________________ कुसील ६१०-अभिधानराजेन्द्र-भाग 3 कुसील गृहस्थ एव, सच हरितच्छेदं विधायाऽऽत्मानं दण्डयतीत्यात्मदण्डः। स हि परमार्थतः परोपघातेनाऽऽत्मानमेवोपहन्ति। अथशब्दोवाक्यालङ्कारे, आहुरेवमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः सोऽस्मिन् लोकेऽनार्यधा क्रूरकर्मकारी, भवतीत्यर्थः / स च एवंभूतो यो धर्मोपदेशेनात्मसुखार्थ वा बीजानि, अस्य चोपलक्ष-णार्थत्वाद् वनस्पतिकाय, हिनस्तिस पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति संबन्धः / साम्प्रतं हरितच्छेदकर्मविपाकमाहगन्भाइ मिज्झंति बुयाऽबुयाणा, णरा परे पंचसिहा कुमारा। जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा।।१०|| इह वनस्पतिकायोपमर्दका बहुषु जन्मषु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा बुवन्तोऽवुवन्तश्च व्यक्तवाचोऽव्यक्तवाचश्च, तथा परे नराः पञ्चशिखाः कुमाराः सन्तो नियन्ते / तथा युवानो मध्यमवयसः, स्थाविराश्च / क्वचित्पाठः - “भज्झिमपोरुसा स ति" तत्र मध्यमा मध्यमवयसः (पोरुसा य त्ति) पुरुषाणां चरमावस्थां प्राप्ता अत्यन्तबृद्धा एवेति यावत् / तदेवं सर्वास्वप्यवस्थासु बीजादीनामुपमर्दकाः स्वायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति / एवमपरस्थावरजङ्ग मोपमर्दकारिणामप्यनियतायुष्कत्वमायोजनीयम् // 10 // किञ्चान्यत्संबुज्झहा जंतवो माणुसत्तं, दटुं भयं बालिसेणं अलंभो। एगंतदुक्खे जरिए व लोए, सक्कम्मणा विप्परियासुवेइ॥११॥ हे जन्तवः प्राणिनः! संबुध्यध्वं यूयं, नहि कुशीलपाषण्डिकलोकस्तृणाय भवति, धर्म च सुदुर्लभत्वेन संबुध्यध्वम्। तथा चोक्तम् - "माणुस्सखेत्तजाई, कुलरूवारोगमाउयं वुद्धी। सवणोग्गहसद्धसं-ममो य लोगम्मि दुल्लहाई॥" तदेवमकृधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य, तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्टवा, तथाबालिशेनाऽज्ञेन सद्विवेकस्याऽलम्भ इत्येतचावगस्य, तथा निश्चयनयमवगस्य एकान्तदुःखोऽयं ज्वरित इव लोकः संसारप्राणिगणः। तथाचोक्तम् - "जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो" || तथातण्हारिहस्स पाणं, कूरो छायस्स भुजए तेप्ति। दुक्खसयसंपउत्तं, जरियमिव जगं कलयई"। इत्यत्र चैवंभूतलोके अनार्यकर्मकारी स्वकर्मणो विपर्यासमुपैति सुखार्थी प्राण्युपमर्द कुर्वन् दुःखं प्राप्नोति तथा मोक्षार्थी संसारंपर्यटतीति॥११॥ उक्तः कुशीलविपाकोऽधूना तद्दर्शनान्यभिधीयन्तेइहेग मूढा पवयंति मोक्खं, आहारसंपञ्जणवजणेणं / एगे य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं / 12 / इहेति मनुष्यलोके, मोक्षगमनाधिकरे वा, एके केचन मूढा अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः, प्रकर्षेण वदन्ति प्रतिपादयन्ति / किं तत् ?-मोक्षं मोक्षावाप्तिम् / केनेति दर्शयन्ति-आहियत इत्याहार ओदनादिस्तस्य संपद्रसपुष्टिस्तां जनयतीत्याहारसंपञ्जनं लवणं तेन ह्याहारस्य रसपुष्टिः क्रियते तस्य वर्जनं, तेनाऽऽहारसंपज्जनवर्जनेन लवणवर्जनन मोक्ष वदन्ति / पाठान्तरं वा-"आहारसपंचयवज्जणेण" लवणपञ्चकमाहारसपञ्चकं, लवणपञ्चकं चेदम्-तद्यथा-सैन्धवं सौवर्चलं बिडरौमं सामुद्रं चेति।लवणेन हि सर्वरसानामभिव्यक्तिर्भवति। तथा चोक्तम्-"लवणविहूणा य रसा, चक्खुविहूणा य इंदियग्गामा / धम्मोदयाएँ रहिओ, सोक्खं संतोसरहियं तो"||१|| तथा लवण रसाना तैलं स्नेहानां घृतं मेध्यानामिति। तदेवंभूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति। पाठान्तरं वा--"आहारओ पञ्चकवजणेण" आहारत इति, ल्यब्लोपे कर्मणि पञ्चमी / आहारमाश्रित्य पञ्चकं वर्जयन्ति / तथा-लसुनं पलाण्डुः करभीक्षीरंगोमांसं मद्यं चेत्येतत्पञ्चकवर्जनेन मोक्ष प्रवदन्ति तथैके वारिभद्रकादयो भागवतविशेषाः शीतोदकसेवनेन सचित्ताप्कायपरिभोगेन मोक्षं प्रवदन्ति / उपपत्तिं च ते अभिदधतियथोदकं बाह्यमलमपनयतिएवमान्तरमपि। वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तराऽपि शुद्धिरुदकादेवेति मन्यन्ते। तथैके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति। ये किल स्वर्गादिफलमनाशंस्य समिधा घृतादिभिर्ह व्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्वति, शेषास्त्वभ्युदयायेति। युक्तिं चात्र ते आहुःयथा ह्यग्निः सुवर्णादीनां मतंदहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति // 12 // तेषामसंबद्धप्रलापिनामुत्तरदामायाऽऽहपाओ सिणाणादिसुणत्थि मोक्खो, खारस्स लोणस्स अणासएणं। ते मज मंसं लसणं च भोचा, अन्नत्थ वासं परिकप्पयंति||१३|| प्रातः स्नानादिषु नास्ति मोक्ष इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति / आदिग्रहणाद् हस्तपादादिप्रक्षालनं गृह्यते / तथा [दकपरिभोगेन तदाश्रितजीवानामुपमर्दः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति। न चैकान्तेनोदकं बाह्यमलस्याप्यपनयने समर्थम्, अथाऽपि स्यात्तथाऽप्यान्तरमलं न शोधयति, भावशुध्या तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात् / तथा क्षारस्य पञ्चप्रकारस्याऽपि लवणस्याऽनशनेनाऽपरिभागेन मोक्षो नास्ति। तथाहि-लवणपरिभोगरहितानां मोक्षो न भवतीत्युक्तिकमेतत् / नचाऽयमेकान्ततो लवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्यभिचारात् / अपि चासौ प्रष्टव्यः किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिरुत भावतः? यदि द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा / अथ भावतस्ततो भाव प्रधानं किं लवणवर्जनेनेति ? तथा ते मूढा मद्यमांसलशुनादिकं वा भुक्त्वा अन्यत्र मोक्षादन्यत्र संसारे वासमवस्थानंतथाविधानुष्ठानमसद्भावात् सम्यग्दर्शन