________________ कुडतर 580- अभिधानराजेन्द्रः - भाग 3 कुणिम यत्रान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते तत्त्यागः। ध०३ अधि०। प्रश्न०। कुढ पुं० (कुठ) 'कुठ छेदने छत्रर्थे कर्मणि कः / "ठो ढः" 18111166 / इति ठस्य ढः / प्रा०१ पाद। वृक्षे, वाच०। कुठार पुं०,स्त्री० (कुठार) कुठ करणे आरन्। "ठो ढः"||१।१६६। इतिठस्यः ढः / प्रा०१पाद। परशौ, अनु०स्त्रीत्वे गौरा० डीए ! वाच०। परशु-पशु-स्वधितिपर्यायाः। वाच०। कुढाल पुं० (कुठार) स्त्री०। कुढारशब्दोक्तार्थे, अनु०। कुण-धा०-(कृ)करणे "कृगेः कृणः" ||465 // कृगेः कुण इत्यादेशो वा भवति। "व्यञ्जनाददन्ते" / / 4 / 236 / इत्यन्तेकारः / प्रा०४ पाद / कुणइ, करइ, करोति।। कुणंत त्रि० (कुर्वत्) विदधति, जी०१ प्रति०। कुणकपुं०(कुणक) कुहणवनस्पतिभेदे, प्रज्ञा०१पद। आचा०। कुणमाण त्रि० (कुणवत्) विदधति, "पुढवाइयाणाइवायं कुणमाणे सवले" आव०४ अ०/आचा०॥ कुणव पुं० (कुणप) क्वण-कपन् संप्र०। "पो वः।"८११२३१। इति पस्य वः / ग्रा०१ पाद। त्यक्तप्राणे, मृतदेहे, शबे, पूतिगन्धे, अस्त्रभेदे, वाच०। कुणाल पुं० (कुणाल) श्रेणिकसुतकोणिकसुतोदायिपट्टोदितनवनन्दपट्टोद्भूतचन्द्रगुप्तसुतबिन्दुसारसुताऽशोकश्रीसुते, कल्प० / यस्य पुत्रः सम्प्रतिनामा परमार्हतोऽभूत्। कल्प०८ क्षण। तस्यान्धीभूतत्वे कथानकं चेदम् पाटलीपुत्रनामनगरे मौर्यवंशसमुद्भवोऽशोक श्रीनमि भूपालः। तस्य चैकस्या राज्याः कुणालनामा तनयः समुत्पन्नः। तस्य च भुक्तौ उज्जयिनी नगरी नरपतिना प्रदत्ता / ततश्च सातिरेकाष्टवर्षिक तस्मिन् कुमारे लेखवाहकेनागत्य अशोक श्रीराजाय निवेदितम्, यथा-एतावति वयसि वर्तते युष्मत्पुत्रः / ततश्चान्तःपुरोपविष्टन भूपतिना स्वहस्तेनैव लिखितः कुमाराय लेखः / तस्य तत्र चेदमलेखियथेदानीमधीयतां कुमारः ।तंच लेखमसंवर्तितमेव मुक्त्वा शरीरचिन्तार्थमुत्थितो नरनाथः ततश्चैकया राज्ञया गृहीत्वा वाचितोऽसौ लेखः / चिन्तितं च यथामामापि विद्यते पुत्रः, केवल लघुरसौ, महांश्च कुणालः, ततस्तस्मिन् राज्ययोग्यतां विभ्रतिन मदीयपुत्रस्य राज्याऽऽवाप्तिः, ततस्तथा करोमि यथा कुणालो राज्यस्याऽयोग्यो भवति, अववसरश्चायम्। इति विचिन्त्य निष्ठीवनार्दीकृतया हस्तस्थितनयनाञ्जनशलाकयाऽकारस्योपरि प्रदत्तो बिन्दुः। जातंच ततो अन्धीयतां कुमारः। ततस्तथैव राया मुक्तस्तत्रैव प्रदेशे लेखः राज्ञाऽपि कथमपि पुनरवाचित एव संवर्तितोऽसौ / गतश्च कुमारसमीपम् / अवधारितश्च केनापि नियोगिना, अप्रकटश्च विरुद्ध इति मत्वा न वाचितः / कुमारनिर्बन्धे च वाचितः। ततो विज्ञातलेखार्थेन प्रोक्तं कुमारेण मौर्यवंशोद्भवानामस्माकमाज्ञां भुवनेऽपि न कश्चित खण्डयति, ततः किमहमेव तातस्याज्ञा लड्न यिष्यामि ? न भवत्येवैतदित्युक्त्वा तत्क्षण एवाग्नितप्तांलोहशलाकांगृहीत्वा मुक्तहाहारवे सर्वस्मिन्नपि परिजने निवारयत्यजिते अक्षिणीः जातश्चान्धः / ततो विज्ञातसमस्तैतद्व्यतिकारो राजा महान्तं खेदं विधाय कुणालस्योजयिनी मुत्सार्योचितं किमप्यन्य ग्राममात्रं