________________ कुलक(ग)र 566 - अभिधानराजेन्द्रः - भाग 3 कुलक(ग)र अथ भरतचक्रवर्तिकाले कियत्यो दण्डनीतयः प्रावर्तिषतेत्यत आहपरिहासणा उ पढमा, मंडलिबंधो उ होइ बीया उ। चारगछविछेयाई, भरहस्स चउव्विहा नीती। भरतस्य साम्राज्यानुभवनकाले चतुर्विधा दण्डनीतिरभूत् / तद्यथाप्रथमा स्वल्पापराधविषया परिभाषणा प्रागुक्तस्वरूपा भगवता आदिनाथेन प्रवर्त्तिता आसीत्। द्वितीया मण्डलिबन्धो मण्डलिबन्धाख्या आदिनाथेनैव प्रवर्त्तिता, साऽपि किञ्चिन्महापराधविषया। तृतीया चारकलक्षणा भरतेन माणवकविधि परिभाव्य प्रवर्तिता, सा गुरुतरापराधविषया। चतुर्थी छविच्छदादिका, आदिशब्दाच्छिरः कनादिपरिग्रहः / कुलकराणामुत्पत्तिः, "पलितोवमट्ठभागे, सेसम्मि य कुलगरुप्पत्ती" इति वचनात् / तत्र पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्पते, तस्याष्टमो भागः, पञ्च च, विधि परिभाव्य प्रवर्तिता, सागुरुतरापराधविषया, चतुर्थी छविच्छेदादिका। आदिशब्दाच्छिर:कर्त्तनादिपरिग्रहः / सा महापराधविषया, भरतेनैव माणवकनिधेः प्रवर्तितेति। अन्ये तु चतस्त्रोऽप्येताः दण्डनीतयो भरतेनैवोत्पादिता इति .. व्याचक्षते। आ०म०प्र०। पञ्चदशकुलकराणांतुतत्थ णं सुमई-पडिस्सुई-सीमंकर-सीमंधर-खेमंकराणां एतेसिं णं पंचण्हं कुलगराणं हक्कारे णामं दंडणीई होत्था। तेणं मणुआ हक्कारेणं दंडेणं हया समाणा लज्जिआ विलिआ विड्डा भीआ तुसिणा विणआउणया चिट्ठति। तत्थणं खेमंधरविमलवाहणचक्खुमंजसमअभिचंदाण एतेसिणं पंचण्हं कुलगराणं मक्कारणामं दंडणीई होत्था। तेणं मणुआ मक्कारेण दंडेण हया समाणा०जाव चिट्ठति। तत्थणं चंदाभपसेणईम-रुदेवणाभिउसभाणं एतेसिणं पंचण्हं कुलगराणं धिक्कारेणामंदंडणीई होत्था। तेणं मणुआ धिक्कारेणं दंडेणं हया समाणाजाव चिट्ठति॥ तेषु पञ्चदशसु कुलकरेषु मध्ये सुमतिप्रतिश्रुतिसीमकरसीमन्धरक्षेमंकराणामेतेषां पञ्चानां कुलकराणां हा इत्यधिक्षेपार्थकशब्दस्य करणं हाकारो नाम दण्डोऽपराधिनामनुशासनं तत्र नीतियायोऽभवत्। अत्रायं संप्रदायःपुरा तृतीयाऽऽरान्तकालदोषेण व्रतभ्रष्टानामिव यतीनां कल्पद्रुमाणां मन्दायमानेषु स्वदेहावयवेष्विव तेषु मिथुनानां जायमाने ममत्वेऽन्यत्स्वीकृतं तमन्यस्मिन् गृह्णाति, परस्परं जायमाने विवादे सदृशजनकृतपराभवमसहिष्णव आत्माधिक सुमतिं स्वामितया तेचक्रः, स च तेषां तान् विभज्य स्थविरोगोत्रिणं द्रव्यमिव ददौ, यो यः स्थितिमतिचक्राम तच्छासनाय जातिस्मृत्या नीतिज्ञत्वेन हाकारदण्डनीति चकार, तां च प्रतिश्रुत्यादत्वारोऽनुचक्रुरितिः, तया च ते कीदृशा अभवन्नित्याह-"तेणमि-त्यादि" ते (मणुजा णमिति) प्राग्वत्, हकारेण दण्डेन हताः सन्तो लज्जिता व्रीडिताः, व्यलीकिताः संजातव्यलीकाः। व्यलीकमपराधः ""विड्डा" इति विशेषतो जातव्रीडाः, लज्जाप्रकर्षवन्त इत्यर्थः / एते त्रयोऽपि पर्यायशब्दा लज्जाप्रकृष्टतावाचनयोक्ताः / भीता व्यक्तम्, तूष्णीका