SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ एगावाइ ४०-अमिधानराजेन्द्रः - भाग 3 एगाहच्च घटध्वंसो हि चूर्णाकारपरिणता मृदेव।नच चैतन्यस्य रूपान्तरम-ऽस्ति तस्मान्नास्त्येवाज्ञानध्वंसः किंत्वज्ञानस्य कल्पितत्वात्त-दत्यन्ताभाव एव तन्निवृत्तिः किं तर्हि तत्वज्ञानस्य साध्यमिति चेन्नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्ववाधव्यतिरेकेण तदुक्तं "तत्त्वमस्यादिवाक्योक्तसम्यग्धीजन्ममात्रतः / अविद्या सह कार्येण नासीदस्ति भविष्यतीति" शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एव क्रियते मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते तद्वदिहापि द्रष्टव्यम् सचायमधिष्ठानात्मक एव कयं तर्हि सर्वथा सत इच्छाप्रयत्नविति चेत्कण्ठगतचामीकरन्यायेनानवाप्तत्व भ्रमात्पुरुषार्थत्वंतु तत्राभिलषितत्वादेव कृतिसाध्यत्वस्य तत्र गौरवेणाप्रवेशा-चन्द्रामृतपानादौ पुरुषार्थत्वमिष्टमेव / प्रवृत्तिस्तु तत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् / कथं पुनदृष्टि सृष्टिवाद श्रवणादिपरिपाकजन्मना ज्ञानेनाज्ञानातिबाधः तथाहि तस्मिन् मते चैतन्यातिरिक्त पदार्थानामज्ञातसत्त्वं नातिमिथ्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात्तादृशस्यैव सत्त्व-स्याङ्गीकारात् / एवं च घटादीनां यदा प्रतीतिस्तदा सत्त्वं नान्यदेति न दण्डादिजन्यत्वं किंत्वज्ञानमात्रजन्यत्वं स्वप्नवच दण्डाद्युपादानम् / अज्ञानदेहादिकं तु भासमानमेव तिष्ठति अभाव-निश्चयाभावाश्च पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः प्रत्यभिज्ञानमपि भ्रम एव ततश्चाकाशादिक्रमेण सृष्टिः पश्च / करणं ब्रह्माण्डाधुत्पत्तिश्चैतन्मतेनास्त्येवघटादेरपरोक्षत्वं तत्तदध्यासादेव अधिष्ठान-स्य स्थानादेः सकलदृष्टि हे तोरङ्गीकाराच न बौद्धमतप्रवेशस्तदेव मज्ञानातिरिक्तकारणा भावात् कथं श्रवणादिजन्यं तत्त्वज्ञानमिति / अत्रोच्यते लोकेऽज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे यागस्वर्गादौ कार्यकारणदायिनायचेष्टाचरणप्रसङ्गात्तस्माद्घटादेरिवस्वर्गनरकादेज्ञिानमात्रजन्यत्वमपि तु विहित निषिद्धक्रियाजन्यत्वमपीति दृष्टाचुश्रविकत्वेऽर्द्धजरतीयं प्रामाणिकं नो वेदनात्मदृष्टिसृष्टरनवसानप्रसङ्गोऽधिष्ठानज्ञाने तदवसानमिति चेन्न तस्यैव हेतुत्वभावादज्ञानं तद्धेतुरिति चेन्न ततो दृष्टाकारणनिरपेक्षा तदुत्पत्या शमाद्यननुष्ठानप्रसङ्गात्।भ्रान्त्या शमाद्यनुष्ठानमिति चेन्नसत्तद्वेदान्तार्थश्रवणवतां तदभावप्रसङ्गात्। किं च भ्रमे ज्ञानमात्रजन्यत्वं युक्तम्। नन्वधिष्ठानज्ञाने हि रजतभ्रमवच्छुक्तिज्ञाने शुक्त्यज्ञानजन्यत्वं तदवश्यं दृष्टिसृष्टिपक्षे लोकेऽज्ञानातिरिक्तकारणाभावेऽपि वेदेयागादौ स्वर्गादिसाधनता संमतैव ततश्च यागादेः स्वर्गादिसाधनत्वं प्रतीत्य यागमनुतिष्ठता-मुत्पन्नस्य स्वर्गसूक्ष्मरूपस्य वाऽपूर्वस्य साक्षिसिद्धस्य स्वर्ग-जनकत्वमपूर्वस्य साक्षिसिद्धत्वं नानुभूयत इति चेन्नाज्ञात-सत्वानङ्गीकारेण ज्ञानकारणताया इवापूर्वस्य साक्षिसिद्धता-ऽभ्युपगमस्यावश्यकत्वाच्च यागादेः स्वर्गादिजन्मवत् श्रवणमननादिसहजकृतवेदान्तवाक्यात्तत्वज्ञानोत्पत्तिरविरुद्धा / दृष्टिसृष्टिवादे इश्वरो नास्तीति तत्त्वमसीत्यत्र कथं तद्भेदप्रतीरिति चेत् कुत एतदवगतं सर्वदाऽप्रतीतेरिति चेत्तर्हि जीवोऽपि नास्त्येव चिद्रूपतया भासमानत्वमप्युभयत्र तुल्यमीश्वरत्वं सदान भासत इति चेजीवत्येऽपि तुल्यमेतत् उभयमपि तर्हि नास्त्येवेति चेन्न साक्षित्वस्यानुभवसिद्धत्वात् घटकाज्ञाने शक्तिद्वयस्यावश्यकत्वेन तदर्भजीवत्वेश्वरत्वयोरनादित्वस्य यौक्तिकत्वात्तयोरभेदानुप-- पत्तेलक्षणयाऽद्वये चिन्मात्रधीवक्तव्या तस्माद् दृष्टि सृष्टिवादेऽपि यथोक्तानुष्ठानानुभवस्तत्वज्ञानादखण्डानन्दब्रह्मस्वरूपा मुक्तियुक्तिवत्तदेतच्छुद्धद्रव्यास्तिकप्रकृतिकाप्रकृतिकमतद्वयं पर्यायार्थिकनययुक्तिभिर्निर्लोचनीयमवतारणीयं च स्याद्वादे / / 110 / / नयो०। (पर्यायास्तिकनयमतेनाद्वैतवादे दोषाः सम्मतितर्के) एगासण-न० (एकाशन) एकं सकृदशनं भोजनमेकं चासनं पुताऽचालनतो यत्र तदेकाशनमेकासनं च / प्राकृते द्वयोरपि एगासण मिति रूपम् / प्रत्याख्यानभेदे, अथैकाशनप्रत्याख्यानं तत्राष्टा-वाकाराः स्तद्यथा। एगासणं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइम साइमं अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउट्ठण-पसारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्ति-आगारेणं वोसिरइ॥ एकंसकृदशनं भोजनमेकं चासनं पुताऽचालनतो यत्रतदेकाशनमेकासनं च प्राकृतेद्वयोरपिएगासणमिति रूपं तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः / अत्राधावन्त्यौ च द्वावाकारौ च पूर्ववत् "सागारियागारेणं" सह आगारेण वर्तते इति सागारः स एव सागारिको गृहस्थः। स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते प्रवचनोपघातसंभवात् / अत एवोक्तं "छक्कायदयावंतो, विसंजओदुल्लहं कुणइ वोहिं। आहारे नीहारे, दुगुछिए पिंडगहणे य" ततश्च भुजानस्य यदा सागारिकः समायाति स यदि चलस्तदा क्षणं प्रतीक्षते / अथ स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुजानस्यापिन भङ्ग गृहस्थस्य तु येन दृष्ट भोजनंन जीर्यति तदादिः (आउंटणपसारेणं) आउण्टणमाकुञ्चनं जजादेः संकोचनं प्रसारणं च तस्यैवाकुञ्चितस्य ऋजुकरणमाकुञ्चने प्रसारणे चासहिष्णुतया क्रियमाणे किंचिदासनं चलित ततोऽन्यत्र (गुरुअब्भुट्ठाणेणं) गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघूर्णकस्यवाऽभ्युत्थाने प्रतीत्यासमत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्राऽभ्युत्थानं चावश्यं कर्त्तव्य- त्वात्। भुञ्जानेनापि कर्तव्यमिति नतत्र प्रत्याख्यानभङ्गः1 (पारिद्वावणियागारेणं) साधोरेव यथा परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नं तदेव आकारः पारिष्ठापनिकाकारस्ततोऽन्यत्रतत्र हि त्यज्यमानेबहुदोषसंभवादा-श्रियमाणे चागमिकन्यायेन गुणसंभवाच्च तस्य गुज्ञिया पुनर्भुजानस्य तु न भङ्गः "विहिगहिअं विहिभुत्तं, उद्धरिअं जं भवे असणमाई / तं गुरुणाणुन्नायं, कप्पइ आयंबिलाईणं"श्रावकस्तुखण्डसूत्रत्वादुच्चरति (वोसिरइत्ति) अनेकासनमनेकाशनाद्याहारं च परिहरति ध०२ अधि०। आव०। आ०चूला एकाशने पण्डितकीर्तिगणिकृतप्रश्नो हीरप्रश्ने यथा प्रातःकृतद्विविधाहारैकाशनस्य श्राद्धस्य निशि द्विविधाहार-प्रत्याख्यानं शुध्यति न वेति अत्रोत्तरं शुध्यतीतिबोध्यम् / ही०। एगाह-पुं० (एकाह) एकमहः टच-समा० एकशब्दोत्तरत्वा-नाहाऽदेशः। "रात्राहाऽहाः पुंसि' इति पुंस्त्वम् एकस्मिन् दिवसे, वाचा(सेजं पुण विहं जाणेजा एमाहेण वा दुआहेण वा) आचा०२ श्रु०३ अ०१ उ०। एगाहन-त्रि० (एकाहत्य) एकैवाहत्याऽऽहननं प्रहारो यत्र / एकप्रहारोपेते, "एगाहचं कूडाहचं भासरासिं करेमि" एकैवाहत्याऽऽहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवमिति भ० 15 श०१ उ० / "एगाहचं कूडाहच्चं जीवियाओ ववरोवेइ" एकाहत्या हननं प्रहारो यत्र जीवितव्यपरोपणेतदेकाहत्थं तद्यथा भवतीतिभ०७ श०६ उ०। निर० /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy