________________ कुंभीर 573 - अभिधानराजेन्द्रः - भाग 3 कुकुइय येत मानवः" / (कम्मविवाग शब्दे वेदनाविस्तरः) कीट भेदे, वाच०। आचा०। कुकम्म न० (कुकर्मन्) कुत्सितं कर्म / नित्य स०ा लोकशास्त्रनिन्दिते कर्मणि, तद्युक्ते, त्रि० / स्त्रियां डीए / वाच० / कुत्सितं कर्म येषां ते कुकर्माणः / अस्थिकेषु, ओघo कुकम्मि (ण) त्रि० (कुकर्मिन्) अङ्गारदाहककुम्भकारायस्कासदिषु कुत्सितकर्मकेषु, सूत्र०१ श्रु०७ अ०। कुकिचन० (कुकृत्य) प्राणातिपातारम्भादिकृत्ये "कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यमेव च। द्वा०२२ द्वा०। कुकुहाइयन० (कुकुहायित) गतिकाले शब्दविशेषे, तं०। कुकुअ त्रि० (कुत्कुच) कुदिति कुत्सायां निपातो, निपातानामानन्त्यम्। कुत्सितं च कुचति भूनयनोष्ठनासाकरचरणवदनविकारैः संकुचतीति कुत्कुचः / ध०२ अधि०। अथवा कुत्सितः कुचः कुकुचः। संकोचादिक्रियावति, प्रव०६ द्वार। कुकूज त्रि०। कुत्सितं कूजति आक्रदन्ति इति कुकूजः। आक्रन्दं कुर्वति, उत्त०२१अ०। कुक्कुआस्त्री० (कुचकुचा) अवस्यन्दने, बृ०६ उ०। कुकुइय पुं० [ कौकुचिक (त) ] कुचण अवस्यन्दने इति वचनात् कुत्सितमप्रत्युपेक्षितत्वादिना कुचितमवस्यन्दितं यस्य स कुकुचितः / स एव प्रज्ञादिदर्शनात् स्वार्थिकाण्प्रत्यये कौकुचितः।कुकुचा अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः / बृ०६ उ० / औ० / कौकुच्यं भण्डचेष्टादिहास्यमुखविकारादिकं , तत्करोतीति कौकुचिकः / भाण्डचेष्टादिकारिणि, उत्त०१७ अ०! स्था०। भाण्डे, भाण्डप्राये च। भ०६श०३१ उ० / "कप्पस्य पलिमंथू पण्णत्ता / तं जहा कुक्कुइए संजमस्स पलिमंथू"कौकुचिकः संयमस्य प्रतिमन्थुः। कौकुचिकव्याख्यानायाऽऽहकोकुइअ संयमस्स उ, मोहरिए चेव सचवयणस्स। इरियाएँ चक्खुलोलो, एसणसमिईएँ तितिणिए॥१॥ णासेति मुत्तिमग्गं, लोभेण णिदाणताएँ सिद्धिपहं। एतेसिं तु पदाणं, पत्तेयपरूवणं वोच्छं // 2 // कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुलोलः ईर्यासमितेः, तिन्तिणिक एषणासमितेः परिमन्थुरिति प्रक्रमादवगम्यते / लोभेन च मुक्तिमार्ग नाशयति, निदानतया तु सिद्धिपथम्। एतेषां पदानां प्रत्येकं प्ररूपणां वक्ष्ये। प्रतिज्ञातमेव करोतिठाणे सरीरभासा, तिविधो पुण कुक्कुइय समासेणं / चलणे देहे पत्थर, सविगार कहक्क लहुओ य / / स्थाने स्थानविषयः, शरीरविषयो, भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः / तत्र स्थानकौकुचिको यश्चलनमभीक्षणं भ्रमणं करोति, देहं शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति, यस्तु | सविकारं परस्य हास्योत्पादकं भाषते, कहकहवा महता शब्देन हसति स भाषाकौकुचिकः। एतेषु त्रिष्वपि प्रत्येकं मासलघु। आणाइणो य दोसा, विराहणा होइ संजमायाए। जंतं व पट्टिया वा, विराहण मतेल्लए सुत्ते / / आज्ञादयश्च दोषाः, संयमे आत्मविराधना भवति, यन्त्रकवन्नर्तिकावता भ्राम्यन् कौकुचिक उच्यते। यस्तुमहताशब्देन हसति तस्य मक्षिकादीनां मुखप्रवेशेनं संयमविराधना, शूलादिरोगप्रकोपेनात्मविराधनाः (मएल्लए सुत्ते ति) मृतदृष्टान्तः, सुप्तदृष्टान्तश्चात्र हास्यदोषोदये भवति, स चोत्तरत्र दर्शयिष्यते। अथैतदेव नियुक्तिगाथाद्वयं विभावयिषुः स्थानकौकुचिकं व्याचष्टेआवमइ खंभकुड्डे, अभिक्खणं भमति जंतए चेव / कमफंदण आउंटण, ण यावि वद्धासण हाणे / / इहोपविष्ट ऊर्द्धस्थितो वा स्तम्भे कुड्ये य आपतति, यन्त्रकमिव वा अभीक्ष्णं भ्रमति, क्रमस्य पादस्य स्पन्दनमाकुञ्चनं वा करोति, न च नैव, बद्धासनो निश्चलासनस्तिष्ठति कौकुचिकः। अत्रामी दोषाःसंचारोवतिगादी, संजम आया विहिच्छुगादीया। उद्धद्ध कुहिय मूले, चंड फडते य दोसा तु। संचरकाः कुड्यादौ संचरणशीला ये उवइकादय उद्देहिकाकुन्युकीटिकाप्रभृतयो जीवास्तेषां या विराधना सा संयमविषया मन्तव्या / आत्मविराधनायामहिवृश्चिकादयस्तत्रोपद्रवकारिणो भवेयुः / यदि वा तत्र स्तम्भादौ स आपतति तदू धो, मूले वा कुपितं भवेत् ततस्तस्य पतने परितापनादिका ग्लानारोपणा (चंड फडते य त्ति) अभीक्ष्णमितस्ततोः भ्राम्यतः संधिविसन्धी भवेदित्यादयो बहवो दोषाः, एवमुत्तरत्रापि दोषा मन्तव्याः। अथ शरीरकौकुचिकमाहकरगोफणधणुपादा दिएहि उच्छुभति पत्थरादीए। भमुगादादिगथणपुत विकंपणं णट्टवाइत्तं / / करगोफणधनुष्पादादिभिः प्रस्तरादीन् य उत्प्राबल्येन क्षिपति स शरीरकौकुचिकः भुदाढिकस्तनपुतानां विकम्पनं विविधमनेकप्रकारैः कम्पनं यत्करोति तत् नृत्तपातित्वमुच्यते, नर्तकीत्वामित्यर्थः / एतेन "नट्टिया व त्ति" पदं व्याख्यातं प्रतिपत्तव्यम् / गतः शरीरकौकुचिकः। अथ भाषाकौकुचिकमाहछेलिय मुहवाइत्ते, जंपति वयणं जह परो हसति / / कुणइ य रुए वहुविधे, वग्घाडिय देसभासा य॥ सेण्टितं मुखवादित्रं करोति। तथा च वचनं जल्पति यथा परो हसति। बहुविधानि वा मयूरहंसकोकिलादीनां जीवानां रुतानि करोति / वग्धाडिका उग्घट्टककारिणी, देशभाषा वा मालवमहाराष्ट्रादिदेशप्रसिद्धा, तादृशी भाषां भाषते यथा सर्वेषामपि हास्यमुपजायते, एष भाषाकौकुचिकः।