________________ कुलक(ग)र 564 - अभिधानराजेन्द्रः - भाग 3 कुलक(ग)र यत आहसंघयणं संठाणं, उच्चत्तं चेव कुलगरेहि समं। वण्णेण एगवण्णा, सव्वाउ पियंगुवण्णातो।। संहननं, संस्थानम्, उच्चैस्त्वं चैव कुलकरैरात्मीयैरात्मीयैः सममनुरूप- | मासामधिकृतस्त्रीणां नवरंप्रमाणेन ईषन्न्यूना इति संप्रदायः / तथा वर्णन सर्वा अप्येकवर्णाः प्रियङ्गुवर्णा इति / गतं स्त्रीद्वारम्। इदानीमायुरिमाह - पलिओवमदसभागो, पढमस्साउं ततो असंखेज्जा। ते याणुपुविहीणा, पुष्वा नामिस्स संखिजा।। प्रथमस्य विमलवाहनस्यायुः पल्योपमदशभागः, तदनन्तरमन्येषां चक्षुष्मदादीनामसंख्येयानि, पूर्वाणीति संबध्यते / तान्यपि चानुपूर्व्या क्रमेण हीनानि / नाभेस्तु संख्येयानि पूर्वाण्यायुष्कमिति / अन्ये तु ध्याचक्षतेप्रथमस्य पल्योपमदशमभाग एवायुः ततो द्वितीयस्यासंख्येयाः पल्योपमासंख्येयभागा इति वाक्यशेषः। एवं चानुपूर्व्या हीनाः शेषाणामायुष्कं द्रष्टव्यम्, तावद् यावत्संख्येयानि पूर्वाणि नाभेरायुष्कमित्यविरुद्धम्। अपरे व्याचक्षते प्रथमस्यायुः पल्योपमदशभागः, ततोऽसंख्ये इति शेषाणां समुदितानां पल्योपमासंख्येयभागाः / किमुक्तं भवति ? द्वितीयस्य पल्योपमासंख्येयभाग आयुः शेषाणां तत एवासंख्येयभागः असंख्येयभागः पात्यते तावद्यावन्नाभेरसंख्येयानि पूर्वाणि / तदेतदपव्याख्यानम् / कथमिति चेत् ? उच्यते-इह पल्योपमाष्ट भागे अशेषकुलकराणामुत्पत्तिः पलितोवमट्ठभागे, सेसम्मि य कुलगरुप्पत्ती / / इति वचनात् / तत्र पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागः पञ्च चत्वारिंशद्भागाः तत्रापि प्रथमस्य विमलवाहनस्यायुः पल्योपमदशभागः, ततश्चत्वारश्चत्वारिंशद्भागास्तदायुषि गताः, शेष एकः पल्योपमस्य चत्वारिंशत्तमः संख्येयो भागोऽवतिष्ठते, स च चक्षुष्मदादिगतैः पञ्चभिरसंख्येय भागैर्न पूर्यते इत्यपव्याख्या। अथ अतएव नामेरसंख्येयानि पूर्वाण्यायुष्कमुक्तमिति। इदमयुक्तं तूक्तम्। यतो मरुदव्याः संख्येयानिवर्षाण्यायुरसंख्येयवर्षायुषां केवलज्ञानाभावात् ततो नाभेः संख्येयवर्षायुष्कत्वमेव कुलकराणां कुलकरपत्नीनां च, समानायुष्कत्वात्। तथाचाहजं चेव आउयं कुलगराण तं चेव होइ तासिं पि। जं पढमगस्स आऊ, तावइयं होइ हत्थिस्स / / यदेवायुष्कं कुलकराणां प्रामुक्तं, तदेव भवति तासामपि कुलकराङ्गनागां, संख्यासाभ्याच तदेवेत्यभिधीयते, यावता प्रत्येकं भिन्नमेव प्राणिनामायुः, तथा यत्प्रथमस्य कुलकरस्य विमलवाहनाख्यस्यायुस्तावदेव भवति हस्तिनः। एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यम्। भागः-- संप्रतिभागद्वारं वक्तव्यम्-यथा कः कस्य सर्वायुष्ककुलकरकाल इति। तत्रेदमाह जं जस्स आउयं खलु, तं दसभागे समं वि भइऊणं / मज्झिल्लट्ठतिभागे, कुलगरकालं वियाणाहि / / यद् यस्य कुलकरस्थाऽऽयुस्तत् खलु दशभागान् समं विभज्य मध्यमेऽष्टभागात्मके त्रिभागे कुलकरकालं विजानीहि। अमुमेवार्थ प्रकटयन्नाहपढमो य कुमारत्ते, भागो चरिमो य वुड्वभावम्मि। ते पयणुपेजदोसा, सव्वे देवेसु उववन्ना / / तेषां दशानां भागानां मध्ये प्रथमो भागः कुमारत्वे भवति, चरमो वृद्धभावे, शेषा मध्यमा अष्टौ भागाः कुलकरकाल इति। गतं भागद्वारम्। उपपातःउपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः प्रेम रागो, द्वेष प्रसिद्धः सर्वे विमलवाहनादयो देवेषूपपन्नाः। तत्रन ज्ञायते केषु देवेषूपपन्ना इत्यत आह - दो चेव सुवण्णसुं, उयहिकुमारेसु होति दो चेव / दो दीवकुमारेसुं, एगो नागेसु उववण्णो। द्वौ आधौ विमलवाहनचक्षुष्मदभिघानौ सुपर्णेषु देवेषूत्पन्नौ, द्वावेव च यशस्व्यभिचन्द्राख्यावुदधिकुमारेषु भवतः, द्वौ प्रसेनजिन्मरुदेवाख्यौ द्वीपकुमारेषु, एको नाभिनामा सप्तमकुलकरो नागेषूपपन्नः। ___ संप्रति कुलकरस्त्रीणां हस्तिनां चोपपातमभिधित्सुराहहत्थी छचित्थीओ, नागकुमारेसु होंति उववन्ना। एगा सिद्धिं पत्ता, मरुदेवी नामिणो पत्ती।। हस्तिनः सप्तापि, षट् च स्त्रियश्चन्द्रयशाप्रभृतयो नानकुमारेषूपपन्ना। अन्ये तु प्रतिपादयन्ति-एक एव हस्ती, षट् स्त्रियो, नागेषूपपन्नाः शेषाणामिहाऽनभिधानमेवेति। एका सप्तमी मरुदेवी नाभेः सिद्धि प्राप्ता। उक्तुमुपपातद्वारम् / आ० म०प्र०। जम्बूद्वीपप्रज्ञप्तया पञ्च्चदश कुलकरास्तेषां नामायुरादीनितीसे णं सामाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसा, एत्थ णं इमे पण्णरस कुलगरा समुप्पज्जित्था / तं जहा-सु-मई 1 पडिस्सुई 2 सीमंकरे 3 सीमंधरे 4 खेमंकरे 5 खेमंधरे 6 विमलवाहणे 7 चक्खुमं 8 जसमं 9 अमिचंदे 10 चंदाभे 11 पसेणई 12 मरुदेवे 13 णामी 14 उसमे 15 त्ति। अत्राह कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणामभिधानादिह पञ्चदशानां तेषामनिधानं कथम्? यदि वा भवतु नामैतत्, पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्णानस्य न्याय्यत्वात् पर पल्योपमाष्टमभागावशिष्टतावचनं कालस्य सुतरां बाधते, अनुपपत्तेः / तथहिपल्योपमं किलाऽसत्कल्पनया चत्वारिंशद्भागं परिकल्प्यतेऽस्याष्टमो भागश्चत्वारिंशद्भागाः पञ्चातत्राप्याद्यस्य विमलवाहनस्यायुः पल्योपमदशमभागः ततश्चत्वारश्चत्वारिशभागास्तदायुषि गताः शेष एकः पल्योपमस्य चत्वरिंशत्तमः संख्येयो भागोऽवतिष्ठते, स चक्षुष्मदादी नामसंख्येय पूर्वभिः, संख्येयपूर्व श्री ऋषभस्वामिनश्चतुरशीत्या पूर्वलक्षैः शेषैश्चैकोननवत्या पक्षैः परिपूर्य्यत; तेन पूर्वेषां सुयमत्यादिकुलकराणां महत्तमायुषां क्वावकाशः? उच्यते आद्यस्य सुमतेस्तावत्पल्यदशमायुः ततो द्वाद