________________ कुसील ६१२-अभिधानराजेन्द्र-भाग कुसील अघाति धम्म उदराणुगिद्धे॥ अहाहु से आयरियाण सयं से, जो लावएज्जा असणस्स हेऊ।२४॥ (कुलाइँ जे धावतीत्यादि) कुलानि स्वादुभोजनवन्ति धावति गच्छति, तथा गत्वा धर्ममाख्याति भिक्षार्थं वा प्रविष्टो यद्यस्मै रोचते कथासंबन्धस्तं तस्याऽऽख्याति / किंभूत इति दर्शयतिउदरेऽनुगृद्ध उदरानुगृद्धः उदरभरणव्यग्रः, तुन्दपरिमृज इत्यर्थः / इदमुक्तं भवति-यो ह्युदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गत्वाऽsख्यायिकाः कथयति सकुशील इति, अथाऽसावाचार्यगुणानां वा शतांशे वर्तत इति / यो ह्यन्नस्य हेतुं भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेणालापयेद्भाणयेत् असावप्यार्यगुणानां सहस्रांशे वर्तते किमङ्ग ! पुनर्यः स्वत एवाऽऽत्मप्रशंसां विदधातीति।।२४।। किञ्चणिक्खम्म दीणे परभोयणम्मि, मुहमंगलीए उदराणुगिद्धे // नीवारगिद्धे व महावराहे। अदूरए एहइ घातमेव।२५॥ यो ह्यात्मीयं धनधान्यहिरगयादिकं त्यक्तवा निष्क्रान्तो निष्क्रम्य च परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशादातॊवन्दिवन्मुखमाङ्गलिको भवति मुखेन मङ्गलानि प्रशंसावाक्यानि ईदृशस्ताटशस्त्वमित्येषं देन्यभावमुपगतो वक्ति। उक्तं च–“सो एसो जस्स गुणा, वियरंत न वारिया दसं दिसासु / इहरा कहासु सुच्चसि, पञ्चक्खं अत्थ दिहोसि" इत्येवमौदर्य प्रति गृद्धोऽध्युपपन्नः / किमिव नीवारः सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकायः सूकरः। एवकारोऽवधारणे, अवश्यं तस्य विनाश एव, नाऽपरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरः पौनःपुन्येन विनाशमेवैति॥२५|| किञ्च - अन्नस्स पाणस्सिह लोइयस्स, अणुप्पियं भासति सेवमाणे / / पासत्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए।।२६|| (अण्णस्सेत्यादि) स कुशीलोऽन्नस्य पानस्य या कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते अनुप्रियं भाषते, यद्यस्य प्रियं तत्तस्यवदतोऽनु पश्चाद् भाषतेऽनुभाषते। प्रतिशब्दकवत् सेवकवद्वा राजाद्युक्तमनुवदतीत्यर्थः / तमेव दातारमनुसेवमानः आहारमात्रगुद्ध : सर्वमेतत्करोतीत्यर्थः / स चैवंभूतः सदाचारभ्रष्टः पार्श्वस्थभावमेय व्रजति कुशीलता च गच्छति। तथा निर्गत एकान्ततः सारश्चारित्राख्यो यस्य सनिःसारः, यदि वा निर्गतस्य सारो निःसारः, स विद्यते यस्याऽसौ निःसारवान्, पुलाक इव निष्कणो भवति यथा, एवमसौ संयमानुष्ठानं निःसारीकरोति। एवंभूतश्चाऽसौ लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातनास्थानान्यवाप्नोति // 26 // उक्ता कुशीलास्तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह अण्णातपिंडेणऽहियासएज्जा, णो पूयणं तवसा आवहेजा। सद्देहिँ रूवेहि असज्जमाणं, सव्वेहि कामेहि विणीय गेहिं / / 27 / / अज्ञातश्चासौ पिण्डश्चाऽज्ञातपिण्डः, अन्तप्रान्त इत्यर्थः / अज्ञातेभ्यो वा पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातः उत्छवृत्या लब्धस्तेनात्मानमधिसहेत् वर्त्तयेत् पालयेत्। एतदुक्तं भवतिअन्तप्रान्तेन लब्धेनाऽलब्धेन वा न दैन्यं कुर्यात्, नाऽप्युत्कृष्टन लब्धेन मदं विदध्यात्, नाऽपि तपसा पूजनं सत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः। यदि वा पूजासत्कारनिमित्तत्वेन तथाविधार्थत्वेन या महताऽपि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात् / तदुक्तम्-“परलोकाधिक धाम, तपः श्रुतमिति द्वयम्। तदेवाऽर्थित्वनिलुप्तसारं तृणलवायते"।१। तथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति दर्शयतिशब्दैर्वेणुवीणादिभिराक्षिप्तः संस्तेष्वसज्जन्नासक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन्, तथा रूपैरपि मनोज्ञेतरैः रागद्वेषमकुर्वन् / एवं सर्वैरपि कामैरिच्छा-मदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धिं विनीयाऽपनीय संयममनुपालयेदिति। सर्वथा मनोज्ञेतरेषु विषयेषु रागद्वेष न कुर्यात्। तथा योक्तम्“सद्देसुय भद्दयपावएसु, सोयविसयमुवगएसु। तुद्वेण च रुद्वेण च, समणेण सयाण होयव्वं / / 1 / / रूवेसुय भद्दयपावएसु, चक्खुविसयमुवगएसु! तुडेण च रुद्वेण च, समणेण सया ण होयव्वं / / 2 / / गंधेसुय भद्दयपावएसु. घाणविसयमुवगएसु। तुट्टेण च रुद्वेण च, समणेण सयाण होयव्यं / / 3 / / भक्खेसुय भद्दयपावएसु, रसणविसयमुपगएसु। तुद्वेण च रुटेण च, समणेण सया न होयव्वं / / 4 / / फासेसुय भद्दयपावएसु, फासविसयभुवगएसु। तुट्टेण च रुद्वेण च, समणेण सया न होयव्वं" ||5||27|| यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्ग निरोधोऽपि कार्य इति दर्शयतिसय्वाइँ संगाइँ अइच्च धीरे, सवाई दुक्खाइँ तितिक्खमाणे। अखिले अगिद्धे अणिए य चारी, अभयंकरे भिक्खु अणाविलप्पा // 28 // (सव्वाइइत्यादि) सर्वान् बाह्याश्च द्रव्यपरिग्रहलक्षणानतीत्यत्यक्त्वा धीरो विवेकी सर्वाणि दुःखानि शारीरमानसानि त्यक्त्वा परीषहोपसर्गजनितानि तितिक्षमाणोऽधिसहन्नऽखिलो ज्ञानदर्शनचारित्रैः सम्पूर्णः, तथा कामेष्वगृद्धः, तथाऽनियतचारी अप्रतिबद्धविहारी, तथा-जीवानामभयंकरोऽपि भिक्षणशीलो भिक्षुः साधुरेवमनाविलो विषयकषायैरनाकुलात्मा यस्याऽसावनाविलात्मा संयममनुवर्तत इति॥२८॥ किञ्चान्यत्भारस्स जाता मुणि मुंजएज्जा, कंखेज पावस्स विवेग भिक्खू / /