________________ कुसील ६११-अमिधानराजेन्द्र-भाग 3 कुसील ज्ञानचारित्ररूपमोक्षमार्गस्याऽनुष्ठानाच परिकल्पयन्ति समन्ताद् निष्पादयन्तीति। (अतः परं चतस्रो गाथाः 'उदग' शब्दे द्वि०भा०७६६ पृष्ठे उक्ताः / एका च गाथा 'अग्गिहोत्त' शब्दे प्र० भा०१७७ पृष्ठे उक्ता) उक्तानि पृथक्कुशलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याहअपरिक्ख ट्ठि ण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा। भूएहि जाणं पडिलेह सातं, विजं गहायं तसथावरेहिं॥१६॥ यैर्मुमुक्षुभिरुदकसंपर्केणाऽग्रिहोत्रेण वा प्राण्युपमर्दकारिण सिद्धिरिति, ते च परमार्थमबुध्यमानाः प्राण्युपघातेन पापमेव धर्मबुद्ध्या कुर्वन्तो धात्यन्ते वा व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः संघातः संसारस्तमेष्यन्ति अप्कायतेजस्कायसमारम्भेण हि त्रसस्थावराणामवश्यंभावी विनाशः, तन्नाशे च संसार एव, न सिद्धिरित्यभिप्रायः, यत एवं ततो विद्वान् सदसद्विवेकी यथावस्थितत्वं गृहीत्या त्रसस्थावरैभूतैर्जन्तुभिः कथं सांप्रतं सुखमवाप्यत इति एतत्प्रत्युपेक्ष्य जानीहि अवबुद्ध्यस्वा एतदुक्तं भवतिसर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विषः। नच तेषां सुखैषिणां दुःखोत्पादकत्वेन सुखावाप्तिर्भवतीति। यदि वा (विजं गहाय त्ति) विद्यां ज्ञानं गृहीत्वा विवेकमादाय त्रसस्थावरैर्भूतैर्जन्तुभिः करणभूतैः सातं सुखं प्रत्युपेक्ष्यपर्यालोच्यजानीह्यवगच्छेति।यत उक्तम् "पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही, किंवा णाही छेयपावगमित्यादि" ||16|| ये पुनः प्राण्युपमर्दैन सातमभिलषन्तीत्यशीलाः कुशीला-श्च ते संसारेएवंविधा अवस्था अनुभवन्तीत्याहथणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू / तम्हा विऊविरतो आयगुत्ते, द8 तसे या पडिसंहरेजा // 20 // तेजस्कायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नारकादिगतिगतास्तीव्रदुःखैः पीडयमाना असह्यवेदनाघ्रातमानसा अशरणाः स्तनन्ति केवलं करुणमाक्रन्दन्तीति यावत्। (तथा लुप्पंतीति) छिद्यन्ते खङ्गादिभिः, एवं च कदीमा-नास्त्रस्यन्ति प्रपलायन्ते। कर्माण्येषां सन्तीति कर्मिणः, सपापा इत्यर्थः / तथा पृथक् (जगा इति) जन्तव इति / एवं परिज्ञाय ज्ञात्वा भि क्षणशीलो भिक्षुः, साधुरित्यर्थः / यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्माद्विद्वान् पण्डितो विरतः पापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो, मनोवाक्कायगुप्त इत्यर्थः / दृष्ट्वा च त्रसान्, चशब्दात् स्थावरांश्च दृष्ट्वा परिज्ञाय तदुपघातकारिणी क्रियां प्रतिसंहरेन्निवर्तयेदिति // 20 // साम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याहजे धम्मलद्धं वि णिहाय मुंजे, वियडेण साहट्ट य जे सिणाई। जे धोवती लूसयती व वत्थं, आहाहु से णागणियस्स दूरे // 21 // ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्धं, उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः। तदेवंभूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते। तथा ये विकटेन प्राशुकोदकेनाऽपि संकोच्याङ्गानि प्राशुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति। तथा यो वस्त्रं धावति प्रक्षालयति, तथा लूषयति शोभार्थं दीर्घमुत्पाटयित्वा हवं करोति, ह्रस्वं वा संधाय दीर्घ करोति, एवं लूषयति, तदेवं स्वार्थ परार्थ वा यो वस्त्रं लूषयति अथाऽसौ (णागणियस्स ति) निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, तस्य नसंयमो भवत्येवं तीर्थड्करगणधरादय - आहुरिति // 21 // उक्ताः कुशीलाः, तत्प्रतिपक्षभूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाहकम्म परिम्नाय दगंसि धीरे, वियडेण जीविज्ज य आदिमोक्खं / से वीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्यियासु // 22 // धिया राजते इति धीरो बुद्धिमान्, (दगंसि त्ति) उदकसमारम्भे सति कर्मबन्धो भवति एवं परिज्ञाय, किं कुर्यादित्याह-विकटेन प्राशुकोदकेन सौवीरादिना जीव्यात्प्राणसंधारणं कुर्यात्। चशब्दात् अन्येनाप्याहारेण प्राशुकेनैव प्राणवृत्तिं कुर्यात् / आदिः संसारः, तस्मान्मोक्ष आदिमोक्षः, संसारविमुक्तिं यावदिति। धर्मकारणानां तावदादिभूतं शरीरं तद्विमुक्तिं, यावज्जीवमित्यर्थः / किञ्चासौ साधुर्वीजकन्दादीन् भुजानः, आदिग्रहणाद् मूलपत्रफलानि गृह्यन्ते। एतान्यऽप्यपरिणतानि परिहरन् विरतो भवति / कुत इति दर्शयतिस्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु चिकित्सादिक्रियासुन वर्तते, तथा स्त्रीषु च विरतः वस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृह्यन्ते / यश्चैवंभूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नाऽसौ कुशीलदोषैर्युज्यते, तदयोगाच न संसारे बम्भ्रमीति / ततश्च न दुःखितः स्तनति, नापि नानाविधैरपायैर्विलुप्यत इति // 22 // पुनरपि कुशीलानेवमधिकृत्याहजे मायरं च पियरं च हिचा-ऽगारं तहा पुत्त पसुंधणं च / कुलाई जे धावइ साउगाई, अहाहु से सामणियस्स दूरे।२३। (जे मायरं चेत्यादि) ये केचनाऽपरिणतसम्यधर्माणस्त्यक्त्वा मातरं च पितरं च मातापित्रोर्दुस्त्यजत्वादुपादानम्, अतो भ्रातृदुहित्रादिकमपि त्यक्त्वेति एतदपि द्रष्टव्यम्। तथा अगारं गृहं, पुत्रमपत्यं, पशुहस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थाय पञ्चमहाव्रतभारस्य स्कन्धं दत्वा पुनहींनसत्त्वतया रससातादिगौरवगृहो यः कुलानि गृहाणि स्वादुकानि स्वादुभोजनलयन्ति धावति गच्छति, अथाऽसौ श्रमणभावस्य श्रामण्यस्स दूरे वर्तत एव माहुस्तीर्थकरगणधरादय इति // 23 // एतदेव विशेषेण दर्शयितुमाहकुलाई जे धावइ साउगाई,