________________ कुलक(ग)र 565 - अभिधानराजेन्द्रः - भाग 3 कुलक(ग)र शवंश्यान यावत् पूर्वदर्शितन्यायेनैकस्मिंश्चत्वारिंशत्तमेऽवशिष्टे भागेऽसंख्येयानि पूर्वाणि, तानि च यथोत्तरं हीनहीनानि। नाभेस्तु संख्येयानि पूर्वाणीत्यादि; इत्थं चाविरुद्धमिव प्रतिभाति / यत्तु हारिभद्रयामावश्यकवृत्तौ "पलिओवमदसमं सो पढमस्साउं तओ असंखिज्जा / ते आणुपुविहीणा पुव्वा नाभिस्स संखिज्जा" / 1 / / इति गाथाव्याख्याने मतान्तरेण नाभेरसंख्येयपूर्वायुष्कत्वमुक्तम्, तत्त कुलकरसमानायुष्कत्वेन कुलकरपत्नीनां मरुदेव्या अप्यसंख्यपूर्वायुष्कातापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितमस्तीतिनकोऽपिपरस्परं विरोधः / यथाऽऽवश्यकादिषु विमलवाहनस्य पल्यदशमांशयुष्कत्वं, तद्वाचनाभेदादवगन्तव्यम् / यच ग्रन्थान्तरे नामपाठे भेदः, सोऽपि तथैवेत्यत्र सर्ववित् प्रप्रमाणमित्यलं विस्तरेण। अथ प्रस्तुतमुपक्रम्यतेतद्यथेति / तान् नामतो दर्शयतिसुमतिः 1 प्रतिश्रुतिः 2 सीमंकरः 3 सीमंधरः 4 क्षेमकरः 5 क्षेमंधरः 6 विमलवाहनः 7 चक्षुष्मान्८ यशस्वी 6 अभिचन्द्रः 10 चन्द्राभः 11 प्रसेनजित् 12 मरुदेवः 13 नाभिः 14 ऋषभ इति। यत्पुनः पद्मचरित्रे चतुर्दशानां कुलकरत्वमभिहितम् अत्र तु पञ्चदशस्य ऋषभस्यापि, तद्भरतक्षेत्रप्रकरणे भरतभर्तुर्भरतनाम्नोऽपि महाराजस्य प्ररूपणा प्रकमितव्याऽस्तीतिज्ञापनार्थमिति। जं०२ वक्षः। कल्पवृक्षाःविमलवाहणेणं कुलकरे सत्तविहा रुक्खा उवओगत्ताए हव्वमागच्छिंसु / तं जहा-"मत्तंगयाय भिंगा, चित्तंगा चेव होंति चित्तरसा। मणियंगा य अणिअणा, सत्तमगा कप्परक्खा य"||१|| तथा विमलवाहने प्रथमकुलकरे सन्ति सप्तविधा इति / पूर्व दशविधा अभूवन (रुक्ख ति) कल्पवृक्षा (उवभोगत्ताए त्ति) उपभोग्यतया (हव्वं) शीघ्रमागतवन्तो भोजनादिसंपादेनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः। 'मत्तंगया य" गाहा। (मत्तंगया इति) मत्तं मदः तस्य कारणत्वाद् मद्यमिह मत्तशब्देनोच्यते, तस्याङ्गभूताः कारणभूताः, तदेवाङ्गमवयवो येषां ते मत्ताङ्गकाः सुखपेयमद्यदायिन इत्यर्थः / चकारः पूरणे। (भिंग ति) संज्ञाशब्दत्वात् भृङ्गारादिविविधभाजनसंपादका भृङ्गाः / (चित्तंग त्ति) चित्रस्यानेकविधस्य माल्यस्य कारणत्वात् चित्राङ्गाः। (चित्तरस ति) चित्रा विचित्रा रसा मधुरादयो मनोहारिणो येभ्यः सकाशात्संपद्यन्ते ते चित्ररसाः / (मणियंग त्ति) मणीनामाभरणभूतानामङ्गभूताः कारणभूता मणयो वाऽङ्गन्यवयवा येषां ते मण्यङ्गाः भूषणसंपादका इत्यर्थः / (अणियण त्ति) अनग्नकारकत्वादनमा विशिष्टय स्त्रादायिनः, संज्ञाशब्दौ वाध्यामिति / (कप्परुक्ख त्ति) उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पः, तत्प्रधाना वृक्षाः कल्पवृक्षा इति। अथैते कुलकरत्वं कथं कृतवन्त इत्याह (नीतिद्वारम्) सत्तविहा दंडणीई पण्णत्ता / तं जहा-हक्कारे मक्कारे धिक्कारे | परिभासे मंडलिबंधे चारए छविच्छेदे। (दंडनीइ त्ति) दण्डनं दण्डोऽपराधिनामनुशासनं, तत्र तस्य धा, स एव वा नीतिर्नयो दण्डनीतिः / (हकारे त्ति) हा इत्यधिक्षेपार्थः तस्य करणं / हकारः / असमर्थः