मौनभाजो विनयावनता न तूल्लण्छा इव निरस्त्रपा / निर्भया जल्पाका अहंयवश्च तिष्ठन्ति। ते अनेनैव दण्डेन हृतस्वमेवात्मानं मन्यमानाः पुनरपराधस्थाने न प्रवर्तन्त इत्याशयः / अत्र चादृष्टपूर्वशासनाना तेषां दण्डादिघातेभ्योऽप्यतिशायिसमर्माविच्छासनमिदमिति हता इति वचनम् / अथोत्तरकालवर्तिकुलकरकाले किं सैव दण्डनीतिरन्या वेत्याशङ्कायां समाधत्ते (तत्थ णमित्यादि) तत्र क्षेमंधरबिमलवाहनचक्षुशस्व्यभिचन्द्राणामेतेषां पञ्चानां कुलकराणां मा इत्यस्य निषेधार्थस्य करणमभिधानं माकारो नाम दण्डनीतिरभवत्। शेषं पूर्ववत् / आवश्यकादौ तुविमलवाहनचक्ष्मुष्मतोः कुलकरयोर्या हाकाररूपा दण्डनीतिः, यचाभिचन्द्रप्रसेनजितोरन्तराले चन्द्राभस्याकथनमित्याद्युत्तरं तद्वाचनान्तरेणेति। अयमर्थःक्रमेणातिसंस्तवादिना जीर्ण भीतिकत्वेन हाकारमतिक्रामस्तु अङ्कुशमिव गम्भीरवेदिषु गजेषु युग्मिषु क्षेमंधरः कुलकुञ्जरो दुश्चिकित्से हि चिकित्सान्तरं कार्यमिति द्वितीयां माकाररूपां दण्डनीतिं चकार / ते च विमलवाहनादयश्चत्वारोऽनुचक्रु / अत्र संपदायविदःमहत्यपराधपदे माकाररूपा इत्यभिप्रयेव / श्रीहेमसूरयस्तु ऋषभचरित्रे सप्तकुलकराधिकारे यशस्विवारके दण्डनीतिमाश्रित्याह "आगस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः। महीयसि द्वे अपि च, स प्रायुक्त महामतिः" ||1|| इत्याहुः। अथ तृतीयकुलकरपञ्चकव्यवस्थामाह-'तत्थ णमित्यादि / इदं सूत्र गतार्थ , नवरं धिगित्याक्षेपार्थ एव, तस्य करणमुच्चारणं धिकारः / संप्रदायस्त्वयम्-पूर्वनीतिमतिक्रामत्सु तेषु पामर्याद इव कामुकेषु च धिगनाम्नी धिक्कारदण्डनीतिं विदधे तां च प्रसेनजिदादयश्चत्यारोऽनुकृतवन्तः / महत्यपराधे धिक्कारो, मध्यमजधन्ययोस्तु माकारहाकाराविति। अन्यास्तुपरिभाषणाद्या भरतकाले, "परिभासणा उ पढमा,मंडलिबंधम्मि होइ बीआउ / चारगछविछेमाई, भरहस्स चउट्विहा नीई"। इति वचनात् / ऋषभाकाले इत्यन्ये। जं०२ वक्ष० / अतीतायामुत्सर्पिण्याम् - जंबूद्दीवेणं दीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगरा होत्था / तं जहा-"मित्तदामे सुदामे य, सुपासे य सयंपभे। विमलघोसे सुघोसे य, महाघोसे य सत्तमे" || स०। स्था०। अतीतायामवसर्पिण्याम्जंबूद्दीवेणं दीवे भारहे वासे तीयाए ओसप्पिणीए दस कुलगरा होत्था / तं जहा-"सयंजले सयाऊय, जियसेणाणसेण य / कजसेणे भीमसेणे, महासेणे य सत्तमे"|| दढरहे दसरहे सयरहे / स०। स्था०॥ आगमिष्यन्त्यामवसर्पिण्याम् - जंबूद्दीवे दीवे मारहे वासे आगमिस्साए ओसप्पिणीए दस कुलगरा भविस्संति / तं जहा-सीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे / संमुत्ती पडिस्सुए दढधणू सयधणू दसधणू / स्था०१० ठा०1 आगमिष्यन्त्यामुत्सार्पिपयाम् - जबूद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए सत्त कुलगरा भविस्संति / तं जहा-"मित्तवाहण सुभोमे य