दत्तवान्। तत्रच स्थितेन | कुणालकुमारेण शिक्षिता प्रकर्षवती गीतकला। पुत्रश्चान्यदा तस्य समुत्पन्नः। ततस्तद्राज्यावाप्तिनिमित्तं गतः पाटलीपुत्रं नगरं कुणालः / समाक्षिप्तश्चातीव तन्नगरनिवासी समस्तोऽपि लोकस्तेन गीतकलया। गताच तत्प्रसिद्धिः। भूपालान्तिकं नीतश्चासौ। तत्र कृतंच यवनिकान्तरे तेन गीतमतीवाऽऽक्षिप्तश्च जगाद पृथिवीपतिः याचस्व भोः! प्रयच्छामि तव समीहितम्। ततः पठितं कुणालेनचंदगुत्तपपुत्तो उ, विंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधो जायइ कागणिं // 862 / / अस्याऽयं भावार्थः-पाटलीपुरनगरे चाणक्यप्रतिष्ठितो मौर्यः प्रथम किल चन्द्रगुप्तो राजा बभूव। ततस्तपुत्रो बिन्दुसारः समभूत्। तदनन्तरं तुतत्पुत्रोऽशोकश्रीतिः। तस्य चान्धोऽसौ कुणालः पुत्रः। एवं च सत्येष चन्द्रगुप्तस्य प्रपौत्रः, बिन्दुसारस्य तु नतृकः पौत्रः, अशोकश्रीभूपतेस्तु पुत्रः, काकणिं क्षत्रियभाषया राज्यं याचत इति / ततो यवनिकापगम कारयित्वा किञ्चित्सकौतुकेन राज्ञा सविशेष पृष्टः सर्वमपि स्वव्यतिकरं कुणालः कथयामास / ततः पृथिवीपतिना पृष्टः अन्धस्त्वं राज्येन कि करिष्यसि ? तेन प्रोक्तम्-देव! मम राज्याहः पुत्र उत्पन्नो वर्तते / राज्ञा प्रोक्तम-कदा ? / कुणालः प्राहसम्प्रति / तत सम्प्रतिरित्येव तस्य नाम प्रतिष्ठितम्। राज्यं च तस्मै प्रदत्तमिति। तदेवं यथेहाकारस्योपर्येकेनाप्यऽधिकेन बिन्दुना कुमारस्य नेत्रापायो जातः तथा सूत्रेऽपि बिन्द्वाद्याधिक्यादर्थान्तरप्राप्त्या सर्वानर्थसंभव इति भावनीयमिति / 862 / विशेगावृता आचार्यजिनदेवसत्कभदन्तमित्रस्य भ्रातरि, आव०४ अ०। ('पणिहि' शब्दे कथा) कुणालणयर न० (कुणालनगर) उज्जायिन्याम्, "आसी कुणालनगरे रायनामेण वेसमणदासो।" कुणालनगरे उज्जयिन्यामित्यर्थः / संथा। कुणाला स्त्री० (कुणाला) स्वनामख्यातायां नगर्याम्, 'कालाख्ये नरकावासे, संजायेते स्म नारकौ / कुणालाया विनाशस्य, कालाद् वर्षे त्रयोदशे"। आ०काआ०मला ऐरावतीनाम नदी कुणालाया नगाः समीपे जनार्द्धप्रमाणेनोद्वहति, 04 उ०। ग० / उत्तरस्यां दिशि आर्यजनपदभेदे, बृ०१ उ०। यत्र श्रायस्ती नगरी। प्रव० 274 द्वार / स्था०1"तेणं कालेणं कुणाला नाम जणवए होत्था तत्थ णं रुप्पी णाम राया होत्था" ज्ञा०१ श्रु०८ अ०। स्था०। कुणि पुं० (कुणि) कुण-इन् / तुन्दुवृक्षे, वाच० / गर्भाधानदोषाद हस्वैकपादे न्यूनैकपाणौ कुण्टे, प्रश्न०५ संव० द्वार / आचा० / पादविकले, वृ०१ उ०। कुणआ (देशी) वृत्तविवरार्थे, दे० ना०२ वर्ग। कुणिम न० (कुणप) पुं०। मांसे, स्था०४ ठा०४ उ०। उपा०। औ० / व्य० / पिं० / सूत्र० / शवे, तद्रसे वसादौ, भ०७ श०६ उ० / अनु० / प्रश्न०। "ते दुन्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति त्ति' / कुणिमे रुधिराद्याकुले / सूत्र०१ श्रु०५ अ०१ उ० / दी०। मांसपेशीरुधिरपूयान्त्रफिफिसकल्मषाकुले सर्वामध्याधमे बीभत्सदर्शने हाहारवाक्रन्देन कष्टमा तावदित्यादिशब्दावधीरितदिगन्तराले परमाधमे नरकावासे, सूत्र०१श्रु०५ अ०१ उ०।