SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६२१-अभिधानराजेन्द्र-भाग 3 कूड णं छत्तधारपडिमाओ हिमरययकुंदिंदुप्पगासाई सकोरंटमल्लदामांइ धवलाई आयवत्ताइंसलीलं ओहारेमाणीओ चिट्ठति। तासि णं जिणपडिमाणं उभओ पासिं पत्ते पत्तेअं दो दो चामरधरपडिमाओ पण्णत्ताओ, ताओ णं चामरधरपडिमाओ चंदप्पहवइरवेरुलि अणाणामणिकणगरयणखइअमहरिहतवणिजुज्जलविचित्तदंडाओ विल्लियाओ संखंककुंददगरयमयमहिअफेणपुंजसनिकासाओ सुहुमरययदीहवीलाओ धवलाओ चामराओ सलीलंधारेमाणीओ चिट्ठति। तासिणं जिणपडिमाणं पुरओ दो दो णागपडिमाओ दो दो जक्खपडिवाओ दो दो भूअपडिमाओ दो दो कुंडधारपडिमाओ विण ओणयाओ पायपडियाओ पंजलिउडाओ सन्निखित्ताओ चिट्ठति सव्वरयणमईओ अच्छाओ अच्छाओ सण्हाओ लण्हाओ घट्ठाओ मट्ठाओ नीरयाओ निप्पंकाओ० जाव पडिरूवाओ / तत्थ णं जिणपडिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं वंदणकलसाणं एवं भिंगाराणं आयंसगाणं थालाणं पाईणं सुपइट्ठगाणं मणगुलिआणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठाणं० जाव उसमकं ठाणं पुप्फचंगेरीणं० जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं० जाव लोमहत्थपडलगाणं।) (तासां जिनप्रतिमानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः। तद्यथातपनीयमयानि हस्ततलपादतलानि, तथा कनकमयाः पादाः, तथा कनकमया गुल्फाः, अङ्करत्नमया अन्तर्लोहिताख्यरत्नप्रतिसेकानम्नाः, कनकमय्यो जङ्घाः, कनकमयानि जानूनि, कनकमया उरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः रिष्टरतनमय्यो रोमराजयः, तपनीयमयाश्चुचुकाः स्त्नाग्रभागाः, तपनीयमयाः श्रीवक्षाः, तथा कनकमय्यो बाहवः, तथा कनकमय्यो ग्रीवाः रिष्टरत्नमयानि श्मश्रूणि, सिलप्रवालमया विद्रुममया ओष्ठाः, स्फटिकमया दन्ताः, तपनीयमय्यो जिहाः, तपनीयमयानि तालुकानि, कनकमय्यो नासिकाः, अन्तर्लो हिताख्यरत्नप्रतिसेकाः, अङ्कमयान्यक्षीणि अन्तर्लो हिताक्षप्रतिसेकानि, रिष्टरत्नमय्योऽक्षिमध्यगतास्तारिकाः, रिष्टरत्नमयान्यक्षिपत्राणि नेत्ररोमाणि, रिष्टरत्नमय्यो भूवः,कनकमयाः कपोलाः, कनकमयाः श्रवणाः, कनकमय्यो ललाटपट्टिकाः, वज्रमय्य शीर्षघटिकाः, तपनीयमय्यः केशान्तकेशभूमयः, केशान्तभमयः केशभूमयश्चेति भावः / रिष्टरत्नमया उपरिमूर्द्धजाः केशः / ननु के शरहितशीर्षमुखानां भावजिनानां प्रतिरूपकत्वेन सद्भावस्थापना, जिनानां कुतः केशकूर्चादिसंभवः? उच्यते-भावजिनानामपि अवस्थितकेशादिप्रतिपादनस्य सिद्धान्तसिद्धत्वात्। यदुक्तं श्रीसमवायाने अतिशयाधिकारे"अवहिअके समंसुरोमणहं" इति / तथा औपपातिकोपाङ्गे "अवट्ठिअसुविभत्तचित्तमंसु" इति / अवस्थितत्वं च देवमाहात्म्यतः पूर्वोत्पन्नानां केशादीनां तथैवावस्थानं, नतु सर्वथाऽभाववत्वम्; इत्थमेव शोभाति रेकदर्शनं पुरुषत्वप्रतिपत्तिश्च, तेन प्रस्तुतेन तत्प्रतिरूपताव्याधातः / नन्वेवं सति अर्चनकेन किमालम्व्य तेषां श्रामण्यावस्था भावनीयेति चेत्, उच्यते-परिकमितरिष्टमणिमयतथाविधाल्पकेशादिरमणीयमुखादिस्वरूपमिति। यत्तु श्रीतपागच्छनायकश्रीदेवेन्द्रसूरिशिष्य श्रीधर्म धोषसूरिपादैर्भाष्यवृत्तौ भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवेत्यभिदधे, तदवर्द्धिष्णुत्वेनाऽल्पत्वेन चाभावस्य विवक्षणात;, श्रामण्यावस्थाया अप्रतिबन्धकत्वाचेति न किमप्यनुपपन्नम्।तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा प्रज्ञप्ता, ताश्च छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमाल्यदामानि धवलानि आतपत्राणि सलीलधारयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानमुभयोः पार्श्वयोः प्रत्येकं द्वे द्वे चामरधारप्रतिमे प्रज्ञप्ते , ताश्च चामरधारप्रतिमाः चन्द्रप्रभश्चन्द्रकान्तो, वजं हीरकमणिः, वैडूर्य च प्रतीतं, तानि शेषाणि च नानामणिरत्नानि स्वचितानि येषु दण्डेषु ते तथा, एवंरूपा महार्हस्य महाघस्य तपनी यस्य सत्का उज्ज्वला विचित्रा दण्डा येषु तानि तथा, (चिल्लियाउ इत्यादि) प्राग्वत्, नवरं (चामराउ त्ति) प्राकृतत्वात्स्त्रीत्वम्, चामराणि सलीलं धारयन्त्यो वीजयन्त्यस्तिष्ठन्ति। तासां जिनप्रतिमानांपुरतोद्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमे आज्ञाधारप्रतिमे विनयावनते पादपतिते प्राञ्जलिपुटे संनिक्षिप्ते तिष्ठतः, ताश्च “सव्वरय-णा मईओ" इत्यादि प्राग्वत् (तत्थ णमित्यादि) तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानाम, अष्टशतं वन्दनकलशानां मङ्गल्यघण्टानाम् अष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठकानामष्टशतं मनोगुलिकानां पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकानामष्टशतं हयकण्ठानामष्टशत गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्ट शतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचोरीणामष्टशतं माल्यचोरीणामष्टशतं चूर्णचोरीणामष्टशतं गन्धचगेरीणामष्टशतं वस्त्रचोरीणामष्टशतमाभरणचगेरीणामष्टशतं सिद्धार्थकचङ्गेरीणामष्टशतं लोमहस्तकचड्गेरीणां, लोमहस्तका मयूरपिच्छपुजनिकाः, अष्टशतंपुष्पपटलकानामष्टशतं माल्यपटकानां मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि, अष्टशतं चूर्णपटलकानाम्, एवं गन्धवस्त्राभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं द्रष्टव्यम्। अष्टशतं सिंहासनानामटशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोअकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्ट शतं हरितालसमुद्गकानामष्ट शतं हिड्गुलकसमुद्गकानामष्टशतं मनःशिलासमुद्रकानामष्टशतमञ्जकनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानाम्। अत्र संग्रहणिगाथे"वंदणकलसा भिंगा-रगा य आयंसगा य थालाय। पाई उ सुपइहा, मणुगुलिया वायकरगा य / / 1 / / चित्ता रयणकरंडय-हयगयनरकंठगा य चंगेरी। पडलगसीहासणछ-त्तचामरा समुग्गयझया य" / / 2 / / अष्टशतं धूपकडुच्छुकानां सन्निक्षिप्तं तिष्ठति। उक्ता सिद्धायतनकूटवक्तव्यता। अथ दक्षिणा भरतकूट स्वरूपं पृच्छन्नाह - (कहि णमित्यादि) अत्र सर्वाऽपि पदयोजना सुगमा, नवरं प्रासा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy