SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ कुणिमाहार 581 - अभिधानराजेन्द्रः - भाग 3 कुतक कुणिमाहार पुं० (कुणपाहार) कर्मधारयसमासः / मांसभोजने, भ० 8 श०६ उ० / कुणपः शबस्तद्रसोऽपि वशादिः कुणपः, तदाहारः / मृतकभक्षके, भ०७ श०६ उ०। जं०। कुतक पुं० (कुतर्क) कुयुक्तौ, अष्ट०१६ अष्ट०। अथ कुतर्कत्यागत्रिंशिकाजीयमानेऽत्र राजीव, चमूचरपरिच्छदः। निवर्तते स्वतः शीघ्रं, कुतर्कविषमग्रहः ||1|| (जीयमान इति) जीयमानेऽत्रावेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये स्वत एवात्मनैवापरोपदेशेन शीव्रम्, कुतर्क एव विषमग्रहो दृश्टापायहेतुत्वेन क्रूरग्रहः कुतर्कस्य विषमग्रहः कुटिलावेशरूपो विनिवर्त्तते। राज्ञि जीयपमान इव चमूचरपरिच्छदः / / 1 / / शमाऽऽरामानलज्वाला, हिमानी ज्ञानपङ्कजे। श्रद्धाशल्यं स्मयोल्लासः, कुतर्कः सुनयार्गला ||2|| कुतर्केऽमिनिवेशस्तदा, न युक्तो मुक्तिमिच्छताम्। युक्तः पुनः श्रुते शीले, समाधौ शुद्धचेतसाम् // 3|| उक्तं च योगमार्गहस्तपोनिधूतकल्मषैः / भावियोगिहितायो-मोइदीपसमं वचः॥४॥ वादाँश्च प्रतिवादाश्च, वदन्तो निश्चितांस्तथा। तत्वान्तं नैव गच्छान्ति, तिलपीलकवद् गतौ // 5 // विकल्पकल्पनाशिल्पं, प्रायोऽविद्याविनिर्मितम्। तद्योजनामयश्चात्र, कुतर्कः किमनेन तत् ?||6|| शमेति व्यक्तः ॥श (कुतर्केति) श्रुते आगमे, शीले परद्रोहविरतिलक्षणे, समाधौ ध्यानफलभूते / / 3 / / (उक्तं चेति) उक्तं च निरूपितं पुनर्योगमार्ग रध्यात्मविद्धि पतञ्जलिप्रभृतिभिस्तपसा निर्धूतकल्मषैः प्रशमप्रधानेन तपसा क्षीणमार्गानुसारिबोधबाधकमोहमलैर्भावियोगिहिताय भविष्यद्विवादबहुलकलिकालयोगिहितार्थम्, उचैरत्यर्थ, मोहदीपसमं मोहान्धकारप्रदीपस्थानीयं, वचो वचनम्॥४॥ (वादाँश्चेति) वा दाँश्च पूर्वपक्षरूपान् प्रतिवादाँश्च परोपन्यस्तपक्षप्रतिवचनरूपान् वदन्तो बुवाणाः, निश्चितान् असिद्धानैकान्तिकादिहेत्वाभासनिरासेन / तथा तेन प्रकारेण तत्तच्छास्त्राप्रसिद्धेन सर्वेऽपि दर्शनिनो मुमुक्षवोऽपि, तत्वान्तमात्मादितत्वप्रद्धिरूपं, न नैव, गछन्ति प्रतिपद्यन्ते, तिलपीलकवत्तिलपीलक इव निरुद्धाऽक्षिसंचार, स्तिलयन्त्रवाहनपरः। यथा नित्यं भ्राम्यन्नपि निरुद्धाक्षतया न तत्परिमाणमवबुध्यते, एवमेतेऽपि वादिनः स्वपक्षाभिनिवे शान्धाः विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्त इति॥५॥ (विकल्पेति) विकल्पाः शब्दविकल्पा अर्थविकल्पाश्च, तेषां कल्पनारुपं शिल्पं, प्रायो बाहुल्येनाऽविद्याविनिर्मितं ज्ञानावरणीयादिकर्मसंपर्कजनितं, तद्योजनामयस्तेदकधारात्मा चात्र कुतर्कस्तत्किमनेन मुमुक्षूणां, दुष्टकारणप्रभवस्य सत्कार्याहेतुत्वात्।६। जातिप्रायश्च बाध्योऽयं,प्रकृतान्यविकल्पनात्। हस्ती हन्तीति वचने,प्राप्ताप्राप्तविकल्पवत् / / 7 / / स्वभावोत्तरपर्यन्त एषोऽत्रापिच तत्त्वतः। नागिदृगज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् // 8 // (जातिप्रायश्चेति) जातिप्रायश्च दूषणाभासकल्पश्च, बाध्यः प्रतीतिफलाभ्यामयं कुतर्कः / प्रकृतान्यस्योपादेयाद्यतिरिक्तस्याऽप्रयोजनस्य वस्त्वंशस्य विकल्पनात, हस्ती हन्तीति वचने हस्यारूढेनोक्ते प्राप्ताप्राप्तविकल्पवन्नैयायिकछात्रस्य, यथा ह्ययमित्थं वक्तारं प्रतिकिमयं हस्ती प्राप्त व्यापादयत्युताप्राप्तम् ? आधे त्वामपि व्यापादयेदन्त्येजगदपीति विकल्पयन्नेव हस्तिनागृहीतो मिण्ठेन कथमपि मोचितः, तथा तथाविधविकल्पकारी तत्तदर्शनस्थाऽपि कुतर्कहस्तिना गृहीतः सद्गुरुमिण्ठेनैव मोच्यत इति / / 7 / (स्वभावेऽति) एष कुतर्कः स्वभावोत्तरपर्यन्तः, अत्रच "वस्तुस्वभावैरुत्तरं वाच्यम्' इति वचनात्। अत्रापि च स्वभावेनार्वागदृशश्छद्मस्थस्य ज्ञानगम्यत्वं तत्वतः। अन्यथा क्लृप्तस्यैकेन वादिना स्वभावस्याऽन्येनान्यथाकल्पनात्॥८|| तथाहिअपां दाहस्वभावत्वे, दर्शिते, दहनान्तिके। विप्रकृष्टेऽप्ययस्कान्ते, स्वार्थशक्तेः किमुत्तरम् ? ||9|| दृष्टान्तमात्रसौलभ्यात्तदयं केन बाध्यताम्। स्वभावबाधने नालं, कल्पनागौरवादिकम् / / 10 / / (अपामिति) अपां शैत्यस्वभावत्ववादिनं दहनान्तिके दाहस्वभावत्वे दर्शितेऽध्यक्षविरोधपरिहाराद् विप्रकृष्टऽप्ययस्कान्ते स्वार्थशक्तेर्लोहाकर्षणशक्तेर्विप्रकर्षणमात्रस्याप्रयोजकत्वात् किमुत्तरम् ? अन्यथावादिनः स्वभावस्यापर्यनुयोज्यत्वाद्विशेषस्याविनिगमात्। तदुक्तम् - "अतोऽग्निः क्लेदयत्यम्बु, सन्निधौ दहतीति च / अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः // 1 // कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः। विप्रकृष्टोऽप्ययस्कान्तः, स्वार्थकृद् दृश्यते यतः" ||2|| (दृष्टान्तेति) दृष्टान्तमात्रस्य सौलभ्यात्तत्तस्मादयमन्यथा स्वभावविकल्पकः कुतर्कः केन बाध्यताम् ? अग्निसन्निधावपा दाहस्यभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह स्वभावस्योपपत्तिसिद्धस्य बाधने कल्पनागौरवादिकं नालं न समर्थ, कल्पनासहस्रेणाऽपि स्वभावस्यान्यथाकर्तुमशक्यत्वात् / अत एव न कल्पनालाघवेनापि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् / अथ स्वस्य भावोऽनागन्तुको धर्मो नियतकारणत्वादिरूप एव, स च कल्पनालाघवज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेन्न, गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्यात्प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् // 10 // द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः। धियां निरालम्बनतां, कुतर्कः साधयत्यपि // 11 // तत् कुतर्केण पर्याप्तमसमञ्जसकारिणा। अतीन्द्रियार्थसिध्दयं नावकाशोऽस्य कुत्रचित्॥१२।। (द्विचन्द्र इति) द्विचन्द्रस्वप्रविज्ञाने एव निदर्शने उदाहरणमात्रे तद्वलादुत्थितः कुतर्क : धियां सर्वज्ञानानां, निरालम्बन तामलीक विषयतामपि साधयति / / 11 / / (तदिति) तदसमज सकारिणा प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण, अ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy