________________ कुसील ६०८-अभिधानराजेन्द्र-भाग 3 कुसील भावओ / तत्थ दव्वे कुम्मासाई दव्वं गहेयव्वं / खेत्तओ गामे बहिं वा गामस्स, कालओ पढमपोरिसुमासु, भावओ कोहमाइसंपन्नोजंदेहं इमं गहिस्सामि। एवं उत्तरगुणा संखेवओ सम्मत्ता / संमत्तोयं संखेवेणं चरित्तायारो / तवायारो वि संखेवेणाहंतरगओ तहा वीरीयारो। एएसु चेव जाअहाणी पएसु पंचसु आयाराइयारेसु जं आयट्ठियाए दप्पओ मएओ कप्पेण वा अजयणाए वा जयणाए वा पडिसेवियं तं तहेवालोइत्ताणं, जं मग्गं वि उ गुरु उवइसंति, तं मुहा पायच्छित्तं णाणुचरेइ / एवं अट्ठारसएहं सीलंगसहस्साणां जं जत्थ एए पमत्ते भवेज्जा से णं ते णं पमायदोसेणं कुसीले जेए। महा०३ अ० / स्था० / ध० 20 / उत्त०। पार्श्वस्थादीनामन्यतमे, सूत्र०१ श्रु०६ अ० / आव० / वाङ्मात्रे णाविष्कृतवीर्ये, सूत्र०१ श्रु०४ अ०१ उ०। अन्यतीर्थिक, सूत्र०१ श्रु०१ अ०१ उ०। काथिकपश्यकसंप्रसारकमार्मकरूपेषु, सूत्र०१ श्रु०४ अ०१ उ० / निन्दितशीले (वृत्ते), तथाविधेषु द्यूतकारादिषु च / उक्तं च जूइयरसालमेंठावट्टाउडभामगाइणो जेयं / एते हंति कुसीला, वजेयव्या पयत्तेणं" / / आव०४ अ० / “जे एयं उंछं अणुगिद्धा अन्नयरा हुति कुसीलाणां। सुतवस्सिए विसे भिक्खु,नो विहरे सह णमित्थीसु" ||12|| सूत्र०१ श्रु०४ अ०१ उ०। “धुवमग्गमेव पवयंति वाया वीरियं कुसीलाणां"। सूत्र०१ श्रु०४ अ०१ उ० (4) अथ कुशीलपरिभाषाऽध्ययनोक्तं कुशीलवृत्तं लिख्यतेपुढवी य आऊअगणी य वाऊ, तणरुक्खवीया य तसा य पाणा। जे अंडया जे य जराउपाणा, संसेयया जे रसयसाभिहाणा||१|| पृथिवी पृथिवीकायिकाः सत्त्वाः, चकारः स्वगतभेदसंसूचनार्थः स चाऽयं भेदः / पृथिवीकायिकाः सूक्ष्मा बादराश्च / ते च प्रत्येक पर्याप्तकाऽपर्याप्तकभेदेन द्विधा / एवमप्कायिका अपि / तथाऽग्निकायिकाः, वायुकायिकाश्च द्रष्टव्याः / वनस्पतिकायिकान् भेदेन दर्शयतितृणानि कुशादीनि, वृक्षाश्चाश्वत्थादयो, बीजानि शाल्यादीनि, एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः / त्रस्यन्तीति तसा द्वीन्द्रियादवः प्राणिनो ये चाऽण्डाज्जाता अण्डजाः शकुनिसरीसृपादयः, ये च जरायुजा जम्बालषेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः। तथा संस्वेदाज्जाताः संस्वेदजा यूका मत्कुणकृम्यादयः, ये च रसजाभिधाना दधिसौवीरकादिषु रूतपक्ष्मसन्निभा इति॥१॥ नानाभेदभिन्नं जीवसंघातं प्रदाऽधुना तदुपघाते दोषं दर्शयितुमाहएयाई कायाई एवेदिताइँ, एतेसु जाणे पडिलेह सायं। एतेण काएण य आयदंडे, एतेसु या विप्परियासुविंति // 2 // (एयाइमित्यादि) एते पृथिव्यादयः काया जीवनिकाया भगवद्भिः प्रवेदिताः कथिताः, छान्दसत्वान्नपुंसकलिङ्गता। एतेषुच पूर्व प्रतिपादितेषु पृथिवीकायदिषु प्राणिषु सातं सुखं जानीहि / एतदुक्तं भवतिसर्वेऽपि सत्त्वाः सातैषिओदुःख द्विषश्चेति ज्ञात्वा प्रत्युपेक्षस्य कुशाग्रीयता बुद्ध्या पर्यालोचयेदिति। यथैभिः कायैः समारभ्यमाणैः पीडयमानैरात्मा दण्ड्यते तत्समारम्भादात्मदण्डो भवतीत्यर्थः / अथवैभिरेव कायैः ये आयतदण्डा दीर्घदण्डाः / एतदुक्तं भवति-एतान् कायान् ये दीर्घकालं दण्डयन्ति पीडयन्तीति तेषां यद्भवति तद्दर्शयति-ते एतेष्वेव पृथिव्यादिकार्येषु विविधमनेकप्रकारं परि समन्तादाशुक्षिप्रमुप सामीप्येन यान्ति व्रजन्ति, तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः।यदिवा विपर्यासो व्यत्ययः सुखार्थिभिः कायसमारम्भः क्रियते, तत्समारम्भेण च दुःखमेवाऽऽप्यते न सुखमिति। यदि वा कुतीर्थिका मोक्षार्थमेतैः कार्यर्या क्रियां कुर्वन्ति तया संसार एव भवतीति / / यथा चाऽसावायतदण्डो मोक्षार्थो तान्कायान् समारभ्य तद्विपर्यासात् संसारमाप्नोति तथा दर्शयतिजाईवहं अणु परिवट्टमाणे, तसथावरेहिं विणिघायमेति। से जाति जाति बहुकूरकम्मे, जं कुवती मिन्जति तेण बाले ||3|| (जाईवहमित्यादि) जातीनामेकेन्द्रियादीनां पन्थाः जातिपथः, यदि वा जातिरुत्पत्तिर्वधो मनरणं जातिश्च वधश्च वधश्च जातिवधं, तदनु परिवर्तमान एकेन्द्रियादिषु पर्यटन जन्मजरामरणानि वा बहुशोऽनुभवंस्त्रसेषु तेजोवायुद्वीन्द्रियादिषु स्थावरेषु च पृथिव्यम्बुवनस्पतिषुसमुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो विनिघातं विनाशमेत्यवाप्नोति, स आयतदण्डोऽसुमान् (जाति) जातिमुत्पत्तिमवाप्य बहूनि कूराणि दारुणान्यनुष्ठानानि यस्य स भवति बहुकूरकर्मा, स एवंभूतो निर्विवेकः सइसद्विवेकशून्यत्वात् बाल इव बालो यस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपभर्दकारि कर्म कुरुते स तेनैव कर्मणा मीयते भियते पूर्यते / यदि वा मीडू हिंसायां मीयते हिस्यते / अथवा बहुकूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव कर्मणा मीयते परिच्छिद्यत इति / / 3 / / व पुनरसौ तैः कर्मभिर्मीयते इति दर्शयतिअरिंस च लोए अदुवा परत्था, सयग्गसो वा तह अन्नाह वा। संसारमावन्न परं परं ते, बंधंति वेदंतिय दुनियाणि // 4 // (अस्सि चेत्यदि) यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जानाति जन्मनि विपाकं, अथवा परस्मिन् नरकादौ तस्य कर्मविपाकं ददत्येकस्मिन्नेव जन्मनि विपाकं तीव्र ददति (शताग्रशोवेति) बहुषु जन्मसुयेनैव प्रकारेण तदशुभमाचरति तथैवोदीर्यते / तथा अन्यथा वेति, इदमुक्तं भवति-किञ्चि-त्कर्म तद्भवत एव विपाकं ददाति, किञ्चिच जन्मान्तरे। यथा मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुङ्गश्रुतस्कन्धे कथितमिति दीर्घकालस्थितिकं स्वपरजन्मान्तरित वेद्यते येन प्रकारेण सकृत्तथैवाऽनेकशो वा, यदि वाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिक हस्तपादच्छेदादिकं चानुभूयत इति। तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिक संसारमापन्ना अरहट्टघटीयन्त्रन्यायेन संसारंपर्यटन्तः परंपरं प्रकृष्ट प्रकृष्ट दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपह