________________ कुतक्क 582 - अभिधानराजेन्द्रः - भाग 3 कुतक्क तीन्द्रियार्वानां धर्मार्थानां सिद्ध्यर्थनास्य कुतर्कस्य कुत्रचिदवकाशः।।१२।। शास्त्रस्यैवाऽवकाशोऽत्र, कुतर्काग्रहतस्ततः। शीलवान् योगवानत्र, श्रद्धावाँस्तत्त्वविद् भवेत्॥१३।। तत्त्वतः शास्त्रभेदश्च, न शास्त्रीणामभेदतः। मोहस्तदधिमुक्तीनां, तद्भेदाश्रयणं ततः॥१४॥ (शास्त्रस्येति) अत्रातीन्द्रियार्थसिद्धौ शास्त्रस्यैवावकाशः तस्यातीन्द्रियार्थसाधनसमर्थत्वाच्छुस्कतर्कस्यातथात्वात्। तदुक्तम् 'गोचरस्त्वागमस्यैव, ततस्तदुपलब्धितः / चन्द्रसूर्योपरागादि संवाद्यागमदर्शनात्" // 1 // ततस्तस्मात् कुतर्काग्रहतोऽत्रशास्त्रे श्रद्धावान् शीलवान् परद्रोहविरक्तियोगवान् सदायोगतत्परः तत्त्वविद्धर्माद्यतीन्द्रियार्थदर्शी भवेत् // 13 // ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धाऽपि स्यादित्यत आह (तत्त्वत इति) तत्वतो धर्मवादापेक्षया तात्पर्यग्रहाच्छास्त्रभेदश्च नास्ति। शास्तृणां धर्मप्रणेतृणामभेदतः तत्तन्नयापेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाभिमानात्। अत एवाह ततस्तस्मात्तदधिमुक्तीनां शास्तृश्रद्धावतां तद्भेदाश्रयणं शास्तृभेदाङ्गीकरणं मोहोऽज्ञनं, निर्दोषत्वेन सर्वेशामैकरूप्यात्। तदुक्तम् "नतत्त्वतो भिन्नमताः, सर्वज्ञा बहवो यतः। मोहस्तदधिमुक्तीनां, तभ्देदाश्रयणं ततः" ||1||14 // सर्वज्ञो मुख्य एकस्तत्-प्रतिपत्तिश्च यावताम् / सर्वेऽपि ते तमापन्नाः, मुख्यं सामान्यतो बुधाः ||15|| न ज्ञायते विशेषस्तु, सर्वथाऽसर्वदर्शिभिः। अतो न ते तमापन्नाः, विशिष्य भुवि केचन ||16|| (सर्वज्ञइति) सर्वज्ञो मुख्यस्ताविकाराधनाविषय एकः, सर्वज्ञत्वजात्यविशेषात्। तदुक्तम् "सर्वज्ञो नाम यः कश्चित्, पारमार्थिक एव हि। स एक एव सर्वत्र, व्यक्तिभेदेऽपि तत्त्वतः॥१॥ तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तदर्शनस्थानां ते सर्वेऽपि बुधास्तं सर्वज्ञं मुख्यं सामान्यतो विशेषानिर्णयेऽप्यापना आश्रिताः, निरतिशयितगुणवत्वेन प्रतिपतेर्वस्तुतः सर्वज्ञविषयकत्वाद् गुणवत्ताऽवगाहननैव तस्या भक्तित्वाच / यथोक्तम् "प्रतिपत्तिस्ततस्तस्य, सामान्येनैव यावताम् / ते सर्वेऽपि तमापन्नाः इति न्यायगतिः परा'' ||1||15 / / (नेति) विशेषस्तु सर्वज्ञज्ञानादिगतभेदस्तु असर्वदर्शिमिश्छद्मस्थैः सर्वथा सर्वैः प्रकारैःन ज्ञायते अतोनते सर्वज्ञाभ्युपगन्तारस्तं सर्वज्ञमापन्ना आश्रिताः, विशिष्य भुवि पृथिव्यां केचन / तदुक्तम् “विशेषस्तु पुनस्तस्य, कात्स्न्येनासर्वदर्शिभिः। सर्वैर्न ज्ञायते तेन, तमापन्नोन कश्चन" ||1||16|| अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा तुल्यतैव भावनीयेत्याहसर्वज्ञप्रतिपत्यंशमाश्रित्याऽमलया धिया। निजि तुल्यता भाव्या, सर्वतन्त्रेषु योगिनाम्॥१७।। अवान्तरभेदस्तु सामान्याविरोधीत्याहदुराऽसन्नादिभेदोऽपि, तभृत्यत्वं निहन्ति न / एको नामादिभेदेन, भिन्नाचारेष्वपि प्रभुः॥१८॥ (सर्वज्ञेति) सर्वज्ञे प्रतिपत्यंशमाश्रित्य, अमलया रागद्वेषमलरहितया धिया बुद्ध्या निर्व्याजमौचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या, सर्वतन्त्रेषु सर्वदर्शनेषु योगिनां मुमुक्षूणाम्। तदुक्तम् "तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि। निर्व्याजंतुल्य एवासौ, तेनांशेनैव धीमता' / / 1 / 17 / / (दूरेति) दूराऽऽसन्नादिभेदस्तु तभृत्यत्वं सर्वज्ञोपासकत्वं न निहन्ति, एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाविशेषवत् प्रकृतोपपत्तेः / भिन्नाचारष्वपि तथाधिकारभेदेन नानाविधानुष्ठानेष्वपि योगिषु नामादीनामर्हदादिसंज्ञादीनां भेदेन एकः प्रभुरुपास्यः / तदुक्तम्"यस्तैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः। दूरासन्नादिभेदेऽपि, तभृत्याः सर्व एव ते॥१॥ सर्वज्ञतत्वाभेदेन, तथा सर्वज्ञवादिनः। सर्वे तत्तत्त्वगा ज्ञेयाः, भिन्नाचारस्थिता अपि||२|| न भेद एव तत्त्वेन, सर्वज्ञानां महात्मनाम्। तथा नामादिभेदेऽपि, भाव्यते तन्महात्मभिः" ||3||18|| देवेषु योगशास्त्रेषु, चित्राचित्रविभागतः। भक्तिवर्णनमप्येवं, युज्यते तदभेदतः / / 16 / / संसारिषु हि देवेषु, भक्तिस्तत्कायगामिनाम्। तदतीते पुनस्तत्वे, तदतीतार्थयायिनाम् // 20 // (देवेष्विति) एवमिष्टाऽनिष्टनामभेदेऽपि, तदभेतः तावतः सर्वज्ञाभेदात्, योगशास्त्रेषु सौवाध्यात्मचिन्ताशास्त्रेषु लोकपाल मुक्तादिषु चित्राचित्रविभागतो भक्तिवर्णनं युज्यते / तदुक्तम् 'चित्राचित्रविभागेन, यच्च देवेषु वर्णिता / भक्तिः सद्योगशास्त्रेषु, ततोऽप्येवमिदं स्थितम्' ||1||16 // (संसारिष्विति) संसारिषु हि देवेषु लोकपालादिषु भक्तिः सेवा तत्कयगामिनां संसारिदिवकायगामिनाम्, तदतीते पुनः संसारातीते तु तत्त्वे तदतीतार्थयायिनां संसारातीतमार्गगामिनां योगिनां भक्तिः।।२०।। चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता। अचित्रा चरमे त्वेषा, शमसाराऽखिलैव हि // 21 // इष्टापूर्तीनि कर्माणि, लोके चित्राऽभिसन्धितः। फलं चित्रं प्रयच्छन्ति, तथाबुद्ध्यादिभेदतः।।२२।। (चित्रा चेति) चित्रा च नानाप्रकारा च, आद्येषु सांसारिकेषु देवेषु तादागतदन्यद्वेषाभ्यां स्वाभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता युक्ता, मोहगत्वात् / अचित्रा एकाकारा चरमे तु तदतीते तु. एषा भक्तिः, शमसारा शमप्रधानाऽखिलैव हि तथासंमोहाभावादिति / / 21 / / (इष्टापूर्तानीति) इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः संसारिदेवस्थानादिगतविचित्राध्यवसायात् मृदुमध्याधिमात्ररागादिरूपात्, तथा बुद्ध्यादीनां वक्ष्यमाणल क्षणानां भेदतः फलं चित्रं नानारूपं प्रयच्छन्ति, विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तरुपायस्यानुष्ठानस्याभिसन्ध्यादिभेदेन विचित्रत्वात्। तदुक्तम् "संसारिणां हि देवानां, यस्माचित्राण्यनेकधा। स्थित्यैश्वर्यप्रभावादौ,स्थानानि प्रतिशासनम्।।१।। तत्तस्मात्साधनोपायो, नियमाश्चित्र एव हि। न मिन्ननगराणां स्या-देकं वर्त्म कदाचन // 2 // 22 //