________________ कुसील ६१३-अभिधानराजेन्द्र-भाग 3 कुसील दुक्खेण पुढे धुयमाइएज्जा, संगामसीसे व परं दमेजा // 26 // संयमभारस्य यात्राऽर्थं पञ्चमहाव्रतभारनिर्वाहणार्थं, मुनिः कालत्रयवेत्ता, भुञ्जीत आहारग्रहणं कुर्वीत, तथा पापस्य कर्मणः पूर्वचरितस्य विवेकं पृथग्भावं विनाशमाका द्भिक्षुः साधुरिति। तथा दुःखयतीति दुःखं परीषहोपजनितापीडा, तेनस्पृष्टो व्यासःसन्धूतं संयममोक्षंवा आददीत गृण्हीयात्, यथा सुभटः कश्चित् संग्रामशिरसि शत्रुभिरभिद्रुतः परं शत्रु दमयति, एवं परं कर्मशत्रु परीषहोपसर्गाऽभिद्रुतो दमयेदिति।।२६।। अपिचअवि हम्ममाणे फलगाव तट्ठी, समागमं कंखति अंतकस्स। णिघूय कम्मं ण पवंचुवेइ, अक्खक्खए वा सगडं तिबेमि॥३०॥ (अविहम्ममाणेत्यादि) परीषहोपसगैर्हन्यमानोऽपि सम्यक् सहते। किमिव फलकवदकृष्टः। यथा फलकमुभाभ्यामपि पाश्वभ्यांतष्टं घट्टितं सत्तनु भवति अरक्तं द्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टतदेहो दुर्बलशरीरोऽरक्ताद्विष्टश्चान्तकस्य मृत्योः समागमं प्राप्तिमाकाङ्क्षत्यभिलषति। एवं चाऽष्टप्रकारं कर्म नि याऽपनीय न पुनः प्रपञ्च जातिजरामरणरोगशोकादिकं प्रपञ्च्यते बहुधा नटवद्यस्मिन् स प्रपञ्चः संसारस्तं नोपैति न याति / दृष्टान्तमाह-यथाऽक्षस्य विनाशे सतिशकटंगन्त्र्यादिकं समविषनपथरूपं प्रपञ्चमुपष्टम्भकारणभावान्नोपयाति, एवमसावपि साधुरटप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति / गतोऽनुगमोऽनया, पूर्ववदितिशब्दः पूर्ववदितिशब्दः परिसमाप्तयर्थे, व्रवीमीति पूर्ववत्।।३०।। सूत्र०१ श्रु०७ अ०। (7) पार्श्वस्थादिसंसर्गोन कर्तव्यःअकुसीले सया भिक्खू, णेव संसग्गियं भए। सुहरूवा तत्थुवस्सग्गा, पडिवुज्झेज ते विका|२८|| कुत्सितं शीलमस्येति कुशीलः, स च पार्श्वस्थादीनामन्यतमः न कुशीलो अकुशीलः, सदा सर्वकालं भिक्षणशीलो भिक्षुः कुशीलोन भवेन्न चापि कुशीलैः साधू संसर्ग सांगत्यं भजेत सेवेत / तत्संसर्गदोषोद्विमावयिषयाऽऽहसुखरूपाः सातागौरवस्वभावास्तत्रतस्मिन् कुशीलसंसर्गे संयमोपघातकारिण उपसर्गाः प्रादुष्यन्ति / तथाहि-कुशीलवक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात् ? तथा नाशरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसान्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेत्। उक्तंच-"अप्पेण बहुमेसेजा, एवं पंडियलक्खणं।" इति "शरीरंधर्मसंयुक्तं, रक्षणीयं प्रयत्नतः। शरीरत्स्रवते पापं, पर्वतात्सलिलं यथा।।१।।" तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषजन्त्येवं विद्वान् विवेकी प्रतिबुद्ध्येत जानीयात्, बुध्वा चापायरूपं कुशीलसंसर्ग परिहरेदिति। किञ्चान्यतनन्तत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किड, नातिवेलं हसे मुणी // 26 // तत्र साधुर्भिक्षादिनिमित्तं रामादौ प्रविष्टः सन् परो गृहस्थस्तस्य गृहं परगृहं तत्र न निषीदेन्नोपवित्, उत्सर्गतोऽस्यापवादं दर्शयतिनान्यत्रान्तरायेणेति।अन्तरायः शक्त्यभावः,सच जरसा रोगातङ्काभ्यां स्यात्तस्मिंश्चान्तराये सत्युपविशेद्यदि वोपशमलब्धिमान् कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिकाऽसौ क्रीडा हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनाऽऽदिका, यदि वा वट्टकन्दुकादिका, तांमुनिन कुर्यात, तथा वेला मर्यादा तामतिक्रान्तमतिबेलं, नहसेन्यादामतिक्रम्य मुनिः साधुानावरणीयाधष्टविधकर्मबन्धभयान्न हसेत् / तथा चागमः-"जीवेणं भंते ! हसमाणे उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ ? गोयमा ! सत्तविह बंधए वा अट्ठविह बंधए वा" इत्यादि। किञ्च - अणुस्सुओ उरालेसु, जयमाणो परिव्वए। चरियाए अप्पमत्तो, पुट्ठो तत्थ हियासए॥३०॥ उराला उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु कामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयः, तथा आज्ञैश्वर्यादयश्चैनषूदारेषुदृष्टषु श्रुतेषु वा नोत्सुकः स्यात्। पाठान्तरं वा-न निश्रितोऽनिश्रितोऽप्रतिबद्धः स्याद्। यतमानश्च संयमानुष्ठाने परि समन्तान्मूलोत्तरगुणेषु उद्यम कुर्वन् व्रजेत् संयमं गच्छेत्। तथा चर्चायां भिक्षादिकायामप्रमत्तः स्यात्, नाहारादिषु रसगाऱ्या विदध्यादिति। तथा स्पृष्टश्चाभिद्रुतश्च परीषहोपसर्गस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विषहेत सम्यक् सह्यादिति। सूत्र०१ श्रु० अ०। (8) पार्श्वस्थादिसंसर्गदोषमाहवजिज्ज य संसग्गिं, पासत्थाईहि पावमित्तेहिं। कुजाय अप्पमत्ता, सुद्धचरित्तेहिं धीरेहिं॥३०॥ विवर्जयेच संसर्ग संबन्धमित्यर्थः / कैरित्याहपार्श्वस्थादिभिः पापभित्रैरकल्याणमित्रैः सह; कुर्याच्च संसर्गमप्रमत्तः सन् शुद्धचारित्रै/रः साधुभिः सहेति गाथार्थः / / 30 // किमित्येतदेवमित्यत्राहजो जारिसेण मेत्तिं, करेइ अचिरेण तारिसो होइ। कुसुमेहि सह वसंता, तिला वि तगंधिया हुंति // 31 // यः कश्चित्यादृशेनयेन केनचित् सह मैत्री संसर्गरूपां करोति सोऽचिरात् तादृशो भवति। अत्र निदर्शनमाह-कुसुमैः सह वसन्तः सन्तस्तिला अपि तद्गन्धितो भवन्ति कुसुमगन्धिन एवेति गाथार्थः / / 31 / / अत्राहसुचिरं पि अत्थमाणो, वेरुलिओ कायमणिअउम्मीसो। न उवेइ कायभावं, पाहण्णगुणेण निअएणं ||32|| सुचिरमपि प्रभूतमपि कालं तिष्ठन् वैयो मणिविशेषः, काचाश्च ते मणयश्च काचमणयः, कुत्सिताः काचमणयः काचमणिकाः, तैरुत्प्राबल्येन मिश्रः काचमणिकोन्मिश्रः, नोपैति न याति काच भावं काचधर्मा प्राधान्यगुणेन वैमल्यगुर्मयेन निजेनात्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिर्न यास्यतीति गाथार्थः // 32 //