________________ कुसील ६०६-अभिधानराजेन्द्र भाग 3 कुसील ता अपरं बध्नन्ति वेक्ष्यन्ति च, दुष्ट नीतानिदुर्नीतानि दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीति भावः। तदुक्तम्"मा होहि रे विसन्नो, जीव ! तुमं विमण दुम्मणो दीणो। ण हु वितिएणं फिट्टइ, तं दुक्खं जं पुरा रइयं // 1 // जइ पविससि पायालं, अडई व दर गुहं समुद्दे वा। पुवकयाउन चुक्कसि, अप्पाणं घायसे जइ वि" ||2| (5) एवं तावदोघतः कुशीलाः प्रतिपादिताः, तदधुना पाषण्डकानधिकृत्याऽऽह - जे मायरं वा पियरं च हिवा, समणव्वए अगाणिं समारभिजा। अहाहु से लोएँ कुसीलधम्मे, भूताई जे हिंसाति आयासाते॥५॥ ये केचनाऽविदितपरमार्था धर्मार्थमुच्छ्रिता मातरं पितरं च त्यक्त्वा, मातापित्रोर्दुस्त्यजत्वात् तदुपादानम्, अन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेतिद्रष्टव्यम्।श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्या- | ऽग्निकार्य समारभन्ते पचनपाचनादिप्रकारेण कृतकारितानुमत्योद्देशिकादिपरिभोगाचाऽग्निकायसमारम्भं कुर्युरित्यर्थः / अथेति वाक्योपन्यासार्थः, आहुरिति तीर्थकृद्गणधरादय एवमुक्तवन्तः, यथा-सोऽयं पाषण्डिको लोको गृहस्थलोको वोऽनिकायसमारम्भात् कुशीलः कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा / अयं किंभूत इति दर्शयति अभूवन् भवन्ति भविष्यन्तीति भूतानि प्राणिनः, तान्यात्मसुखार्थ हिनस्तिव्यापादयति। तथाहि-पञ्चाग्नितपसा निष्टतदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति / तथा / लौकिकाः पचनपाचनादिप्रकारेणाऽग्निकार्य समारभमाणाः सुखमभिलषन्तीति // 5 // (6) अग्निकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितुमाहउज्जालओ पाण निवातएज्जा, निव्वावओ अगणि निवायवेजा। तम्हा उमेहावि समिक्ख धर्म, ण पंडिए अगणि समारभिजा॥६॥ तपनतापनादिप्रकाशहेतुं काष्ठादिसमारम्भेण योऽग्निकायं सगारभते सोऽनिकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरांस्त्रसांश्च प्राणिनो निपातयेत, त्रिभ्यो वा मनोवाक्कायेभ्य आयुर्बलेन्द्रियेभ्यो वा पातयेन्निपातयेत्, तथाऽग्निकायमुदकादिना निर्वापयेत् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेद्वा, तत्रोज्ज्वालकनिर्वापकयोर्योऽनिकायमुज्ज्वलयति स बहूनामन्यकायानां समारम्भकः / तथा चाऽऽगमः"दो भंते ! पुरिसा अन्नमन्नेण सिद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकायं उज्जालेइ, से एगे णं पुरिसे अगणिकायं निव्वावेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए अप्पकम्मतराए ? गोयमा ! तत्थणंजे से पुरिसे अगणिकायं उज्जालेइसे णं पुरिसे बहुतरागं पुढविकायं समारभति।एवं आउकायं वाउकायं वणस्सइकाय अप्पतरागं अगणिकायं समारभइ, तत्थ णं जे से पुरिसे अगणिकायं निव्वायेइ से णं पुरिसे अप्पतरागं पुढविकायं समारभइ जाव अप्पतरागं तसकायं समारभइ बहुतरागं अगणिकायं समारभइ। से एतेणं अटेणं गोयमा! एवं वुचई" / अपि चोक्तम्- “भूयाणां एसमाघाओ, हव्यवाहे ण संसओ"। इत्यादि / यस्मादेवं तस्मान्मेधावी सद्विवेकः सश्रुतिकः समीक्ष्य धर्म पापाडीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योऽग्निकायसमारम्भकृतात् पापानिवर्तत इति / / 6 / / कथमग्निकायसमारम्भेण अपरप्राणिवधो भवतीत्याशङ्ख्याहपुढवी वि जीवा आऊवि जीवा, पाणाइ संपाइम संपयंति। संसेयया कट्ठसमस्सिया य, एते दहे अगणि समारभंते // 7 / / न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवाः,याऽपि च पृथ्वी मृल्लक्षणा असावपिजीवाः, तथा आपश्च द्रवलक्षणा जीवाः, तदाश्रिताश्च प्राणाः संपातिमाः शलभादयस्तत्र संपतन्ति। तथा संस्वेदजाः करीषादिष्यिन्धनेषु घुणपिपीलिकाः कृम्यादयः काष्ठाद्याश्रिताश्च ये केचन, एतान् स्थावर-जङ्गमान् स दहेद्योऽग्निकार्य समारभतेऽतोऽग्निकायसमारम्भो महादोषायेति // 7 // एवं तावदनिकायसमारम्भकास्तापसास्तथा पाकादनिवृत्ताः शाक्यादयधोपदिष्टाः / साम्प्रतं ते चाऽन्ये वनस्पति समारम्भादनिवृत्ताः परामृश्यन्ते इत्याहहरियाणि भूताणि विलंबगाणि, आहारदेहाय पुढो सियाई। जे छिंदती आयसुहं पडुन, पगम्भि पाणे बहुणं-तिवाती।|| हरितानि दूर्वाऽङ्करादीन्येतान्यप्याहारादेवृद्धिदर्शनाद् भूतानि जीयाः। तथा-विलम्बकानीति जीवाकारं यानि विलम्बन्ते धारयन्ति / तथाहि-कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थान्तो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपकानि जीर्णानि परिशुष्काणि मृतानि, तथा वृक्षा अप्यकुरावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्यवस्थास्वायोज्यम्। तदेवं हरितादीन्यऽपि जीवाकारं विलम्बयन्ति तत एतानि मूलस्कन्धशाखापत्रपुष्पादिस्थानेषु पृथक प्रत्येकं व्यवस्थितानि, नतुमूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः / एतानि च भूतानि संख्येयाऽसंख्येयानन्तभेदभिन्नानि, वनस्पतिकायाश्रितान्याहारार्थ वा देहक्षतसंरोहणार्थ चात्मसुखं प्रतीत्याश्रित्य यश्छिनत्ति सप्रागल्भ्यात्धाटावष्टम्भादहूनां प्राणिनामतिपाति भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो नाऽप्यात्मसुखमित्युक्तं भवति // 8 // किञ्चजातिंच वुद्धिंच विणासयंते, बीयाइ अस्संजय आयदंडे / अहाहु से लोएँ अणजधम्मे, बीयाइजे हिंसति आयसाते || जातिमुत्पत्तिं, तथाऽङ्क रपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन, बीजानि च तत्फलानि विनाशयन् हरितानि च्छिनत्तीति / असंयतो गृहस्थः प्रवजितो वा, तत्कर्मकारी