प्रथमद्वितीयकुलकरकाले अपराधिनो दण्डो हक्कारमात्रं, तेनैवासी हृतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्तत इति, तस्य दण्डनीतिता / एवं मा इत्यस्य निषेधार्थस्य करणभिधानं माकारः / तृतीयचतुर्थकुलकरकाले महत्यपराधे माकारो दण्डः, इतरत्र तुपूर्व एवेति। तथा धिगधिक्षेपार्थ एव, तस्य करणमुच्चारणं धिक्कार, पञ्चभषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डः, जघन्यमध्यमापराधयोस्तु क्रमेण हक्कारमक्काराविति / आह च"पढमवितियाण पढमा. तइयचउत्थाण अभिणवा वीया। पंचमछट्टस्स य सत्तमस्स तइया अभिणवा उ।" इति / तथा परिभाषणं परिभाषा, अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानम् / तथा मण्डलबन्धोमण्डलमिङ्गितं क्षेत्रं, तत्र बन्धोनास्मात्प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणः पुरुषमण्डलपरिचारणलक्षणो वा। चारकं गुप्तिगृहमः छविच्छेदो हस्तपादनासिकाऽऽदिच्छेदः / इयमनन्तरा चतुर्विधा भरतकाले बभूव / चतसृणामन्त्यानामाद्यद्वयमृषभकाले, अन्ये तु भरतकाल इत्यन्ये / आह च- "परिभासणा उ पढमा, मंडलिबंधम्मि होइ वीयाओ। चारगछविछेदाई, भरहस्सचउविहानीई" ॥स्था०७ ठा। अधुना नीतिद्वारप्रतिपादनार्थमाहहकारे मक्कारे, धिक्कारे चेव दंडनीईउ। वोच्छं तासि विसेसं, जहक्कम आणुपुथ्वीए॥ हक्कारो मक्कारो धिक्कारश्चेति कुलकराणां दण्डनीतयः, ततो वक्ष्येतासां दण्डनीतीनां विशेष यथाक्रम,या यस्स तां तस्य वक्ष्ये इति भावः / तामपि तथा वक्ष्ये, आनुपूर्व्या परिपाट्या विमलवाहनादारभ्य क्रमेणेति यावत्। प्रतिज्ञातमेव करोतिपढमविइयाण पढमा, तइयचउत्थाण अहिणवा विइया। पंचमछट्ठस्स य सत्तमस्स तइया अहिणवा तु / / प्रथमद्वितीययोः, सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। कुलकरयोः प्रथमा हक्कारलक्षणा दण्डनीतिः।तृतीयचतुर्थयोः यशस्व्यभिचन्द्राख्ययोः कुलकरयोरभिनवा द्वितीया मक्कारलक्षणा दण्डनीतिः। किमुक्तं भवति ? स्वल्पापराधे प्रथमया दण्डः क्रियते, महापराधे द्वितीययेति / तथा पञ्चमषष्ठयोः सप्तमस्य च तृतीया धिक्कारख्या अभिनवा। एषा उत्कृष्टा, द्वितीया मध्यमा, प्रथमा जघन्या। एताश्च तिस्त्रोऽपि लघुमध्यमोत्कृष्टापराधेषु यथाक्रमं प्रवर्तिता इति। सेसा उदंडनीती, माणवगनिहीउ होइ भरहस्स। उसमस्स गिहावासे, असक्कतो आसि आहारो। शेषा चारकछविच्छेदलक्षणा दण्डनीतिर्भरतस्य माणवकनिधेः सकाशाद्भवति / इयमत्र भावना कोपाविष्करणेन "रे इतः स्थानान्मा यासीः" इत्येवं यत्परिभाषणं, यश्च मण्डलिबन्धौयथा नास्मात्प्रदेशाद्गन्तव्यमित्येवंरूपे द्वे दण्डनीती भगवता ऋषभस्वामिना प्रवर्तिते। चारकछविच्छेदाख्ये च द्वे दण्डनीती भरतेन माणवकनिधेरिति। इदं च नीत्युत्पादाभिधानमन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्याय इति ख्वापनार्थम्, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषनाथस्य गृहवासे आहार आसीदसंस्कृतः स्वभावसंपन्नः / भगवतो हि ऋषभस्वामिनो यावद्गृहवासस्तावद्देवेन्द्रादेशाद्देवा देवकुरुत्तरकुरुक्षेत्रयोः स्वादूनि फलानि, क्षीरोदसमुद्राच उदकमुप नीतवन्त इति।