SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ कुलक(ग)र 563 - अभिधानराजेन्द्रः - भाग 3 कुलक(ग)र कुलकराणां पूर्वभवा वक्तव्याः, ततो जन्म, तदनन्तरं नामानि, तत्प्रमाणानि, तदनन्तरं संहननं वक्तव्यम्, एवशब्दः पूरणार्थः / तथा संस्थानं, ततो वर्णाः प्रतिपादयितव्याः, तदनन्तरं स्त्रियः, तत आयुर्वक्तव्यम्, ततो भागा वाच्याः-कस्मिन् वयोभागे कुलकराः संवृत्ता इति / भवनेषु उपपातो वक्तव्यः, भयनग्रहणं भवनपतिनिकायेषु तेषामुपपातो नान्यत्रेति प्रदर्शनार्थम्, तथा नीतिश्च या यस्स हकारादिलक्षणा सा तस्य वक्तव्येतिगाथाऽक्षरार्थः। अवयवार्थतुप्रतिद्वार स्वयमेव वक्ष्यति। तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाहअवरविदेहे दो वणियवयंसा माइ उजुगे चेव। कालगया इह भरहे, हत्थी मणुओ य आयाया।। द8 सिणेहकरणं, गयमारुहणं च नामनिव्वुत्ती। परिहाणि गेहि कलहो, सामत्थण विनवण हत्ति // अपरविदेहे द्वौ वणिगवयस्यावभूताम् / तद्यथा एको मायी, अपरश्च ऋजुः, तौ च कालगताविह भरते आयातौ, मायी हस्ती, इतरो मनुष्य इति / ततो दृष्ट्वा परस्परं स्नेहकरणं, ततो गजारोहणं, तदनन्तरं नामनिर्वृत्तिः / गच्छता च कालेन कल्पद्रुमाणां परिहाणिः ततः प्रभूता प्रभूततरा गृद्धिः, तदनन्तरं कलहः ततः,"सामत्थणंति' देशोवचनमेतत् / पर्यालोचनमित्यर्थः / ततो विज्ञपना, तदनन्तरं हा इति हक्कारलक्षणा या नीतिः प्रवृत्तिः। भावार्थः कथानकादवसेयः। तश्चेदम्"अवरविदेहे दो मित्ता वाणिया, तत्थेगो माई, इयरो उज्जुगो ते पुण एगतो चेव ववहरंति। तत्थ जो माई सो तं उज्जुगं अइसंधेइ, इयरो सव्वमगूढतो सम्मेववहरइ। दो विपुण दाणरुई, ततो सो उल्लुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो जातो। वंको पुण तम्मिचेव पएसे हत्थिरयणं / सोय सेतो वयणेणंच उट्ठतोय। जाहे ते दो विपडुप्पण्णसरीरगा जाया ताहेते हिंडिउमारद्धा, तेण य हत्थिणा हिंडतेण सो मिहुणगो दिट्टो, दखूण य से परमा पीई उप्पन्ना, तंच से अभिओगनिव्वत्तियं कम्म उदिन्नं, ततोतेण मिहुणगं खंधे विलइयं / ततो सव्वेण लोगेण तं मिहुणगं तहारूवं दवण अम्हहिंतो मणूसो एसो, इमंच से विमलं वाहणं, तिसे विमलवाहण त्ति नाम कयं, तेसिं च जाईसरणं च जायं, ताहे कालदोसेण इमे सत्त कप्परुक्खा परिहायति-"मत्तंगया य भिंगा, चित्तंगा चेव तह य चित्तरसा। गेहागारअणिगणा, सत्तमया कप्परुक्ख ति" ||1|| तेसु परिहायंतेसुकसाया उप्पण्णा / अयं मम, मा इत्थ कोइ अल्लियज इति भणिउं पवित्ता, जो ममीकयमल्लियइ, तेण इयरो कसाइजइ, ततो परोप्परमसंखडं ताहे चिंतिंतिकंचि अहिवई उवेमो, जो ववत्थाइ, ठवेइ ताहेहिं सो विमलवाहणो, एस अम्हेहितो अहिवो इति अहिवई ठवितो। ताहे तेण तेसिं रुक्खा विरिका, भणिया यजो तुब्भं एयामरं अइमइ.