर्वदक्षिणोत्तरविभागेषु त्रीणि द्वाराणि प्रज्ञप्तानि, तानि द्वाराणि पञ्चधनुःशतान्यू र्वोचत्वेन अर्द्धतृतीयानिधनुःशतानि, विष्कम्भेण तावन्मात्रमेव प्रवेशेन अर्द्धतृतीयानि धनुःशतानीत्यर्थः / (से आवरकणगथूभिअगा इति) पदोपलक्षितो द्वारवर्णको मन्तव्यः, विजयद्वारवद्यावद्वनमालावर्णनम्। अत्रैव भूभागवर्णनायाह (तस्स णमित्यादि) सुगमम्। (सिद्धाययणस्स इत्यादि) तस्य बहुसम रमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महानेको देवच्छन्दको देवोपवेशनस्थानं प्रज्ञप्तः, अत्रानुक्ताऽपि आवामविष्कम्भाभ्यां देवच्छन्दकसमाना उचैस्त्वेन तु तदर्द्धमाना मणिपीठिका संभाव्यते। अन्यत्र राजप्रश्न्यादिषु देवच्छन्दकाधिकारे तथा मणिपीठिकाया दर्शनात्, तथा सूर्याभविमाने (तस्सणं सिद्धायतणस्स बहुमज्झदेसभाएएत्थणं महा एगा मणि पेढिया पण्णत्ता सोलस जोअणाई आयामविक्खम्भेणं अट्ठजो अणाइंउच्चतेणं ति) तथा विजयराजधान्यामपि (तस्स णं सिद्धाययणस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिमा पण्णता, दो जोअणाई आयामविक्खंभेणं जोअणं वाहल्लेणं सव्वमणिमया अत्था जावपडिरूवा इति)। सचदेवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि पञ्चधनुःशतान्यूोच्चत्येन सर्वात्मना रत्नमयः तत्र देवच्छन्दकाऽष्टशतमष्टोत्तरशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, जिनोत्सेधस्तीर्थकरशरीरोच्छ्रायः, तस्य च प्रमाणाम् उत्कृष्टतः पञ्चधनुःशतात्मकं, जघन्यतः सप्तहस्तात्मकम् / इह च पञ्चधनुःशतात्मकं गृह्यते, तदेव मात्रं प्रमाण यासांतास्तथा, तासांतथा जगत्स्वाभाव्यात, देवच्छन्दकस्य चतुर्दिक्षु प्रत्येक सप्तविंशतिभागेन सन्निक्षिप्तं तिष्ठन्ति। ननुपावर वेदिकादय इव शाश्वतभावरूपा जिनप्रतिमा भवन्तु, परं प्रतिष्ठितत्वाभावेन तासामाराध्यत्वं कथमिति चेत् ? उच्यते-शाश्वतभावा इव शाश्वतभावरूपा जिनप्रतिमा भावधर्मा अपि सहजसिद्धा एव भवन्ति, तेन शाश्वताः प्रतिमा इव शाश्वतप्रतिमा धर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति किं प्रतिष्ठापनान्तरविचारेण / ततः शाश्वतप्रतिमासुसहजसिद्धमेवाराध्यत्वमिति न किञ्चिदनुपपन्नमिति / अत्र प्रतिमानामुत्सेधाङ्गुलमानेन पञ्चधनुःशतप्रमाणानां प्रमाणाड्गुलमानेन पञ्चधनुःशतायामविष्कम्भे देवच्छन्दकेऽनवकाशचिन्ता न विधेयेति। अत्र प्रतिमावर्णकसूत्रम(तासिणं जिणपडिमाणं) अयमेयारूवे वण्णवासे पण्णत्ते / तं जहा-तवणिजमया हत्थतलपायतलाअंकामयाइणक्खाइं अंतो लोहिअक्खपडिसेगाई कणगामया पाया कणगामया गुप्फा कणगामईओ जंघाओ कणगमया जाणू कणगमयाओ ऊरू कणमईओ गायलट्ठीओ रिहामए मंसू तवणिजमईओ णाभीओ रिट्ठामईओ रोमराईओ तवणिज्जममया चुचू तवणिजमया सिरिवच्छा कणगमईओ बाहाओ कणगामईओ गीवाओ रिट्ठमयाई मंसूई सिलप्पवालमया ओट्ठा फलियामया दंता तवणिजमईओ जीहाओ तवणिज्जमया तालुआ कणगमईओ णासिगाओ अंतोलोहिअक्खपडिसेगाइओ अंकमयाइं अच्छीणि अंतोलोहिअक्ख-पडिसेगाई पुलगामईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छिपत्ताई रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियाओ बइरामईओ सीसघडाओ तवणिज्जमईओ के संतके सभूमिओ रिट्ठामया उवरि मुद्धया तासि णं जिणपडिमाणं पिट्ठओ पत्तेअंपत्तेअंछत्तधारपडिमापण्णत्ता,ताओ