________________ कुसील ६१४-अभिधानराजेन्द्र-भाग 3 कुसीलपरिभासा तथासुचिरं पि अत्थमाणो, नलथंभो उच्छुवाडमज्झम्मि। कीस न जायइ महुरो, जइ संसग्गी पमाणं ते ?||33 // सुचिरमपि प्रभूतमपि कालं तिष्ठन् नलस्तम्बो वृक्षविशेषः इक्षुवाटमध्ये इक्षुसंसर्गात्किमिति न जायते मधुरः यदि संसर्गी प्रमाणं तवेति गाथार्थः // 33 // अत्रोत्तरमाहभावुग अभावुगाणि अ, लोए दुविहाणि हॉति दव्वाणि / वेरुलिओ तत्थ मणी, अभावुगो अन्नदय्वेहिं // 3 // भाव्यन्ते प्रतियोगिना स्वगुणैरात्मभावमापद्यन्त इति भाव्यानि केवल्लुकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते। अथ वा प्रतियोगिनी सति तद्गुणपेक्षया तथा भवनशीलानि भावुकानि "लषपतपदस्थामूवृषहनकमगमशृभ्य उकम्" 3 / 2 / 154 // इति पाणिनिसूत्रादुका, तस्य ताच्छीलिकत्वादिति / तद्विपरीतानि अभाव्यानि च नलादीनि लोके द्विविधानि द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि, वै यस्तत्र मणिरभा-व्योऽन्यद्रव्यैः काचादिभिरित माथार्थः / / 34 / / स्यान्मतिर्जीवोऽप्येवंभूत एव भविष्यति न पार्श्वस्थादिसं सर्गेण तद्भावं यास्यतीत्येतच असद्, यतःजीवो अणाइनिहणो, तब्भावणभाविओ अ संसारे। खिप्पं सो भाविजइ, मेलणदोसाणुभावेणं // 35 // जीवः प्राग्निरूपितशब्दार्थः, स ह्यनादिनिधनोऽनाद्यपर्यन्त इत्यर्थः तद्भावनाभावितश्च पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च संसारे तिर्यनरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् क्षिप्रं शीघ्रं स भाव्यते प्रमादादिभावनया आत्मीक्रियते मीलनदोषानुभावेन संसर्गदोषानुभावेनेति गाथार्थः / / 3 / / अथ भावतो दृष्टान्तमात्रेण परितोषः, ततो मद्विवक्षितार्थ प्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणुअंबस्स य निंबस्स य, दोण्हं पि समागयाइँ मूलाई। संसग्गीऍ विणट्ठो, अंबो निंबत्तणं पत्तो // 36 // तिक्तनिम्बोदकवासितायां भूमावामवृक्षः समुत्पन्नः, पुनस्तत्राभ्रस्य च निम्बस्यचद्वयोरपि समागतेएकीभूते मूले ततश्च संसर्गात्संगत्या विनष्टः आम्रो निम्बत्वं, तिक्तफलः संवृत इतिगाथाऽर्थः / / 36 / / दोषान्तरोपदर्शनेन प्रकृतमेव समर्थयन्नाहसंसग्गीए दोसा, निअमादेवेह होइ अकिरिया। लोए गरिहा पावे, अणुमइ मो तह य आणाई // 37 / / संसर्गात् संसक्तेर्वा पावस्थादिभिः सहेति गम्यते, दोषा इमे नियमादेवेह, या च भवत्यक्रिया तदुपरोधेन तथा लोके गभिवतिसर्व एवैते एवंभूता इति, तथा पापेऽनुमतिर्भवति पार्श्वस्थादिसम्बन्धिनी, तत्सङ्गमात्रनिमित्तत्वादनुमतेः तथा आज्ञादयश्च दोषा भवन्तीति गाथाऽर्थः ॥३७॥पं०व०॥ (कुशीलसंसर्गे दोषाः 'किइकम्म' शब्देऽपि 506 पृष्ठऽस्मिन्नेव भागे भाविताः ततस्तेततएवाऽवधार्याः) कुसीलधम्म-पुं०(कुसीलधर्मन) कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा / सावद्यकर्मणा धर्मत्वाभिमानिषु, "अहाहु से लोएँ कुसीलधम्मे, भूताइँ जे हिंसति आयसाते। “सूत्र०१ श्रु०७ अ०। कु सीलपडि से वणया स्त्री०-[कु सीलप्रतिसेवनका (ता)] कुशीलमब्रह्म, तस्य प्रतिसेवनं कुशीलप्रतिसेवन, तद्भावः कुशीलप्रतिसेवनता, उपसर्गकुशीलस्य वा प्रतिसेवनं येषुते कुशीलप्रतिसेवनकाः। मानुष्योपसर्गभेदेषु, स्था०४ ठा०४ उ०। कु सीलपडिसेवणा-स्त्री०-(कुशीलप्रतिसेवना) मैथुनप्रतिसेव नायाम्, स्था०४ ठा०४ उ०। कुसीलपणग-न०-(कुशीलपञ्चक) पार्श्वस्थावसन्नयथाच्छन्दसंसक्त कुशीलपञ्चके, महा०२ अ०। कुसीलपरिभासा-स्त्री०-(कुशीलपरिभाषा) सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धस्य सप्तमेऽध्ययने, तत्र कुशीलाः परतीर्थिकाः / पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थाः परि समन्ताद् भाष्यन्ते प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनाश्च निरूप्यन्त इति, तथा तद्विपर्ययेण क्वचित्सुशीलाश्चेति / निक्षेपस्त्रिधाओधनामसूत्रालापकभेदात् / तत्रौघनिष्पन्ननिक्षेपेऽध्ययनं, नाम निष्पन्ने कुशीलपरिभाषेति / सूत्र०। साम्प्रतं कुशीलपरिभाषाख्यस्याऽध्ययनस्याऽन्वर्थतां दर्शयितुमाहपरिभासिया कुशीला य, एत्थ जावंति अविरता केइ। मुत्तिपसंसासुद्धो, कुंति दुगुंछा अपरिसुद्धो ||6|| (परिभासिया इत्यादि) परि समन्ताभाषिताः प्रतिपादिताः कुशीलाः कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च / चशब्दाद् यावन्तः केचनाऽविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते। किमिति कुशीला अशुद्धा गृह्यन्ते? इत्याह-सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते। तद्यथा सौराज्यमित्यादि। तथ कुरित्ययमपि निपातो जुगुप्सायाम--शुद्धविषये वर्तते, कुतीर्थ कुग्राम इत्यादि। यदि कुत्सितशीलाः कुशीलाः कथं तर्हि परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवान्ति इत्याहअप्फासुयपडिसेवी, णामं भुजो य शीलवादी य। फासुं वयंति सीलं, अफासुया नो अमुंजंता ||1|| (अप्फासुय इत्यादि) अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये / थाहि-यः फलनिरपेक्षः क्रियास्वाभरणादिषु प्रवर्ततेस चेह द्रव्यशीलत्वेन प्रदर्शितः, अस्त्युपशमप्रधाने चारित्रे / तथाहि तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति। स चेह भावशीलग्रहणेनोपात्त इति / इह च यतीनां ध्यानाध्ययनादिकं मुक्त्वा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्त्वा नाऽपरः कश्चिद्व्यापारोऽस्तीत्यतस्तदाश्रयणेनैव सुशीलत्वं च चिन्त्यते-तत्र कुतीर्थिकः पार्श्वस्थादि अप्राशुकं सचित्तं प्रति सेवितुं शीलमस्य स भवत्यप्राशुकप्रतिसेवी, नामशब्दः संभावनायां, भूयः पुनर्धाटाच्छीलवन्तमात्मानं वदितु शीलं यस्य सशीलवादी, किमित्येवं, यतः प्राशुकमचेतनं शीलं वदति। इदमुक्तं भवति यः प्राशुकमुद्गमादिदोषरहितमाहारं भुक्ते त शीलवन्तं वदन्ति तज्ज्ञाः / तथाहि-यतयोऽप्राशुकमुद्गमादिदोषदुष्ट