तं मम कहेजह, जेणाहं से दंडं वत्तेमि, सो वि कहं जाणइ, भण्णइसो जाइस्सरो तं वणियत्तं सारइ, तेण जाणइ, ताहे तेसिं जो वि अवरज्झइ सो तस्स कहिज्जइ, ताहे सोतेहिं दंडं वत्तेइ, सो पुणदंडो हक्कारो-हा तुमे दुडु कय ति। ताहे सोजाणइ, अहं सव्वस्सहरणो कतो, वरं हतो होतो, सीसंवा मे वरं छिन्नं होतं, न य परिसं विडवणं पावितो त्ति। एवं बहुं कालं हक्कारदंडो अणुवत्तितो, तस्स यचंदजसा, तीए समं भोगे जंतस्स अवरं मिहुणं जायं, तस्स वि कालंतरेण अवरं, एवं ते एगवंसम्मि सत्त कुलगरा उप्पन्ना / / "पूर्वभवाः खल्वमीषां प्रथमानुयोगतोऽवसेयाः, जन्मपुनरिहैव सर्वेषां द्रष्टव्यम्, व्याख्यातं पूर्वभवजन्मरूपं द्वारद्वयम्। आ० म०प्र०। संप्रति कुलकरनामप्रतपादनार्थमाह - जंबूद्दीवे दीवेभारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा होत्था / तं जहा-पदमित्थ विमलवाहण, चक्खुम जससं चउत्थमभिचंदे। तत्तो पसेणई पुण, मरुदेवे चेव नाभी य / / 1 / / स्था०७ ठा०। प्रथमोऽत्र विमलवाहनो, द्वितीयश्चक्षुष्मान्, तृतीयो यशस्वी, चतुर्थोऽभिचन्द्रः, पञ्चमः प्रसेनजित्, षष्ठो मरुदेवः, सप्तमोनाभिरिति। गतं नामद्वारम् / आ० म०प्र०। आ० चू०। आ० क०। अधुना प्रमाणद्वारावयवार्थमभिधित्सुराह - नवघणुसयाइ पढमो, अट्ठय सत्तद्धसत्तमाइंच! छ चेव अद्धछट्ठा, पंच सया पण्णवीसाओ। प्रथमो विमलवाहन उचैरत्वेन नवधनुःशतानि, द्वितीयश्चक्षुष्मान अष्टौ धनुःशतानि, तृतीयो यशस्वी सप्तधनुःशतानि, चतुर्थोऽभिचन्द्रोऽर्द्धसप्तमानि धनुःशतानि, पञ्चमः प्रसेनजित् षट्धनुःशतानि, षष्ठो मरुदेवोऽर्द्धषष्ठानि धनुःशतानि, सप्तमो नाभिः पञ्चविंशानिं पञ्चविंशत्यधिकानि पञ्चधनुःशतानि 525 गतं प्रमाणद्वारम् / अधुना संहननसंस्थानप्रतिपादनार्थमाह - वजरिसभसंघयणा, समचउरंसा य हों ति संठाणे। वण्णं वि य वोच्छामी, पत्तेयं जस्स जो आसी॥ सर्वएव विमलवाहनादयो वर्षभसंहननाः; संस्थाने च चिन्त्यमाने समचतुरस्त्राश्च भवन्ति। वर्णद्वारसंबन्धामिधानार्थमाह(वर्णः) “वण्णं वीत्यादि" वर्णमपिच वक्ष्ये प्रत्येक यस्यय आसीदिति। प्रतिज्ञातमेव निर्वाहयतिचक्खुम जससं च पसेणई य एए पियंगुवण्णाभा। अभिचंदो ससिगोरा, निम्मलकणगप्पभा सेसा / / चक्षुष्मान् यशस्वी प्रसेनजित् एते द्वितीयतृतीयपञ्चमाः प्रियङ्डवर्णा इवाभा छाया येषां ते तथा प्रियडश्यामाः। अभिचन्द्रश्चतुर्थः कुलकरः शशिवद् गौरः / निर्मलकनकवत् प्रभा छाया येषां ते तथा शेषा विमलवाहनमरुदेवनाभयः / गतं वर्णद्वारम् / आ० म०प्र०। स्त्रीद्वारप्रतिपादनार्थमाह - एतेसिणं सत्तएहं कुलगराणं सत्त भारिआ होत्था / तं जहाचंदजस चंदकता, सुरूवपडिरूवचक्खुकंता य / सिरिकंता मरुदेवी, कुलगरइत्थीण णामाई // 1 / / स०। स्था०। विमलवाहनस्य पत्नी चन्द्रयशाः चक्षुष्मतश्चन्द्रकान्ता, यशस्विनः सुरूपा, अभिचन्द्रस्य प्रतिरूपा, प्रसेनजितश्चक्षुष्कान्ता, नाभेर्मरुदेवी। इमानि यथाक्रम कुलकरपत्नीनां नामानि, एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy