SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ एगावाइ 35- अभिधानराजेन्द्रः - भाग 3 एगावाइ रंमुत्कर्षापकर्षभेदादनन्तभेदस्तेन भेदादनन्तभेदा एवेति तदेवं भावितं (नाणाजीवा इत्यादि) पूर्वार्द्धमिदानीं सुख-दुःखेत्याधुत्तरार्द्ध भावयन्नाह / / एगत्ते सव्वगय-त्त ओयन सोक्खादओ नभस्सेव। कत्ता भोत्ता मंता, न य संसारी जहागासं // एकत्वे जीवानां सुखदुःखबन्धमोक्षादयो नोपपद्यन्तेसर्वगत-त्वान्नभस इव / यत्र तु सुखादयो न तत्सर्वगतं यथा देवदत्त इति। किंचन कर्ता न भोक्तान मन्तान संसारी जीवः एकत्वात् सर्व-जीवानां, यच्चैकं न तस्य कर्तृत्वादयो यथा नभस इति। अपि च। एगत्ते नत्थि सुही, बहुयरुवघाउत्ति देसनिरुओव्व। बहुतरबद्धत्तणउ य, न य मुक्को देसमुक्को व्व // इदमत्र हृदयं नारकतिर्यगादयोऽनन्ता जीवा नानाविधशरीरमानसा यथा तैर्दुःखिता एव तदनन्तभागवर्तिनस्तु सुखिनः / एवमनन्ता बद्धास्तदनन्त भागवर्तिमस्तुमुक्तास्तेषां चैकत्वेन कोऽपि सुखी प्राप्नोति बहुतरोपघातान्वितत्याद्यथा सर्वाङ्गरोगग्रस्तोऽङ्गुल्यैकदे-शेन नीरोगो यज्ञदत्तः एवंन कोऽपि मुक्तो घटते बहुतरबद्धत्वाद्यथा सर्वाङ्गकीलितोऽहुल्येकदेशमुक्तस्तस्मादेकत्वे सुखाद्यनुपपत्ते-नानात्वं जीवानामिति स्थितम् (विशे०) तथा च नन्द्यध्ययने आत्मवादिमतमुपक्रम्य आत्मवादिनो नाम पुरुषएवेदं सर्वमित्यादि प्रतिपन्नास्तन्मतनिराकरणं च तत्रैव पुरुष एवेदमिति समिति प्रतिपन्नस्तेऽपि महामोहोरगगरलपूरमूर्छि तमानसा वेदितव्या-स्तथाहि यदि नाम पुरुषमात्ररूपमद्वैतत्वंतर्हि यदितदुपलभ्यते सुखितदुःखितत्वादितत्सर्व परमार्थतोऽसत्प्राप्नोति ततश्चैवं स्थिते यदेतदुच्यते प्रमाणतोऽधिगम्य संसारनैगुण्यं तद्विमुखया प्रज्ञया तदुच्छेदाय प्रवृत्तिरित्यादि तदेतदाकाशकुसुमसौर-भवर्णनोपमानमवसेयम्। अद्वैतरूपे हि तत्वे कुतो नरकादि-भवभ्रमणरूपः संसारो यन्नैगुण्यमवगम्य तदुच्छेदाय प्रवत्तिरूपपद्येत। यदप्युच्यते पुरुषमात्रमेवाद्वैतत्वं यत्तु संसारनैर्गुण्यं भावभेददर्शनं चतत्सर्वदा सर्वेषामविगानप्रतिपत्तावपि चित्रे निम्नोन्नतभेददर्शनभिव भ्रान्तमवसेयमिति तदप्यचारू एतद्विषय-वास्तवप्रमाणाभावात्। तथाहि नाद्वैताभ्युपगमे किं चिदद्वैतग्राहकं ततः प्रथग्भूतं प्रमाणमस्ति द्वैतत्वप्रशक्तैः नच प्रमाणमन्तरेण निष्प्रतिपक्षा तत्वव्यवस्था भवति माप्रापत्सर्वस्य सर्वेष्टार्थ-सिद्धिप्रसङ्गः तथा भ्रान्तिरपि प्रमाणभूतादद्वैताद्भिन्नाऽभ्युप-गन्तव्या अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव मवेत्तदब्यति-रेकात्तत्स्वरूपवत्। तथाच कुतस्तत्वव्यवस्था भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः अपिच यदीदं स्तम्भे भकुम्भाम्भोरुहादिभेददर्शनभ्रान्तमुच्यतेतर्हि नियमात्तदपिक्वचित्सत्यमवगन्तव्यमभ्रान्तदर्शनमन्तरेण भ्रान्ते-रयोगात् न खलु येन पूर्वमाशीविषो दृष्टस्तस्य रज्ज्चामाशी-विषभ्रान्तिरुपजायते तदुक्तम् "नादृष्टपूर्वसर्पस्य रज्ज्वां सर्पमतिः क्वचित्। ततः पूर्वानुसारित्वाद्भ्रान्तिरभ्रान्तिपूर्विका" 1 तत एवमप्यव्याहतो भेदः / अन्यच्च पुरुषाद्वैतरूपतत्वमवश्यं पूर्व परस्मै निवेदनीयं नात्मने आत्मनो व्यामोहाभावात् विमोहश्चेदद्वैत-प्रतिप्रतिरेवन भवेत्। अथोच्येत यत एव व्यामोहोऽत एव तन्निवृत्त्यर्थ मात्मनोऽद्वैतप्रतिपत्तिरास्थेया तदयुक्तमेवं / सति अद्वैतप्रति-पस्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागो-ऽपररूपस्य चाव्याप्तेयामूढतालक्षणस्योत्पत्तिरित्यद्वैतप्रतिज्ञा-हानिः परस्मैच प्रतिपादयन् नियमतः परमभ्युपगच्छेत्परंवाऽ-- भ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्माचारोत्यादि वदन्निव कथं नोन्मत्तः स्यपराभ्युपगमेनाद्वैतवचसो बाधनादिति यत्किंचिदेतत् (नंदी०) तथाच सम्मति तर्केऽद्वैतमात्रस्य तात्विकत्वं निराकृत्विम् तथाहि अपरस्तु कार्य-कारणभावस्य कल्पनाशिल्पिविरचितत्वात् तदुभयव्यतिरिक्त-मद्वैतमात्रं तत्वमित्यभ्युपपन्नस्तन्मतमपि मिथ्या, कार्यकारणो-भयशून्यत्वात्खरविषाणवदद्वैतमात्रस्य व्योमोत्पलतुल्यत्वात् / तथाह्यद्वैतप्रतिपादकप्रमाणस्य सद्भावे द्वैतापत्तितो नाद्वैतं प्रमाणाभावे अद्वैतासिद्धेः प्रमेयसिद्धेः प्रमाणंनिबन्धनत्वात् / किंचाद्वैतमिति प्रसज्यप्रतिषेधः पर्युदासो वा प्रसज्यपक्षे प्रतिषेधमात्रपर्यवसानत्वात्तस्य नाद्वैतसिद्धिः प्रधानोपसर्जन-भावेनाङ्गाङ्गिभावकल्पनायां द्वैतप्रसक्तिः द्वितीयपक्षेऽपि द्वैत सप्रसक्तिरेव प्रमाणान्तरप्रतिपन्ने द्वैतलक्षणे वस्तुनि तत्प्रतिषेधेनाद्वैतसिद्धः। द्वैतादद्वैतस्य व्यतिरेके च द्वैतप्रसक्तिरेव पररूपव्यावृत्तस्वरूपाव्यावृत्तात्मकत्वेन तस्य द्विरूपिताप्रसक्तेरव्यतिरेके पुनद्वैतप्रसक्तिनचाद्वैतस्यापि विद्यमानत्वात् द्वैताव्यावृत्तता- संभवो विद्यमानस्यापि विद्यमानाद्व्यावृत्तिप्रसक्तेरन्यथा सद्रूपभाग विशेषप्रसक्तिर्भवेत् / प्रमाणादिचतुष्टयसद्भावे च न द्वैतवादान्मुक्तिस्तदभावे शून्यतावादादि ति नाद्वैतकल्पना ज्यायसी। नच नित्यत्वाद् द्वैतकल्पना भावानामनेकत्वेऽपि युक्तिसंगता सर्वदा सर्वभावानां नित्यत्वे ग्राह्याग्राहकरूपताभावप्रसक्तेस्तद्भावादा-श्रयणं ग्राह्यग्राहकरूपताया विकारिताव्यतिरेकेण योगात्सा च कथञ्चिदेक स्याने-करूपानुषङ्गादिति कथं नानेकान्तसिद्धिः / द्रव्याद्वैतवादे रूपादिभेदाभावप्रसङ्गश्च न च चक्षुरादिसंबन्धात्तदेव द्रव्यं रूपादिप्रतिपत्तिजनकं सर्वात्मना तत्संबन्धस्य तथैव प्रतीतिप्रसक्तेः / रूपान्तरस्य तद्व्यतिरिक्तस्य तत्राभावात्। तत्र द्रव्याद्वैतमपि प्रधानाद्वैतं युक्तमेव सत्यादिव्यतिरेकेण तस्या- भावान्न च सत्वादे स्तदव्यतिरेकादद्वैतं प्रधानस्य सत्वाद्यव्यतिरिकात् द्वैतप्रसक्तेर्महदादिविकारस्य चाभ्युपगमे कथमद्वैतं विकारस्य च विकारिणोऽत्यन्तमभेदेन विकारीति प्रतिपादित भेदाभेदेऽनेकान्तसिद्धेव्यतिरेके द्वैतापत्तिरिति / (सम्भ०) ब्रह्माद्वैत य तात्विकत्वं प्रपञ्चस्य मिथ्यात्व च निराकृतं तद्यथा ब्रह्मवादं वावदूका वदन्ति युक्तं यदेषसकला- पलापी पापीयानपापस्य आत्मब्रह्मणस्तात्विकस्यसत्वात्। नवसरलसालरसालप्रियालहिंतालतालतमालप्रवालप्रमुख-पदार्थसार्थोऽप्यहमहमिकयाप्रतीयमानः कथं न पारमार्थिक स्यादिति वक्तव्यं तस्य मिथ्यारूपत्वात् / तथाहि प्रपञ्चो मिथ्याप्रतीयमानत्वाद्यदेवं तदेवं यथा शुक्तिशकले कलधौतं तथा चायं तस्मात्तथा तदेतदेतस्य न तर्ककार्कश्यं सूचयति। तथाहि मिथ्यात्वमत्र कीदृक्षमाकाशितं सूक्ष्मदृशा किमत्यन्ता-सत्त्वमुतान्यस्थान्याकारततया प्रतीतत्वमाहोश्चिदनिर्वाच्य-त्वमिति भेदत्रयी त्रिनेत्रनेत्रत्रयीव त्रौकते / प्राचि पक्षद्वये तदनङ्गीकारः परीहारः तार्तीयीक विकल्पे तु किमिदमनिर्वाच्यत्वं नाम किं निरुक्तियि रह एव निरुक्तिनिमित्तविरहो निःस्वभावत्वं वा / न प्रथमः कल्पः कल्पनार्हः सरलोऽयं सालोयमिति निश्चितोक्तेरनुभवात्। नापि द्वितीयःनिरुक्तेहि निमित्तं ज्ञानं वा स्याद्विषयो वा नप्रथमस्य विरहः सरलसालादिसंवेदनस्य प्रतिप्राणि प्रतीते पि द्वितीस्य यतो विषयः किंभावस्वरूपो नास्त्यभावरूपो वा / प्रथमकल्पनायामसत्ख्यात्यभ्युपगमप्रसङ्गः। द्वितीयकल्पनायां तुसत्ख्यानिरेवउभावपि न स्त इति चेत् ननु भावाभावशब्दाभ्यां लोकप्रतीति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy