SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ कुतक 583 - अभिधानराजेन्द्रः - भाग 3 कुतक बुद्धिनिमसंमोह-स्त्रिविधो बोध इष्यते / रत्नोपलम्मतज्ज्ञान-तदवाप्तिनिदर्शनात्॥२३|| आदरः करणे प्रीति-रविघ्नः संपदागमः। जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् // 24 // (बुद्धिरिति) बुद्धिस्तथाविधोहरहितं शब्दार्थश्रवणमात्रजंज्ञानम्। यदाह "इन्द्रियार्थाश्रया बुद्धिः"ज्ञानंतथाविधोहेन गृहीतार्थतत्त्वपरिच्छेदनम्। तदाह-"ज्ञानं त्यागमपूर्वकम्" असंमोहोहेयोपादेयत्यागोपादानोपहित ज्ञानम् / यदा-ह''सदनुष्धनवचैतदसंमोहोऽभिधीयते।" एवं त्रिविधी बोध इष्यते स्वस्वपूर्वाणां कर्मणां भेदसाधकः "तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम्" इति वचनात्। रत्नोपलम्भतज्ज्ञान तदवाप्तीनां निदर्शनात् / यथा ह्युपलम्भादिभेदाद् रत्नग्रहणभेदस्तथा प्रकृतेऽपि बुद्ध्यादिभेदादनुष्ठानभेद इति॥२३॥ (आदर इति) आदरो यत्नातिशय इष्टाप्तौ करणे प्रीतिरभिष्वङ्गात्मिका अविघ्नः करण एवादृष्टसाम •दपायाभावः संपदागमस्तत एव शुमभावपुण्यसिद्धेः जिज्ञासा इष्टादिगोचरातज्ज्ञसेवा चेष्टादिज्ञसेवा,चशब्दात्तदनुग्रहः / एतत्सदनुष्ठानलक्षणं तदनुबन्धसारत्वात्॥२४॥ भवाय बुद्धिपूर्वाणि, विपाकविरसत्वतः। कर्माणि ज्ञानपूर्वाणि, श्रुतशक्त्या च मुक्तये / / 24 / / असंमोहसमुत्थानि, योगिनामाशु मुक्तये। भेदेऽपि तेषामेकोऽध्वा, जलधौ तीरमार्गवत्॥२६॥ (भवायेति) बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्वविवेकानादरात् विपाकस्य विरसत्वतो भवाय संसाराय भवन्ति / तदुक्तम् "बुद्धिपूर्वाणि कर्माणि, सर्वाण्येवेह देहिनाम् / संसारफलादान्येव, विपाकविरसत्वतः" / / 1 / / ज्ञानपूर्वाणि च तानि तथा- विवेकसंपत्तिजनितया श्रुतशक्त्याऽमृतशक्तिकल्पया मुक्तये निः श्रेयसाय। यदुक्तम् "ज्ञानपूर्वाणि तान्येव, मुक्तयङ्गं कुलयोगिनाम् / श्रुतशक्तिसमावेशादनुबन्धफलत्वतः" ||1|| 25 / / (असंमोहेति) असंमोहसमुत्थानि तु कर्माणि योगिनां भावातीतार्थयायिनामाशु शीघ्रं न पूनर्ज्ञानपूर्वकवदभ्युदयलाभव्ययधानेऽपि मुक्तये भवन्ति। यथोक्तम् - "असंमोहसमुत्थानि, त्वेकान्तपरिशुद्धितः। निर्वाणफलदान्याशु, भवातीतार्थयायिनाम्।।१।। प्राकृतेष्विह भावेषु, येषां चेतो निरुत्सुकम् / भवभोगविरक्तास्ते, भवातीतार्थयायिनः" ||2|| भेदेऽपि गुणस्थानपरिणतितारतम्येऽपि तेषां योगिनामेकोऽध्या एक एव मार्गः जलधौ समुद्रेतीरमार्गवदूरासन्नादिदिभेदेऽपि तत्त्वतस्तदैक्यात्। प्राप्यस्य मोक्षस्य सदाशिव परब्रह्मसिद्धात्मतथतादिशब्दैर्वाच्यस्य शाश्वतशिवयोगातिशयितसद्भावालम्बनबृहत्वबृहकत्वनिष्ठितार्थत्वाकालतथाभावाद्यर्थाभेदेनैकत्वात्तन्मार्गस्यापि तथात्वात्। तदुक्तम् - "एक एव तु मार्गोऽपि, तेषां शमपरायणः। अवस्थाभेदभेदेऽपि, जलधौ तीरमार्गवत्॥११॥ संसारातीततत्त्वं तु, परं निर्वाणसंज्ञितम्। तथैकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः॥२॥ सदाशिवः परब्रह्म, सिद्धात्मा तथतेति च। शब्दैस्तदुच्यतेऽन्वर्था-देकमेवैवमादिभिः / / 3 / / तल्लक्षणाविसंवादा निराबाधमनामयम् / निष्क्रिय च परं तत्त्वं, यतो जन्माद्ययोगतः।।४।। ज्ञाते निर्वाणतत्त्वेऽस्मिन, न संमोहेन तत्त्वतः। प्रेक्षावतां न तद्भक्तौ, विवाद उपपद्यते" ||5||26|| तस्मादचित्रभक्त्याऽऽप्याः, सर्वज्ञान मिदामितः। चित्रा गीर्भववैद्यानां, तेषां शिष्यानुगुण्यतः॥२७|| तयैव बीजाधानादेर्यथामव्यमुपक्रिया। अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि भेदतः॥२८|| चित्रा वा देशना तत्तन्नयैः कालादियोगतः। यन्मूला तत्प्रतिक्षेपाऽयुक्तो भावमजानतः।।२९।। (तस्मादिति) तस्मात्सर्वेषां योगिनामेकमार्गगामित्वाद् अचित्रभक्त्या एकरूपया भक्त्या, आप्याः प्राप्याः सर्वज्ञान भिदामितान भेदं प्राप्ताः / तदुक्तम् / "सर्वज्ञपूर्वकं चैतन्नियमादेव यत् स्थितम् / आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत्॥१॥ कथं तर्हि देशनाभेदः ? इत्यत आह-तेषां सर्वज्ञानां भववैद्यानां संसाररोगभिषगवराणां चित्रा नानाप्रकारा, गीः शिष्यानुगुण्यतो विनेयाभिप्रायानुरोधात्ः यथा वैधा बालादीन् प्रति नैकमौषधमुपदिशन्ति, किं तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तरापायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना, सुगतादीनां तु भोगाऽऽरथावतोऽधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना देशनेति, न तु तेऽन्वयव्यतिरेकवस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः। तदुक्तम् "चित्रा तु देशनैतेषां, स्याद्विनेयानुगुण्यतः / यस्मादेते महात्मानो, भवव्याधिभिषग्वराः'' // 27 // (तयैवेति) तयैव चित्रदेशनयैव बीजाधानादेर्भवोद्वेगदिभावलक्षणात्, यथाभव्यं भव्यसदृशमुपक्रिया उपकारो भवति / यदुक्तम् "यस्य येन प्रकारेण, बीजाधानादिसंभवः / साधुबन्धो भवत्येते, तथा तस्य जगुस्ततः" ||1|| एकस्या वा तीर्थकरदेशनाया अचिन्त्यपुण्यसामर्थ्यादनिर्वचनीयपरबोधाश्रयोपात्तकर्मविपाकाद्विभेदतः श्रोतृभेदेन विचित्रतया परिणमनाद् यथाभव्यमुपक्रिया भवतीति न देशनावैचित्र्यात् सर्वज्ञवैचित्र्यसिद्धिः / यदाह"एकाऽपि देशनैतेषां, यद्वा श्रोतृविभेदतः। अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते // 1 // यथाभव्यं च सर्वेषामुपकारोऽपितत्कृतः। जायले वन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता'' |2| प्रकारान्तरमाह(चित्रेति) वाऽथवा तत्तन्नयैर्द्रव्यास्तिकादिभिः कालादियोगतो दुःषमादियोगमाश्रित्य यन्मूला यद्वचनानुसरिणी चित्रा नानारुपा देशना कपिलादीनामृषीणां तस्य सर्वज्ञस्य प्रतिक्षेपः, भावं तत्तद्देशनानयाभिप्रायमजानतोऽयुक्तः आर्यापवादस्यानाभोगजस्यापि महापापनिबन्धनत्वात्। तदुक्तम्'यद्वा तत्तन्नयापेक्षा, तत्तत्कालादियोगतः / ऋषिभ्यो देशना चित्रा, तन्मूलैषाऽपि तत्त्वतः / / 1 / / तदभिप्रायमज्ञात्वा, न ततोऽर्वाग्दृशां सताम्। युज्यते तत्प्रतिक्षेपो, महानर्थकरः परः।।२।। निशानाथप्रतिक्षेपो, यथाऽन्धानामसङ्गतः। तद्भेदपरिकल्पश्च, तथैवार्वागदृशामयम्॥३॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy