SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ एगावाइ 39 - अभिधानराजेन्द्रः - भाग 3 एगावाइ शास्त्रेणानूद्यन्ते तत्वज्ञान् उपयोगित्वात् / फलवत्संनिधावफलं तदङ्ग मिति न्यायात् भूत-सिद्धस्यापि श्रुत्यानुवादनसंभवादेतेन द्वैतसमानाश्रयविषयत्व-नियमाजडे च प्रमाणाप्रयोजनाभावनाज्ञानानङ्गीकारात्तदवच्छिन्न-चैतन्याज्ञानादेव तत्राज्ञानाव्यवहारोपपत्तेः / प्रामाण्यस्य वा ज्ञात-ज्ञापकत्वरूपत्वादन्यथा स्मृतेरपि तदापत्तेरिति वेदान्तेषु सर्वत्रैवं विरोधेऽयमेव परिहारः / तदाह वार्त्तिककारः "यया यया भवेत्पुंसो व्युत्पत्तिः प्रत्यगात्मनि। सा सैव प्रक्रिया ज्ञेया साध्वी सा चानवस्थिते'' रिति श्रुतेस्तात्पर्यविषयीभूतार्थविरुद्धं मतं हेयमेवेतिनाति प्रसङ्गः। स च जीवोऽज्ञानबहुत्ववादिनां हिरण्यगर्भाविरादिभेदेनाज्ञानैक्येऽपि तत्तच्छक्तिभेदात्तदीयान्तःकरणभेदाता नानेत्यपिवदन्ति। तत्र तत्त्वज्ञानेन शक्तिरन्तःकरणस्य वा निवृत्तिरिति बद्धमुक्तव्यवस्था जीवभेद एव क्रममुक्तिफलानां हिरण्यगर्भाधुपासनावाक्यानां न तस्य प्राणा इत्यादीनां चाञ्जस्ये नोपपत्तिः एकजीवादेस्तूपासनावाक्यानां क्रममुक्तिफलश्रवणमर्थवादमानं क्रमेणैव मुक्त्यङ्गीकारे क्रममुक्तिफलानामुपानाबहुत्वेनैकस्यैव फलवत्त्वेऽपीतरेषु तच्छ्रवणस्यार्थवादताया आवश्यकत्वात्। फलवत्ता तु तासां सत्वशुद्धिराश्रयणाद्यधिकारोपयोगात् प्रमातृभेदाङ्गीकारात्तत्तत्फलभोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति तदेवं व्यवस्थितमेकानेकवादिनां जीवस्वरूपं तत्र चान्तः -करणमध्यस्यतेऽहमिति रज्वामिव सर्पः केवलस्य तस्य साक्ष्यभास्यत्वात् तत्कार्याकारपरिणतस्यैव साक्षिणो भानमित्यहमाकारेण परिणतस्य तस्याध्यासोऽयमहंकाराध्यास इति गीयते / अयं च न सोपाधिक उपाधेरभावादहमज्ञ इति त्वहंकाराज्ञानयोरेकचैतन्याध्यासादग्धत्वायसोरेकवह्निसंबन्धा-दयोदहतीतिवत् / तच्चान्तः करणं स्मृतिप्रमाणवृत्तिसंकल्प-विकल्पाहेवृत्त्याकारेण परिणतं चित्तबुद्धिमनोऽहंकारशब्दैर्व्य-वह्निते इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुखदुःखादि-स्वधर्माध्यासे उपाधिः स्फटिके जपाकुसुमिव लोहित्यावभासे एवं प्राणादयस्तद्धाश्चाशनीयाः पिपासादयस्तथा श्रोत्रादयो वागादयश्वतद्धर्माश्च बधिरत्वादयोऽध्यस्यन्ते तथा देहस्तद्धर्माः स्थूलत्वादयश्चात्मन्यध्यस्यन्ते तत्रेन्द्रियादीना न तादात्म्याध्यासे-ऽहं श्रोत्रमित्यप्रतीतेः। देहस्तु मनुष्योऽहमिति प्रतीतेस्ता-दात्म्येनाध्यस्यते एवं चैतन्यस्याप्यहंकारादिषु पर्यन्तेष्वध्यासः स्वीकार्य: अध्यासव्यवधानतारतम्याच प्रेमतारतम्यम् / तदुक्तं वार्त्तिकामृते "वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियः इन्द्रियेभ्यः परः प्राणः प्राणादात्मा परः प्रियः" तेनान्योन्याध्यासाच्चिदचिद्धन्थिरूपोऽयमध्यासः समूहालम्बनभ्रमवदवश्य मत्रेतरेतराध्यासस्यावश्यमभ्युपगन्तव्यत्वात् / अयमेव संसारो माया शवलाचिदात्मन आकाशादिक्रमेण लिङ्गशरीरात्मकपञ्चीकृत-भूतोत्पत्तौ केषांचिन्मते तेभ्य एव पञ्चीकृतभूतोत्पत्ती संप्रदायमतेचतेषामेव सयोगविशेषावस्थानां तत्वस्वीकारे तेभ्यो ब्रह्माण्डभूधरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेरत एव सिद्धा-भिधानात् (नयो०) आत्मज्ञानमात्रे प्रत्यज्ञादिप्रसरान्नियम-विध्यादरे च सूत्रमात्रे साधनान्तरप्राप्तेऽर्थे यजेतेत्यादावपि तत्प्रसङ्गोऽत एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविध्यङ्गत्वं यजेतेत्यादावतिप्रसङ्गादेवेतिवाच्यं निर्विशेषात्मबोधेऽपि "इतिहासपुरणाद्यैर्वेदार्थमुपवृंहयेदि'' त्यादिना पुराणप्राकृतवाक्यश्रवणादेः प्राप्तत्वाद्वेदान्तश्रवणं नियम्यत इति दोषाभावात्। एतच्च / श्रवणाद्यवृत्तं तत्वधीहेतुर्दृष्टार्थत्वात्तदेवं बहुजन्मलब्धपरिपाकवशादसौ तमस्यादिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात् कुरुते। नच प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः श्रवणादेः प्रतिबन्धकनिवर्तकत्वात्तनिवृत्तेश्च स्वत्वेनोत्पत्तावतिरिक्तानपेक्षणात्। तत्त्वमिति पदयोः परोक्षत्वापरोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवाचकयोः श्रूयमाणं सामानाधिकरण्यम् / न तावत् सिंहो देवदत्त इतवद्गौणमुख्यभावः संभवति तस्यान्नाजातत्वात् / नापि मनो ब्रह्मेतिवदुपासनार्थं श्रुतहास्यश्रुतकल्पनाप्रसङ्गात् / मुख्यत्वेऽपि न नीलोत्पलादि-वत्सामानाधिकरण्य गुणगुणिनां भावाद्यसंभवात् निर्गुणा स्थूलादिवचनविरोधाश्च नापि यः सर्पः सा रज्जुरिति वदाधीय-मुभयोश्चिद्रूपतया वाधायोगान्मुक्त्य भावप्रसङ्गाच / नहि स्ववाधार्थं जीवप्रवृत्तिरुपपद्यते तस्मात्पदार्थयोः परस्पर-व्यावर्तकतया विशेषणविशेष्यभावप्रतीत्यनन्तरं लक्षणया सोऽयं देवदत्त इति तद्विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मप्रतीतेः सा च लक्षणा पदद्वयेऽप्यन्यथाऽखण्डार्थप्रतीत्यनुपपत्तेर्लक्षणाबीजविरोधासमानाच इयं लक्षणा विशेषणं सत्यागाद्वि-शेष्यांशत्यागाचजहदजहती। नन्वेवं चैतन्याद्वैतसिद्धावपि कथं प्रपञ्चस्य परमार्थिकत्वाभाव इति चेदुच्यते यदित्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदार्थ क्यसिद्धिरे वं तत्पदार्थेऽपि परोक्षत्वादि / यदि पारमार्थिकं कथं त्वं पदार्थक्यसिद्धिस्तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादि कल्पितमेव एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यपि तत्त्वमस्यादिवाक्य-सामर्थ्येनैव निरस्तसमस्तपञ्चात्मैक्यसिद्धिः। सोऽयमित्यत्रेद पदाढ़ेदभ्रमानिवृत्तेर्महावाक्याश्रयणस्यावश्यकत्वं तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति "क्षीयन्ते चास्य कर्माणीति श्रुतेः। नच देहनाशप्रसङ्गःप्रारब्धस्याविनाशात्। तस्य तावदेव चिरं यावन्न विमोक्षेऽप्यसंपत्स्य इति श्रुतेः कर्मविपाके न प्रारब्धनिवृत्तावप्युक्तशास्त्रेण ज्ञानान्निवय॑त्वाभिधानात् ततश्च ज्ञानेन तदानीमेवाज्ञानसर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धाप्यनिवृत्तिस्तस्यां चावस्थायां प्रारब्धफलं भुञ्जान सकलसं सारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधिनिषेधाधिकारशून्यः संस्कारमात्रःसदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन्मुक्त इत्युच्यतेऽस्य प्रारब्धक्षये संसक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिर्ननुके यमज्ञाननिवृत्ति सती नाप्यसती नापि सदसती ज्ञानजन्यताद्वैतप्रसङ्गोद्देश्यत्वविरोधेभ्यश्चास्तु त निर्वचनीया-जन्यत्वात् / तदुक्तं "जन्यत्वमेव जन्यस्य, मायिकत्वसमर्पक' मितिमैवम् अनिर्वचनीयस्य ज्ञाननिवर्त्यत्वनियमेव निवृत्ति-परंपराप्रसङ्गात् सदद्वैतीव्याकोपमङ्गीकृत्य तस्या असत्वा-मिधानेऽपि विनाप्रमाणमद्वैतसंकोच एव दूषणम् / पञ्चम-प्रकाराश्रयणं त्वत्यन्ताप्रसिद्धमस्तु तर्हि चैतन्यात्मिकेति चेन्न जन्यत्वादेव नास्त्येव जन्यत्वमिति चेन्न ज्ञानार्थस्य प्रसङ्गात् चैतन्यस्य सदा सत्वेन प्रयत्नविशेषानुपपत्तेश्च / अत्र के चित् तत्वज्ञानोपलक्षितं चैतन्यमेवाज्ञाननिवृत्तिः तच न तत्वज्ञानं प्रागस्ति उपलक्षणत्वस्य संबन्धाधीनत्वात्काकसंबन्धो हि गृहस्य काकोपलक्षितत्वं तदपिन ज्ञानोपलक्षितत्वस्यापि सत्वेऽद्वैतव्याघातात् असत्वे उद्देश्यत्वानुपपत्तेः। मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्ते श्चिन्मात्रत्वे उक्तदोषानतिवृत्तेः / न च तत्वज्ञानानुपलक्षितभिन्नं चैतन्यमेव.. साऽस्थाभेदं विना तस्यापि दुर्वचत्वादतो दुर्वचस्वरूपेऽयमज्ञाननिवृत्तिरत्रोच्यतेज्ञानस्य निवृत्तिरूवंचरूपान्तरपरिणतोपादानस्येव्तयूपत्वात्
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy