________________ ६१८-अमिधानराजेन्द्र-भाग 3 ग्राह्यम्, शेषं स्पष्टम्। अथात्र पद्मवरवेदिकाद्याह-से णमिस्यादि प्रकटम, अत्र यदस्तितत्कथनायोपक्रमतेसिद्धायतनमित्यादिनिगदसिद्धम्, नवरं प्रथमयावत्पदेन वैताढ्यगतसिद्धायतनकूटस्यैवात्र वर्णको ग्राह्यः, द्वितीयेन तद्गतसिद्धायतनादिवर्णक इति। अथात्रैव क्षुद्रहिमदिगरिकूटवक्तव्यमाह-(कहि णमित्यादि) क भदन्त ! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत् कूटं नाम कूटं प्रज्ञप्तम् ? गौतमेत्यादि उत्तरसूत्रं प्राग्वत्, नवरं "एवं जो चेत्यादि" अतिदेशसूत्रे एवमित्युक्तप्रकारेण य एव सिद्धायतनकूटस्योच्चत्वविष्कम्भाभ्यां युक्तः परिक्षेपः उच्चत्वविष्कम्भपरिक्षेपे मध्यमपदलोपी समासः, स इहापि हिमवत्कूटे बोध्य इत्यर्थः / इदंचवचनं उपलक्षणभूतं, तेन पद्मवरवेदिकादिवर्णनसमभूमि-भागवर्णनं च ज्ञेयम्। कियत्पर्यन्तमित्याह-यावद्हुसमरमणीयस्स भूमिभागस्य बहुमध्यदेशभागे, अत्रान्तरे महानेकः प्रासादावतंसकः प्रज्ञप्तः / प्रसादानाम् आयामाद् द्विगुणोच्छ्रितवास्तुविशेषाणामवतंसक इव शेखरक इव प्रासादावतंसकः प्रधानप्रसाद इत्यर्थः। स च प्रासादोद्वाषष्टि योजनान्यद्धयोजनं च उच्चत्वेन एकत्रिंशद्योजनानि क्रोशं च विष्कम्भेण समचतुरस्त्रत्वादस्यायामचिन्ता सूत्रकृता न कृता, तत्र हेतुर्वैताढ्यकूटगतप्रासादाधिकारे निरूपित इतिततोज्ञेयः। कीदृश इत्याह-अभ्युद्गता अभिमुखेन सर्वतो विनिर्गता उत्सृता प्रबलतया सर्वासु दिक्षु प्रसूता। यद्वा-अभ्रे आकाशे उद्गता उत्सृता प्रबलतया सर्वतस्तिर्यक् प्रसृता एवंविधा या प्रभा तथा सित इव बद्ध इव, तिष्ठतीति गम्यते / अन्यथा कथमिवासावत्युचैर्निरालम्बस्तिष्ठतीति भावः / अत्र हि उत्प्रेक्षया इदं सूचितं भवतिऊर्द्धमधस्तिर्यक् आयततया याः प्रासादप्रभास्ताः किल रज्जवस्ताभिर्बद्ध इति / यदि वा प्रबलश्वेतप्रभापटलतया प्रहसित इव प्रकर्षेण हसित इवेति / विविध अनेकप्रकारा ये मणयो रत्नानि च, मणिरत्नयोर्भेदश्चात्र प्राग्वत् / तेषां भक्तिभिः छित्तिभिश्चित्रो नानारूप आश्चर्यवान्वा। वातोद्भूता वायुकम्पिता विजयोऽभ्युदयः, तत्संसूचिका वैजयन्तीनाम्न्यो याः पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते, तत्प्रधाना वैजयन्त्यः पताकाः, ता एव विजयावर्जिता वैजयन्त्यः, छत्रातिच्छत्राण्युपर्युपरिस्थितान्यातपत्राणि तैः कलितं तुङ्गम् उच्चस्त्वेन सार्धद्वाषष्टियोजनप्रमाणत्वात् / अत एव गगनतलमभिल-डच यदनुलिखच्छिखरं यस्य स तथा, जालानि जालकानि गृहभित्तिषु लोके यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि रचना वा यस्मिन् स तथा, सूत्रे च विभक्तिलोपः प्राकृतत्वात्। पञ्जरादुन्मीलित इव बहिष्कृत इव, यथा किमपि वस्तु वंशादिमयप्रच्छादनविशेषादहिष्कृतमत्यन्तमविनष्टप्रायं भवति एवं सोऽपि प्रासादावतंसक इति भावः / अथवा जालान्तरगतरत्नपञ्जरै रत्नसमुदायविशेषैः उन्मीलित इव, उन्मिषितलोचन इवेत्यर्थः / मणिकनकमयस्तूपिका इति प्रतीतम् / विकसितानि विकस्वराणि शतपत्राणि पुण्डरीकाणि च कमलाविशेषा द्वारादिषु तैश्चित्रो नानारूप आश्चर्यवान्वा, नानामणिमयचदामालकृत इति व्यक्तम्। अन्तर्बहिश्च श्लक्ष्णो मसृणः स्निग्ध इत्यर्थः / तपनीयस्य रक्तसुवर्णस्य सत्रिसया काकणिस्तासां प्रस्तटः प्रतरः प्राङ्गणेषु यस्य स तथा / शेषं पूर्ववत्। जं०४ वक्ष०। स्था०॥ महाहिमवतः कूटानिमहाहिमवंते वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! अह कूडा पण्णत्ता / तं जहा-सिद्धाययणकूडे, महाहिमवंतकूडे, हेमवयकूडे, रोहिअकूडं, हिरीकूडे, हरिकंतकूडे, हरिवासकूडे, वेरुलिअकूडे, एवं चुल्लहिमवंतकूडाणं जा वत्तव्यया साचेवणेअव्वा॥ (महाहिमवंते त्ति) महाहिमवद्वर्षधरपर्वते भगवन् कति कटानि ? गौतमेत्यादिसूत्रं सुगमम् / कूटानां नामार्थस्त्वयम्-सिद्धायतनकूट महाहिमवदधिष्ठातृकूटं रोहितानदीसुरीकूट हीसुरीकूट हरिकान्तानदीसुरीकूटं हरिवर्षपर्वतकूट, वैडूर्य कूटं तु तद्रत्नमयत्वात् तत्स्वामिकत्वाच्चेति। एवमिति कूटानामुच्चत्वादि सिद्धायतनप्रासादानां चानादित्वं ततस्वा-मिनां च यथारूपं महर्द्धिकत्वं यत्र च राजधान्यस्तत् सर्वमत्रापि वाध्यं, केवलं नामविपर्यास एव देवानां राजधानीनां चेति।०४ वक्ष० / भरते दीर्घवताढ्यपर्वतस्यजंबू ! मंदरदाहिणे णं भरहे दीहवेयड्ढे नव कूडा पण्णत्ता। तं जहा-"सिद्धे भरहे खंडगमाणी वेयड्डपुण्णतिमिसगुहा / भरहे वेसमणे य, भरहे कूडाण नामाई" ||1|| भरतग्रहणं विजयादिव्यवच्छेदार्थम, दीर्घग्रहणं यर्तुलवैताढ्यव्यवच्छेदार्थमिति। (सिद्धे त्ति) तत्र सिद्धायतनयुक्तं सिद्धकूट सक्रोशयोजनषट्कोच्छ्यमेतावदेव मूले विस्तीर्णम् एतदोपरि विस्तार क्रोशायामेनार्द्धकोशविष्कम्भेण देशोनक्रोशोचेनापरदिग्द्वारवर्गपञ्चधनुःशतोच्छ्रयं तदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभाग इति; तच वैताढ्ये पूर्वस्यां दिशि, शेषाणि तु क्रमेण परतस्तस्मादिवेति / भरतदेवप्रासादावतंस कोपलक्षितं भरतकूटम् (खंडग त्ति) खण्डप्रपाता नाम वैताढ्यगुहा, यया चक्रवर्ती अनार्यक्षेत्रात्स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसंबन्धित्वात्खण्डप्रपातकूटमुच्यते / (माणीति) मणिभद्राभिधानदेवावासत्वान्माणिभद्रकूटम् / (वेयड्ड त्ति) वैतादयगिरिनाथदेवनिवासात् वैताढ्यकूटमिति / (पुण्ण त्ति) पूर्णभद्राऽभिधानदेवनिवासात् पूर्णभद्रकूटम् / तिमिस्रगुहा, यथा स्वक्षेत्राचक्रवर्ती चिलातक्षेत्रं याति तदधिष्ठायकदेवावासात्तिमिसगुहाकूटमिति / (भरहे त्ति) तथैव वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति। स्था०६ ठा०। अथ यथोद्देशं निर्देश इति प्रथमं सिद्धायतनकूटस्थानप्रश्नमाहकहिणं भंते ! जंबुद्दीवे दीवे भारहे वासे वेयडपटवए सिद्धायतणकूडे णामं कूडे पण्णत्ते ? गोयमा ! पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं दाहिणड्डभरहकूडस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे वेअड्डे पव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते / छ सकोसाइंजोयणाई उड्ढे उच्चतेणं मूले छ सकोसाई जोअणाइं विक्खंभेणं मज्झे देसूणाइं पंच जोअणाई विक्खंभेणं उवरि साइरेगाइं तिणि जोअणाई विक्खंभेणं मूले देसूणाई वीसं जोअणाई परिक्खेवेणं मज्झे देसूणाई पण्णरस जोअणाई परिक्खेणं उदरि साइरेगाई णव जोअणाई परिक्खेवेणं मूले वित्थिपणे मज्झे संक्खित्ते उपिं तणुए गोपुच्छ संठाणसं ठिए सध्वरयणामए